शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी । रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः
निर्दुःखतां कथं ते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् । तथैवाहं तरिष्यामि ततो जनतया सह
भरद्वाजेन राजेन्द्र यदेत्य् उक्तो ऽस्मि सादरम् । तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुं प्रवृत्तवान्
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन सम्मोहम् अलं दूरीकरिष्यसि
तथा व्यवहर प्राज्ञ यथा व्यवहृतस् सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः
लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस् तथा
कृतास्थश् चाविरोधश् च बोधपारम् उपागतः । वसिष्ठो वामदेवश् च मन्त्रिणो ऽष्टौ तथेतरे
घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च । विभीषणस् सुषेणश् च हनुमान् इन्द्रजित् तथा
एते ऽष्टाविंशतिः प्रोक्तास् समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः
एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् । तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात्
अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिम् उदारसत्त्वः । न शोकम् आयाति न दैन्यम् एति गतज्वरस् तिष्ठति नित्यतृप्तः
जीवन्मुक्तस्थितिं ब्रह्मन् कृत्वा राघवम् आदितः । क्रमात् कथय मे नित्यं भविष्यामि सुखी यथा
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनस्स्मरणं मन्ये साधो विस्मरणं वरम्
दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते । कदाचित् केनचिन् नाम स बोधो ऽन्विष्यताम् अतः
स चेह सम्भवत्य् एव तदर्थम् इदम् आततम् । शास्त्रम् आकर्णयसि चेत् तत्त्वं प्राप्नोषि नान्यथा
जगद्भ्रमो ऽयं दृश्यो ऽपि नास्त्य् एवेत्य् अनुभूयते । वर्णो व्योम्न इवाखेदाद् विचारेणामुनानघ
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । सम्पन्नं चेत् तद् उत्पन्ना परा निर्वाणनिर्वृतिः
अन्यथा शास्त्रगर्तेषु लुठतां भवताम् इह । भवत्य् अकृत्रिमज्ञाना कल्पैर् अपि न निर्वृतिः
परित्यागो वासनाया उत्तमो मोक्ष उच्यते । ब्रह्मन् स एष विमलक्रमो ज्ञानप्रकाशकः
क्षीणायां वासनायां तु मनो गलति सत्वरम् । क्षीणायां शीतसन्तत्यां ब्रह्मन् हिमकणो यथा
अयं वासनया देहो ध्रियते भूतपञ्जरः । तनुनान्तर्निविष्टेन मुक्तौघस् तन्तुना यथा
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्मनो हेतुश् शुद्धा जन्मविनाशिनी
अज्ञानसुघनाकारा घनाहङ्कारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः
पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् । देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु । वासना विद्यते शुद्धा देहे चक्र इव भ्रमः
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् । ज्ञातज्ञेयास् त उच्यन्ते जीवन्मुक्ता महाधियः
जीवन्मुक्तपदं प्राप्तो यथा रामो महामतिः । तत् ते ऽहं सम्प्रवक्ष्यामि जरामरणशान्तये
भरद्वाज महाबुद्धे रामक्रमम् इमं शुभम् । शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा
विद्यागृहाद् विनिष्क्रम्य रामो राजीवलोचनः । दिवसान्य् अनयद् गेहे लीलाभिर् अकुतोभयः
अथ गच्छति काले ऽत्र पालयत्य् अवनिं नृपे । प्रजासु वीतशोकासु स्थितासु विगतज्वरम्