यथा पुस्तमयं सैन्यं महारम्भम् अपि स्फुटम् । विद्यमानम् अनन्तं च सहस्राङ्गायुधादिकम्
स्वरूपं प्रति तज् जाड्यान् नित्यासम्भवदीहनम् । अरूपालोकमननम् अदिक्कालकलादिकम्
केवलं केवलं शान्तं समनिर्वाणम् आत्मनि । दृष्टैर् अनुमितैर् ज्ञातैर् इतरेण दशाभ्रमैः
मनाग् अप्य् अपरामृष्टं विद्यमानम् असन्मयम् । अहमादित्वम् आद्यं च तथैवाखण्डितं जगत्
ब्रह्मपुस्तमयं सर्वं विद्यमानम् असन्मयम् । रूपालोकमनस्कारशब्दार्थपरिवर्जितम्
अन्येनानुमितैर् अर्थैर् मुक्तम् आत्मनि संस्थितम् । न च सत्यं न चासत्यम् आत्मन्य् अद्वयतावशात्
अन्यो ऽस्ति पुस्तसैन्यानाम् अस्मदादिर् मुनीश्वर । अस्मदादेस् तु को ऽन्यस् स्याद् अनन्ताद् ब्रह्मणḫ पदात्
नास्त्य् एव यस् स नो ऽन्यो ऽस्ति ब्रह्मपुस्तमयात्मकः । असन्न् अभ्युदितो मोहḫ प्रेक्षितो यो न लभ्यते
स एतान् असतो ऽनन्यान् दूराद् भावविकारकान् । पश्यत्य् उन्मत्तको जन्तुर् जीवन्न् आत्ममृतिं यथा
स एषो ऽप्रेक्षणात्मैव शुक्तौ रजतधीर् इव । न विद्यते प्रेक्षितस् सञ् शुक्तौ रजतधीर् इव
अस्माभिḫ प्रेक्षितस् तेन नूनं निर्मूलतां गतः । अनालोकḫ पुरो रूढं वस्तु नेति विलोकनात्
यैस् तु न प्रेक्ष्यते तेषां शतशाखं विजृम्भते । असत्य एव सत्येन बालवेतालसैन्यवत्
आसृष्टिकरम् आरुद्रम् इयं भ्रान्तिर् उपस्थिता । तथाप्य् अनन्तदुẖखाय किं शुभं ज्ञातयानया
असन् निवर्तते राम क्षणाद् एव निरीक्षितम् । सत्यं तु वस्तु कृच्छ्रेण क्षीयते नैव वानघ
अविद्या ज्ञातमात्रैव शाम्यत्य् आशु न बाधते । न विप्रलम्भयत्य् अन्तर् मृगतृष्णाम्बुधीर् इव
यद् एवास्याḫ परिज्ञानं स एवास्याḫ परिक्षयः । श्रेयसे परमायैव मित्रे शत्रुधियो यथा
परिज्ञातैव गलति लगत्य् अज्ञानरूषिता । स्वभावतश् च नास्त्य् एव मिथ्या यक्षमतिर् यथा
नास्त्य् अविद्यालम् इत्य् एव प्रत्ययो ज्ञानम् उच्यते । रूढिं गताज्ञे ज्ञे त्व् एषा ब्रह्म मोक्षस् स एव च
असत् प्रेक्षितम् एवासत् सत् तु नैव निवर्तते । यदासत्यजगद्भ्रान्तिस् तदैषाशु निवर्तते
कल्पनामात्रसम्पत्तिर् अकल्पनविलायिनी । मनस्सत्तेव मृद्वङ्गी नरायत्तभवाभवा
पुरुषायत्तजननमरणायाम् अखिन्दतः । यथावद् अस्यां बुद्धायां मोक्ष एवावशिष्यते
अद्रिद्यूर्वीनदीशादिकल्पनामात्रकात्मकाम् । पीत्वाकल्पनमात्रेण निर्वाति निपुणं पुमान्
यदि शैलादि सत्यं स्यात् तत् केन विनिवार्यते । नासतो विद्यते भावो नाभावो विद्यते सतः
यथा प्रसरति स्पन्दाच् चक्रवृन्दम् असज् जले । तथोल्लसति सङ्कल्पाच् चित्खे संसारमण्डलम्
निजस्पन्दवशाद् एकं शतावर्तं पयो यथा । निजस्पन्दवशाद् एकं जगदात्म परं तथा
प्रविचारितम् अन्विष्टं यावच् चक्रादि नाम्भसि । अस्ति नापि च सर्गादि चिद्व्योम्नि न च कल्पना
स्वयत्नमात्रसङ्कल्पप्राप्यौ सर्गापवर्गकौ । य एव रोचते यस्मै तयोस् तं सो ऽनुगच्छति
अवित्त्वाद् अपवर्गत्वं वित्त्वाज् जन्मचमत्कृतिः । वेद्यम् अस्ति च नो सत्यं यथेच्छसि तथा कुरु
असद् वेद्यं विनिर्माय भुङ्क्ते क इव दुẖखदम् । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम्
क ईदृशो ऽस्ति मुक्तात्मा यो विनिर्माय यक्षकम् । तेनैव घट्टयत्य् आर्तं स्वयम् आत्मानम् अक्षतम्