नान्तस्त्वं विद्यते किञ्चिन् न बहिष्ट्वं च वानघ । नाकल्पना नापि च वा कल्पनाकलनास्ति वा
संविन् मुकुलितात्मानं त्रिजगन्मण्डलीम् इयम् । यत् स्वादयति तस्यैतन् नाम स्वप्नाभिधं स्थितम्
यद् आत्मानं विकसिता त्रिजगन्मण्डलीम् इयम् । यत् स्वादयति तस्यैतच् चिह्नं जाग्रद् इति स्थितम्
यन् न संवित् स्वम् आत्मानं कञ्चित् कालं श्रमाद् इव । आस्वादयति शान्तेव तत् सुषुप्ताभिधं स्मृतम्
निर्वाणे वापुनर्भ्रान्त्यै यद् आत्मानं न विन्दते । संवित् स्थिरसमाभासा तत् तुर्यं मोक्ष उच्यते
अन्तश् चेतनपद्मस्य जगद्गन्धो ऽस्त्य् असौ बहिः । स्फुरति प्रसृते तस्मिन्न् अन्तरस्फुरितात्मनि
न सर्गसंविदोर् भेदḫ पवनस्पन्दयोर् इव । वात एव यथा स्पन्दस् संविद् एव तथा जगत्
स्पन्दशब्दार्थधीत्यागे यादृशी पवनस्थितिः । सर्गशब्दार्थधीत्यागे तादृशी सर्गसंस्थितिः
स्पन्दशब्दार्थधीर् वायौ कल्पिताकलनाक्षया । सर्गशब्दार्थधीश् शान्ते कल्पिताकलनाक्षया
यत् सङ्कल्पसमुत्थानं तद् असङ्कल्पनं क्षयि । एतच् चानुभवात् सिद्धं किम् एतावति दुष्करम्
न सर्गो ऽस्ति विद् अस्त्य् अच्छा सा च सत्येव खोपमा । विच्छब्दार्थाकल्पनेन तद् एतद् बुध्यते स्वयम्
न सर्गसर्गशब्दार्थमतिर् अस्तीति निश्चयः । सर्गसङ्कल्पसंशान्ताव् आत्मनैवाशु बुध्यते
असर्गप्रतिपत्तिर् हि सर्गशब्दार्थविस्मृतौ । स्फुटीभवत्य् अशेषेण शिष्यते यद् अनाम तत्
वेदनं सर्गसंवित्तिर् अवेदनम् असर्गकम् । न वेदनावेदनयोर् भेदश् शब्दाद् ऋते ऽस्ति च
सर्वस्यानन्तरूपत्वात् क्व भेदẖ क्व च भेदनम् । क्व विस्मृतिर् अतश् शान्तं तूष्णीम् एवासनं शिवम्
निरस्तसङ्कल्पविकल्पजालम् आलानकल्पं सुचिरोषितं यत् । प्रशान्तशास्त्रार्थविचारसत्तम् अशङ्कम् आद्यं शिवम् अव्ययं तत्
खात्मानस् सकलास् सर्गास् सर्गात्म सकलं च खम् । न नभस्सर्गयोर् भेदḫ पवनस्पन्दयोर् इव
पूरितानन्तगगनाḫ प्रभा व्योम्नि गमागमम् । न यथा रोधयन्त्य् एतास् तथा सर्गाḫ परस्परम्
मिलन्ति न मिलन्त्य् अन्तर् यथैते परमाणवः । खे सूक्ष्मत्वाद् अलक्ष्यत्वात् तथा सर्गाḫ परस्परम्
मनाग् अपि न भेदो ऽस्ति मिलितानां यथाम्भसाम् । तथा चिद्घनरूपाणाम् सर्गाणां श्लिष्यताम् अपि
नीहाराणां विमिश्राणां लक्ष्यन्ते नाणवो यथा । पृथग् जीवैर् न सर्गाणां लक्ष्यन्ते जन्तवस् तथा
यथा याति सरित्य् अम्बु मज्जनोन्मज्जनाबिलम् । तथा स्फुरति सर्गौघḫ पृथङ् मिश्रश् च चिद्धृदि
अवायवो यथामोदा मिश्रीभूताḫ परस्परम् । न रोधका न पश्यन्ति तथा सर्गाẖ खरूपिणः
आवर्ताḫ परिवर्तन्ते यथा रजसि राजसाः । अस्पष्टोग्रानिले स्फारे तथा सर्गाḫ परस्परम्
सङ्कल्पात्मतयान्योऽन्यं न द्रष्टारो न रोधकाः । नभसीव नभोभागास् स्वप्रभास्व् इव च प्रभाः
केचिन् मिथः सम्मिलिता एकताम् उपयान्त्य् अलम् । नीहारेष्व् इव नीहारास् स्वप्रभास्व् इव च प्रभाः
केचिन् मिथस् सम्मिलिता अपि भान्ति विलक्षणाः । घृतोदा इव दुग्धाब्धौ रत्नदीप्ताव् इवार्कभाः
सविकासा यथा स्वप्ने मेरुमन्दरकोटयः । संवित्तत्त्वे तथा सर्गा दृषदाद्यन्तरेष्व् अपि
संवित् सर्वगता शान्ता सत्तासामान्यरूपिणी । सर्गशब्दार्थरहितास् सर्गास् तस्याẖ किलोदरम्
स्थलं जलं नभश् शैलं पूर्वम् अद्याधुनाखिलम् । सर्वं सर्वगतं शान्तं सर्वगत्वान् महाचितेः