विप्रयुक्तो हि रामेण मुहूर्तम् अपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुम् अर्हसि
नववर्षसहस्राणि मम यातानि कौशिक । दुःखेनोत्पादितास् त्व् एते चत्वारः पुत्रका मया
प्रधानभूतस् तेष्व् एषु रामः कमललोचनः । तं विना ते त्रयो ऽप्य् अन्ये धारयन्ति न जीवितम्
स एव रामो भवता नीयते राक्षसान् प्रति । यदि तत् पुत्रहीनं त्वं मृतम् एवाशु विद्धि माम्
चतुर्णाम् आत्मजानां हि प्रीतिर् अत्र हि मे परा । ज्येष्ठं धर्ममयं तस्मान् न रामं नेतुम् अर्हसि
निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय
किंवीर्या राक्षसास् ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम्
कथं तेन प्रहर्तव्यं तेषां रामेण रक्षसाम् । मामकैर् वा बलैर् ब्रह्मन् मया वा कूटयोधिनाम्
सर्वं मे शंस भगवन् यथा तेषां मया रणे । स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः
श्रूयते हि महावीरो रावणो नाम राक्षसः । साक्षाद् वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः
स चेत् तव मखे विघ्नं करोति किल दुर्मतिः । तत् सङ्ग्रामे न शक्तास् स्मो वयं तस्य दुरात्मनः
काले काले पृथग् ब्रह्मन् भूरिवीर्यविभूतयः । भूतेष्व् अभ्युदयं यान्ति प्रलीयन्ते च कालतः
अद्यास्मिंस् ते वयं काले रावणादिषु शत्रुषु । न समर्थाः पुरस् स्थातुं नियतेर् एष निश्चयः
तस्मात् प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके । मम चैवाल्पभाग्यस्य भवान् ह्य् असमदैवतम्
देवदानवगन्धर्वा यक्षप्लवगपन्नगाः । न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि
महावीर्यवतां वीर्यम् आदत्ते स सुधाभुजाम् । तेन सार्धं न शक्तास् स्मस् संयुगे तस्य वा वरैः
अयम् अन्यतमः कालः पेलवीकृतसज्जनः । राघवो ऽपि गतो दैन्यं यत्र वार्द्धकजर्जरः
अथ वा लवणं ब्रह्मन् यज्ञघ्नं तं मधोस् सुतम् । कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम्
अथ नेच्छसि चेद् ब्रह्मंस् तद् विधेयो ऽहम् एव ते । अन्यथा तु न पश्यामि शाश्वतं जयम् आत्मनः
इत्य् उक्त्वा मृदुवचनं भयाकुलो ऽसाव् आलोले मुनिमतसंशये निमग्नः । नाज्ञासीत् कणम् अपि निश्चयं महात्मा प्रोद्वीचाव् इव जलधौ समुह्यमानः
तच् छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्
करिष्यामीति संश्रुत्य प्रतिज्ञां हातुम् इच्छसि । सत्त्ववान् केसरी भूत्वा मृगताम् अभिवाञ्छसि
राघवानाम् अयुक्तो ऽयं कुलस्यास्य विपर्ययः । न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः
यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः । हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः
तस्मिन् कोपपरीते ऽथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुराश् च भयम् आविशन्
क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यम् अब्रवीत्
इक्ष्वाकूणां कुले जातस् साक्षाद् धर्म इवापरः । भवान् दशरथश् श्रीमांस् त्रैलोक्ये गुणभूषितः
नीतिमान् सुव्रतो भूत्वा न धर्मं हातुम् अर्हसि । मुनेस् त्रिभुवनेशस्य वचनं कर्तुम् अर्हसि
त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः । स्वधर्मं प्रतिपद्यस्व न धर्मं हातुम् अर्हसि
करिष्यामीति संश्रुत्य तत् ते राजन्न् अकुर्वतः । इष्टापूर्तः पतेद् धर्मस् तस्माद् रामं विसर्जय