भगवन् भूमिकामध्यमरणोक्तिप्रसङ्गतः । एतद् उक्तं त्वया सारम् इदानीं तद् उदाहर
परलोकगतो योगी शुभसङ्कल्पसंसृतौ । भोगान् सुरपुरे भुक्त्वा भूयो भवति कीदृशः
ततस् सुकृतसम्भारे दुष्कृते च पुराकृते । भोगक्षये परिक्षीणे जायन्ते योगिनो भुवि
शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् । असतां नैव पश्यन्ति पैशुन्याभिमुखं मुखम्
तत्र प्राग्वासनाभ्यस्तं योगभूमिक्रमं बुधाः । स्पृष्ट्वा परिपतन्त्य् उच्चैर् उत्तरं भूमिकाक्रमम्
तत्रोद्वेगमदग्लानिमोहमात्सर्यविभ्रमैः । दूरोज्झिताḫ प्रतिष्ठन्ते समं सोम्या इवेन्दवः
असंसक्तधियो धीरा धन्या धवलबुद्धयः । भवन्ति भवभारस्थास् तृतीयां भूमिकाम् इताः
जाग्रत्स्वप्नसुषुप्तांशतुर्यतुर्यातिगाभिधा । सप्तप्रकारा ब्रह्मात्मसत्तेयं पारमात्मिकी
भूमिकात्रितयं ह्य् एतद् राम जाग्रद् इति स्थितम् । तच् च ब्राह्मम् अवस्थानम् अन्यासम्भवसम्भृतम्
भूमिकात्रितये योगी सर्वं जाग्रद् इदं स्फुटम् । परिपश्यति संसारं पृथक्कार्यशताकुलम्
घटादिता घटांशादौ पटांशादौ पटादिता । वटांशादौ वटादित्वम् अवस्थात्रयसंस्थितौ
यथावद् भेदबुद्ध्येदं जगज् जाग्रति दृश्यते । उदेति योगयुक्तानाम् अत्र केवलम् आर्यता
अपरामृष्टतत्त्वस्य यत् पदार्थैकभावनम् । अम्लानं तद् भवेज् जाग्रद् असद् अस्तु सद् अस्तु वा
कर्तव्यम् आचरन् कार्यम् अकर्तव्यम् अनाचरन् । तिष्ठति प्रकृताचारो यस् स आर्य इति स्मृतः
यथाचारं यथाशास्त्रं यथाचित्तं यथास्थितम् । व्यवहारम् उपादत्ते यस् स आर्य इति स्मृतः
प्राप्तं कर्मेन्द्रियैर् याति नाप्राप्तम् अभिवाञ्छति । हर्षामर्षमदोन्मुक्तो यस् स आर्य इति स्मृतः
प्रथमायाम् अङ्कुरितं भूमौ विकसितं ततः । फलीभूतं तृतीयायाम् आर्यत्वं योगिनो भवेत्
आर्यतायां मृतो योगी शुभसङ्कल्पसम्भृतान् । भोगान् भुक्त्वा कल्पितांश् च योगवाञ् जायते पुनः
आदेहं भावितं यत् स्यात् तद् देहान्ते ऽनुभूयते । तन् मुहूर्ते युगावस्था किं जीवेनानुभूयते
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । कालत्रयविभागस्थम् आद्यन्तपरिवर्जितम्
तद् ब्रह्मतिलतैलत्वं विद्धि ब्रह्मविदां वर । यथा तिले स्थितं तैलं तथेदं ब्रह्मणि स्थितम्
मरणं जीवितं चेष्टा जाड्यचित्त्वे सुखासुखे । इतीदं ब्रह्मणि ब्रह्म तिले तैलम् इव स्थितम्
माया जीवो मनश् चित्तम् ईहानीहा गतिर् जगत् । इतीदं ब्रह्मणि बृहत् तिले तैलम् इव स्थितम्
तिलो ऽन्तस्संस्थितं तैलं यथानुभवति स्वयम् । तथानुभवति ब्रह्म स्वस्मिन्न् एवान्तरे जगत्
चेतत्य् अन्तस् तिलस् तैलं क्वचित् पूर्वं क्वचित् परम् । क्वचिद् अल्पं क्वचिद् भूरि म्लानं शुद्धं क्वचिद् यथा
चेतत्य् अन्तस् तथा ब्रह्म क्वचिज् जाड्यं क्वचिच् चितिम् । क्वचिच् चित्तादि शैलादि क्वचिद् आकाशतां क्वचित्
क्वचिच् छून्यं क्वचित् स्पन्दं क्वचित् कालं क्वचिद् दिशम् । क्वचिच् छब्दं क्वचिच् छान्तं क्वचित् तनु क्वचिद् घनम्
तमस् तेजश् शुभं पापम् अहं त्वं तानि तत्र तत् । देशं तत्त्वम् अतत्त्वं प्राग् अद्य सत्त्वम् असद् बलम्
एवम् एकम् अनानैव नानेवास्ते परं पदम् । दण्डचक्रलताकारैस् तरङ्गैर् अम्ब्व् इवाम्भसि
एवं सर्वात्मनि तते क्वचित् किञ्चित् प्रकाशते । अद्वितीयम् अनाद्यन्ते द्रवत्वम् इव वारिणि