पुरुषायत्तजननमरणायाम् अखिन्दतः । यथावद् अस्यां बुद्धायां मोक्ष एवावशिष्यते
अद्रिद्यूर्वीनदीशादिकल्पनामात्रकात्मकाम् । पीत्वाकल्पनमात्रेण निर्वाति निपुणं पुमान्
यदि शैलादि सत्यं स्यात् तत् केन विनिवार्यते । नासतो विद्यते भावो नाभावो विद्यते सतः
यथा प्रसरति स्पन्दाच् चक्रवृन्दम् असज् जले । तथोल्लसति सङ्कल्पाच् चित्खे संसारमण्डलम्
निजस्पन्दवशाद् एकं शतावर्तं पयो यथा । निजस्पन्दवशाद् एकं जगदात्म परं तथा
प्रविचारितम् अन्विष्टं यावच् चक्रादि नाम्भसि । अस्ति नापि च सर्गादि चिद्व्योम्नि न च कल्पना
स्वयत्नमात्रसङ्कल्पप्राप्यौ सर्गापवर्गकौ । य एव रोचते यस्मै तयोस् तं सो ऽनुगच्छति
अवित्त्वाद् अपवर्गत्वं वित्त्वाज् जन्मचमत्कृतिः । वेद्यम् अस्ति च नो सत्यं यथेच्छसि तथा कुरु
असद् वेद्यं विनिर्माय भुङ्क्ते क इव दुẖखदम् । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम्
क ईदृशो ऽस्ति मुक्तात्मा यो विनिर्माय यक्षकम् । तेनैव घट्टयत्य् आर्तं स्वयम् आत्मानम् अक्षतम्
यस्मै वा सर्गवेतालसमुत्थानं विरोचते । आत्मनाशाय सङ्कल्पाद् उत्थापयतु सो ऽङ्ग तम्
दृश्यं निर्माय द्रष्टृत्वम् एत्यात्मानं निबध्य च । य इच्छति सुखं स स्वं विदधातु यथेप्सितम्
यथाभूतार्थकथने वयं नाम समुद्यताः । श्रुत्वा सत्यम् असत्यं तु गृह्णातु स्वेच्छया जनः
सर्गार्थी सर्गयुक्तीहो मोक्षार्थी मोक्षयुक्तिमान् । भवत्व् अत्र महाबाहो न नẖ कश्चिद् अपि ग्रहः
सर्गाद् व्यावृत्तसंविद् यस् सबाह्याभ्यन्तरात्मनः । सर्गासत्तावबोधात्मा सो ऽमृतत्वाय कल्पते
सर्गासत्ताप्रत्ययेन सर्गसंविन् निवर्तते । साहन्ता समनस्कारा शिष्यते यद् अनाम तत्
सुविचारितम् अन्विष्टं यावत् सर्गो न विद्यते । साहन्तादिमनस्कारẖ किम् अन्यद् भ्रमकारणम्
पातालम् आविशसि यासि नभो विलङ्घ्य दिङ्मण्डलं भ्रमसि चेत् तद् अनात्मतात्मा । भ्रान्तीतरो ऽहम् इति नास्ति न सर्गवर्गस् स्पन्देतरो ऽनिल इवाम्ब्वितरेव धारा
कलनामात्रकार्यत्वाद् इमे मेर्वादयो ऽद्रयः । मृदवो लघवस् साक्षात् कौशेयनिकराद् अपि
निस्स्पन्दपवनाकारशरीरा भूतजातयः । ब्रह्माद्या अपि विद्यन्ते पिशाचपटलादिवत्
अहोरात्रात्मनी तुच्छे प्रकाशतमसी तते । जन्तोḫ पवनदेहस्य च्छायाविहसने इव
अन्विष्यमाणम् अप्राप्यं जगत् स्फुरति खे परे । केशपिञ्छलवभ्रान्तिर् इवानिर्मलचक्षुषः
सुरासुरास् स्फुरन्तीमे छिन्नवृक्षपिशाचवत् । परिपश्यन्ति संसारं दग्धदेहकजीववत्
निश्श्वसन्ति च भस्त्रावद् विवर्तन्ते खधूमवत् । चिन्वन्त्य् अर्धप्रसुप्ताभं पश्यन्त्य् उद्भ्रान्तम् आबिलम्
जडास् स्फुरन्ति जनता नदीरयतरङ्गवत् । बुध्यन्ते ऽन्यात्मकाश् चान्यत् कोकिलाẖ काकताम् इव
उद्यन्ति स्थावरा भूमौ रयरेखा इवाम्भसि । भावाḫ परिणमन्त्य् अन्तर् जलानीव रयाज् जले
अनुभूतय आत्मस्था इक्षोर् मधुरता इव । क्षोभ्यन्ते विक्रियन्ते च पवनस्पर्शपीडनैः
कलनैकात्मिका लघ्वी सकुलाद्रीन्द्रमण्डला । तुलाम् आरोपिता भूमिर् न भवत्य् अर्धरक्तिका
भविष्यद्भूतकोशस्थं द्यौḫ पातालतलं गता । अग्नेश् चित्रकृतस्येव शैत्यम् एवानुभूयते
अधूमात्म निराधारम् अवातादिसमीरितम् । खम् ऊर्ध्वम् अम्बु यात्य् अभ्रैर् बान्धवैर् इव शिक्षितम्