अहोरात्रात्मनी तुच्छे प्रकाशतमसी तते । जन्तोḫ पवनदेहस्य च्छायाविहसने इव
अन्विष्यमाणम् अप्राप्यं जगत् स्फुरति खे परे । केशपिञ्छलवभ्रान्तिर् इवानिर्मलचक्षुषः
सुरासुरास् स्फुरन्तीमे छिन्नवृक्षपिशाचवत् । परिपश्यन्ति संसारं दग्धदेहकजीववत्
निश्श्वसन्ति च भस्त्रावद् विवर्तन्ते खधूमवत् । चिन्वन्त्य् अर्धप्रसुप्ताभं पश्यन्त्य् उद्भ्रान्तम् आबिलम्
जडास् स्फुरन्ति जनता नदीरयतरङ्गवत् । बुध्यन्ते ऽन्यात्मकाश् चान्यत् कोकिलाẖ काकताम् इव
उद्यन्ति स्थावरा भूमौ रयरेखा इवाम्भसि । भावाḫ परिणमन्त्य् अन्तर् जलानीव रयाज् जले
अनुभूतय आत्मस्था इक्षोर् मधुरता इव । क्षोभ्यन्ते विक्रियन्ते च पवनस्पर्शपीडनैः
कलनैकात्मिका लघ्वी सकुलाद्रीन्द्रमण्डला । तुलाम् आरोपिता भूमिर् न भवत्य् अर्धरक्तिका
भविष्यद्भूतकोशस्थं द्यौḫ पातालतलं गता । अग्नेश् चित्रकृतस्येव शैत्यम् एवानुभूयते
अधूमात्म निराधारम् अवातादिसमीरितम् । खम् ऊर्ध्वम् अम्बु यात्य् अभ्रैर् बान्धवैर् इव शिक्षितम्
समुद्रा दिवि तिष्ठन्ति तारका उदिता भुवः । नृत्यन्ति सभुजाश् शैलाश् सैकतं तैलम् उज्झति
यथा सङ्कल्प्यते यद् यत् तत् तथा न तद् अन्यथा । सङ्कल्पकलनाकल्पं किं सत् किं वाप्य् असद् भवेत्
न स्थिरं नास्थिरं किञ्चिन् न जडं न च चेतनम् । नाहं न त्वं न सन् नासन् न स्थूलं नाणुताततम्
सर्वं च सर्वथा सर्वं सर्वदा सार्वसार्विकम् । कल्पनाविश्वरूपात्म न तद् अस्ति न यद् वपुः
बालेनैरावणो बद्धो दग्धाश् चन्द्रत्विषाद्रयः । सरित्प्रवाहलगुडैर् युध्यन्ते चित्रमानवाः
सुफालकृष्टे वितते व्योम्नि व्युप्तास् सुशालयः । पक्वाश् च सङ्गृहीताश् च भाण्डेषु च नियोजिताः
हरिणा हारि गायन्ति नृत्यन्ति वनराजयः । पद्मा दृषदि जायन्ते प्रसूताẖ कलभं शिलाः
उड्डीयन्ते पुराण्य् उच्चैर् भिक्षन्ति भुवि भानवः । सानवो नगरायन्ते गायन्ति मृदु मद्गवः
इत्यादिकापि सङ्कल्पकला सत्येव राजते । अन्या सत्याप्य् असत्येव न संवित्तिर् विराजते
एषा च सङ्कल्पकला तीव्रसङ्कल्पकल्पिता । पूर्वसङ्कल्पसन्त्यागात् सत्यरूपानुमीयते
अतस् सत्यम् असत्यं वा नेह किञ्चन विद्यते । यद् यथा भाव्यते यत्र तत् तथा तत्र दृश्यते
इति नास्तीदम् अखिलम् अस्ति वा ब्रह्मसत्तया । आकाशात्म निराकाशं सुप्तमानवहृत्समम्
इतीयं हृदयेनैव त्रिजगत्पुस्तपुत्रिका । न जन्यते जन्यते वा धार्यते वा न धार्यते
यादृशेन यदा यत्र संस्थानेनाभिरोचते । तादृशेन तदा तत्र स्वेच्छयोत्पाद्यते न वा
इत्य् अस्मिन् पेलवाकारे सङ्कल्पायत्तरूपिणि । स्वायत्ते सदसद्भावभ्रमे केव कदर्थना
स्वयत्नमात्रसंसिद्धिर् एष सो ऽङ्ग शिशोर् अपि । सर्गो ऽपवर्गलाभो वा मन्ये सिध्यति हेलया
एतद् बुद्ध्वा बुद्धिमत्त्वान् निरामयमनोमयः । भावाभावोभयात्तस् त्वम् अमनोमय एव वा
इति भ्रान्तिमयं विश्वं बुद्ध्वा विष्वग् असारवत् । विश्वशब्दार्थसन्त्यागे निष्ठायां तिष्ठ सारवत्
नेह सत्यं न वासत्यं नावस्तुत्वं न वस्तुता । केनापीदं क्वचित् किञ्चित् किम् अपीव क्वचित् स्थितम्
का नाम सास्ति कलना कलयापवर्गो वाचां ययैति विषयं विशदावभासः । शास्त्रेण केवलम् असौ परिवर्ण्यते ऽन्तस् सम्बोधम् एति तु कयापि निजैकयुक्त्या