घनवासनयोच्छूने मोहे घनतरात्मनि । मुहूर्त एव कल्पत्वं दुẖखित्वाद् अनुमीयते
यथा ब्रह्मणि ब्रह्मत्वं तथैवैतास् तदात्मिकाः । नामशब्दार्थरहितास् संस्थितास् स्वानुभूतयः
वासना दीर्घदुẖखाय प्रेक्षिता सा न विद्यते । नाहम् इत्य् एव संवित्त्या स्वयत्नेन विलीयते
अहन्तानुभवो दुẖखम् अनहन्तोदयस् सुखम् । दृषद्धृदयताभावाद् अलम् एतद् उदेति ते
परमं मौनम् आश्रित्य यथास्थितम् अवस्थितः । अखण्डम् एतद् आप्नोति नरो निर्विघ्नम् उत्तमम्
ब्रह्माभिधानास्ति शिलातिविस्तृता तस्यां त्रिलोकीचिरसालभञ्जिका । स्थिता भवाभावरयादिकात्मिका चित्तान्विताचित्तककाष्ठमौनिनी
अहन्ताबीजसङ्कल्पमात्रम् एवम् इदं मुने । अविद्यमानम् एवाति विद्यमानम् इव स्थितम्
एवं चेत् तद् वद ब्रह्मंल् लोके शास्त्रे श्रुतौ स्मृतौ । देहḫ पिण्डादिनोदेति मृतस्येति किम् उच्यते
यथा ब्रह्म तथैवास्ति सर्गो ऽयं नियमान्वितः । अतदन्यस् तदन्यत्वं सर्गताप्रत्ययाद् गतः
अत्र सर्गादिशब्दार्थो भूतादीन्य् उपसंस्थितः । भूतत्वं विद्धि भूतानाम् अहन्तामननात्मकम्
रागद्वेषात्मिका चैषा कलना नेतरात्मिका । इदम् एवम् इदं नैवम् इत्य् एकात्मस्वरूपिणी
सोदिता सर्गशब्दार्थकलना मानमानिनी । ब्रह्मादिनादिपुरुषरूपेणाहन्त्वरूपिणी
इदं कार्यम् इदं नेति नियमेन विना च सा । न भवत्य् आत्मनैतावन्मात्ररूपैकजीविता
ब्रह्मादितां गतायास् तु तस्यास् तवममात्मिकाम् । न भवत्य् अन्यता तस्मात् स्वभावात् परमात्मनः
तेन ब्रह्मादिताम् एत्य स्वरूपस्थैव तिष्ठति । नोपशाम्यति नोदेति निरिच्छत्वात् परात्मिका
भावाभावौ समाव् अस्या निष्कलङ्कात्मकस्थितेः । तेनैषास्ते समं वेत्ति नाभावं भवनं न च
यदोत्पन्नैव सा संविद् ब्रह्मादिकलनामयी । आत्मन्य् एव निरिच्छास्ते शान्तानुत्पन्नसन्निभम्
तद् एवम् अखिलं शान्तं व्योमेवानन्तकं स्थितम् । कम् अप्य् अकलितं कालं नास्माभिस् तद् विचार्यते
यदा तु सा मनस्सत्ता प्रसरन्ती स्वभावतः । आस्ते तदा तदाकारस् सर्ग इत्य् एव तिष्ठति
प्रसरन्त्या यथा नद्यास् स्वावर्तादिस्वरूपकम् । तथा सङ्कल्पसत्ताया जगदाद्यात्मकं वपुः
स्थितायास् सर्गसंवित्तेर् इदम् इत्थम् इदं त्व् इति । इति संस्थानरचनाद् ऋते सत्ता न विद्यते
विरिञ्चतादिसम्पन्ना यदात्मन्य् एव शाम्यति । इदम् इत्थम् इदं चेति तदा न भवति क्रमः
शान्तं सर्वगतं शून्यम् आस्ते ब्रह्मैव केवलम् । वारीवावर्तवत् सत्यं तद् अस्माभिर् न चर्च्यते
यदा त्व् आशु न निर्वाति स्वात्मसत्तात्मकं तदा । इदं कार्यम् इदं नेति सर्गदृष्ट्या प्रसर्पति
यत् कल्पनाविसरणं तत् सर्ग इति दृश्यते । विसारी चक्रकव्यूहस् तैलबिन्दुर् इवाम्भसि
यद् एव सर्गसंस्थानं सर्गसत्ताकरं परम् । तद् एवेत्थम् इदं त्व् इत्थम् इदम् अत्यर्थजृम्भणम्
इदम् इत्थम् इदं चेत्थम् इत्य् आस्ते यदि नेह तत् । कथम् ऊर्ध्वं भवेद् ऊर्ध्वम् अधश् चाधẖ कथं भवेत्
प्रतिभात्मनि सम्पन्ने सन्निवेशे जगत्स्थितेः । ब्रह्मादिरूपमननं मरुमार्गवृथाम्भसि
शब्दस्पर्शादयस् तस्यास् स्व एवावयवास् ततः । सङ्कल्पात्मान एवाशु सरूपालोकवेदनैः
परस्परं विवर्तन्ते पयांसीव द्रवौजसः । अर्थस् सत्ताम् उपादत्ते शब्दो ऽर्थम् अनुधावति