नीहाराणां विमिश्राणां लक्ष्यन्ते नाणवो यथा । पृथग् जीवैर् न सर्गाणां लक्ष्यन्ते जन्तवस् तथा
यथा याति सरित्य् अम्बु मज्जनोन्मज्जनाबिलम् । तथा स्फुरति सर्गौघḫ पृथङ् मिश्रश् च चिद्धृदि
अवायवो यथामोदा मिश्रीभूताḫ परस्परम् । न रोधका न पश्यन्ति तथा सर्गाẖ खरूपिणः
आवर्ताḫ परिवर्तन्ते यथा रजसि राजसाः । अस्पष्टोग्रानिले स्फारे तथा सर्गाḫ परस्परम्
सङ्कल्पात्मतयान्योऽन्यं न द्रष्टारो न रोधकाः । नभसीव नभोभागास् स्वप्रभास्व् इव च प्रभाः
केचिन् मिथः सम्मिलिता एकताम् उपयान्त्य् अलम् । नीहारेष्व् इव नीहारास् स्वप्रभास्व् इव च प्रभाः
केचिन् मिथस् सम्मिलिता अपि भान्ति विलक्षणाः । घृतोदा इव दुग्धाब्धौ रत्नदीप्ताव् इवार्कभाः
सविकासा यथा स्वप्ने मेरुमन्दरकोटयः । संवित्तत्त्वे तथा सर्गा दृषदाद्यन्तरेष्व् अपि
संवित् सर्वगता शान्ता सत्तासामान्यरूपिणी । सर्गशब्दार्थरहितास् सर्गास् तस्याẖ किलोदरम्
स्थलं जलं नभश् शैलं पूर्वम् अद्याधुनाखिलम् । सर्वं सर्वगतं शान्तं सर्वगत्वान् महाचितेः
संविन्मयत्वाद् वार्यन्तर् अपि सन्त्य् एव सृष्टयः । चित्ताकाशात्मिका नोढाḫ प्रतिबिम्बान्विता इव
भूतपञ्चकसत्तासु सबाह्याभ्यान्तरं सदा । सन्ति सर्गसहस्राणि न च सन्ति कदाचन
सर्वत्र सर्वदा सर्वं सार्वं सर्वेण सर्वथा । न तद् अस्ति न यत् सत्यं न तद् अस्ति न यन् मृषा
न च किञ्चिन् मृषा नैव सत्यं किञ्चिन् न मध्यमम् । बृहद् ब्रह्मायते ब्रह्म शान्तम् अन्तविवर्जितम्
सर्वभावोपमर्देन भावḫ फलति पीवरः । तेनातिभावो जयति श्लिष्टयोर् अपि सर्गयोः
जीवḫ परस्पराप्राप्ताव् ऊनभावेन सिध्यति । संसारस् समभावस् तु समतां गच्छति द्वयोः
विलक्षणा बृहद्भावास् समत्वान् मिलिता मिथः । वैलक्षण्येन तिष्ठन्ति नानावर्णा इव त्विषः
निरर्गला सर्गपरम्परेति विजृम्भते ऽन्तḫ परमाणुधातोः । अप्य् अन्तर् अद्रीन्द्रशिलान्तरे च वह्नौ जले वाखिलवस्तुजाते
सङ्कल्परूपाद्रिनदीदिनेशदिक्कालकल्पस्फुरणाकुलापि । जगन्महामण्डलपिण्डपीठी व्योमोदरं चिद्घनशून्यधातौ
नभश् च वास्या उदरे ऽप्य् अपारं सचन्द्रताराद्रिदिवाकरादि । मिथस् त्व् अदृष्टश्रुतशब्दसारा काचिन् मिथोलब्धशरीरिकापि
यथा पुस्तमयं सैन्यं महारम्भम् अपि स्फुटम् । विद्यमानम् अनन्तं च सहस्राङ्गायुधादिकम्
स्वरूपं प्रति तज् जाड्यान् नित्यासम्भवदीहनम् । अरूपालोकमननम् अदिक्कालकलादिकम्
केवलं केवलं शान्तं समनिर्वाणम् आत्मनि । दृष्टैर् अनुमितैर् ज्ञातैर् इतरेण दशाभ्रमैः
मनाग् अप्य् अपरामृष्टं विद्यमानम् असन्मयम् । अहमादित्वम् आद्यं च तथैवाखण्डितं जगत्
ब्रह्मपुस्तमयं सर्वं विद्यमानम् असन्मयम् । रूपालोकमनस्कारशब्दार्थपरिवर्जितम्
अन्येनानुमितैर् अर्थैर् मुक्तम् आत्मनि संस्थितम् । न च सत्यं न चासत्यम् आत्मन्य् अद्वयतावशात्
अन्यो ऽस्ति पुस्तसैन्यानाम् अस्मदादिर् मुनीश्वर । अस्मदादेस् तु को ऽन्यस् स्याद् अनन्ताद् ब्रह्मणḫ पदात्
नास्त्य् एव यस् स नो ऽन्यो ऽस्ति ब्रह्मपुस्तमयात्मकः । असन्न् अभ्युदितो मोहḫ प्रेक्षितो यो न लभ्यते
स एतान् असतो ऽनन्यान् दूराद् भावविकारकान् । पश्यत्य् उन्मत्तको जन्तुर् जीवन्न् आत्ममृतिं यथा
स एषो ऽप्रेक्षणात्मैव शुक्तौ रजतधीर् इव । न विद्यते प्रेक्षितस् सञ् शुक्तौ रजतधीर् इव