घटादिता घटांशादौ पटांशादौ पटादिता । वटांशादौ वटादित्वम् अवस्थात्रयसंस्थितौ
यथावद् भेदबुद्ध्येदं जगज् जाग्रति दृश्यते । उदेति योगयुक्तानाम् अत्र केवलम् आर्यता
अपरामृष्टतत्त्वस्य यत् पदार्थैकभावनम् । अम्लानं तद् भवेज् जाग्रद् असद् अस्तु सद् अस्तु वा
कर्तव्यम् आचरन् कार्यम् अकर्तव्यम् अनाचरन् । तिष्ठति प्रकृताचारो यस् स आर्य इति स्मृतः
यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् । व्यवहारम् उपादत्ते यस् स आर्य इति स्मृतः
प्राप्तं कर्मेन्द्रियैर् याति नाप्राप्तम् अभिवाञ्छति । हर्षामर्षमदोन्मुक्तो यस् स आर्य इति स्मृतः
प्रथमायाम् अङ्कुरितं भूमौ विकसितं ततः । फलीभूतं तृतीयायाम् आर्यत्वं योगिनो भवेत्
आर्यतायां मृतो योगी शुभसङ्कल्पसम्भृतान् । भोगान् भुक्त्वा कल्पितांश् च योगवाञ् जायते पुनः
आदेहं भावितं यत् स्यात् तद् देहान्ते ऽनुभूयते । तन् मुहूर्ते युगावस्था किं जीवेनानुभूयते
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । कालत्रयविभागस्थम् आद्यन्तपरिवर्जितम्
तद् ब्रह्मतिलतैलत्वं विद्धि ब्रह्मविदां वर । यथा तिले स्थितं तैलं तथेदं ब्रह्मणि स्थितम्
मरणं जीवितं चेष्टा जाड्यचित्त्वे सुखासुखे । इतीदं ब्रह्मणि ब्रह्म तिले तैलम् इव स्थितम्
माया जीवो मनश् चित्तम् ईहानीहा गतिर् जगत् । इतीदं ब्रह्मणि बृहत् तिले तैलम् इव स्थितम्
तिलो ऽन्तस्संस्थितं तैलं यथानुभवति स्वयम् । तथानुभवति ब्रह्म स्वस्मिन्न् एवान्तरे जगत्
चेतत्य् अन्तस् तिलस् तैलं क्वचित् पूर्वं क्वचित् परम् । क्वचिद् अल्पं क्वचिद् भूरि म्लानं शुद्धं क्वचिद् यथा
चेतत्य् अन्तस् तथा ब्रह्म क्वचिज् जाड्यं क्वचिच् चितिम् । क्वचिच् चित्तादि शैलादि क्वचिद् आकाशतां क्वचित्
क्वचिच् छून्यं क्वचित् स्पन्दं क्वचित् कालं क्वचिद् दिशम् । क्वचिच् छब्दं क्वचिच् छान्तं क्वचित् तनु क्वचिद् घनम्
तमस् तेजश् शुभं पापम् अहं त्वं तानि तत्र तत् । देशं तत्त्वम् अतत्त्वं प्राग् अद्य सत्त्वम् असद् बलम्
एवम् एकम् अनानैव नानेवास्ते परं पदम् । दण्डचक्रलताकारैस् तरङ्गैर् अम्ब्व् इवाम्भसि
एवं सर्वात्मनि तते क्वचित् किञ्चित् प्रकाशते । अद्वितीयम् अनाद्यन्ते द्रवत्वम् इव वारिणि
तन्मृतिप्रसरे राम मुहूर्तं जडताभ्रमे । चिराचिरप्रत्ययिनि प्रश्नस् ते नोपपद्यते
प्रतिभात्मनि विस्तारे यद् यथा प्रतिभासते । स एव तत् तथा तेन किम् इवात्र विकल्प्यते
किं द्रवस्पन्दने वारिमरुतोर् इव नो यथा । तयोस् तदात्मकतया युक्तḫ प्रश्नो भवादृशाम्
ब्रह्मात्मनि तथा सर्गे सर्गताप्रत्यये कृते । किं भूẖ किं खं किम् आशेति प्रश्नस् ते राम नोचितः
एतस्माच् च पदाच् छुद्धाल् लुठितानां भवार्णवे । भूतानां सुचिराभ्यस्ता वासनैवात्र कारणं
यद् यथा संविदाभ्यस्तं शैत्यौष्ण्यादि निजोदयम् । असद् एव द्विचन्द्राभं तत् स्वभावं विदुर् बुधाः
स्वभावस्य स्वभावं स्वम् अबुद्ध्वैव भ्रमाकुलाः । अविकल्प्यस् स्वभावो न इति निश्चयिनस् स्थिताः
असम्भवात् परे तत्त्वे स्वत्वभावदृशोḫ पृथक् । स्वभावो ब्रह्मणीत्य् उक्तिर् अमूला न विराजते
एवम् एव प्रवर्तन्ते इति भावा भवा इव । एवम् एव निवर्तन्ते इत्य् अवृत्तियुता इव
न जायते न म्रियते क्वचित् किञ्चित् कदाचन । सर्वं शान्तम् अनिर्देश्यं शैलोत्कीर्णम् इवाक्षयम्