ब्रह्मविष्ण्विन्द्ररुद्रादिḫ पूर्वम् एव मनोमयी । मायेयम् उदिता मिथ्या सर्गता कल्पनात्मिका
यद् यद् आलोक्यते किञ्चिन् मायायास् तद् असन् नभः । अन्तरन्तरसारात्मरम्भास्तम्भा इवोदिताः
सङ्कल्पपुरुषा एते ब्रह्मरुद्रेन्द्रकादयः । असत्याश् चैव सत्याश् च चित्त्वाचित्त्वैर् इह स्थिताः
भूतं प्रति पृथग्भूतस् सर्गो विकसितस् स्वयम् । सङ्कल्पस्वप्नपुरवन् मनोराज्यवद् आततः
सर्वगत्वाच् च चिद्धातोर् मिथश् चानुभवभ्रमात् । सर्गेष्व् एतेषु सद्रूपास् समस्ता भूतजातयः
सम्मिलन्ति मिथẖ केचिन् निरावरणसंविदः । सर्गाḫ परिणमन्त्य् अन्ये त्व् अपरस्परवेदिनः
काकतालीयवत् केचित् सर्गास् सर्गे पतन्त्य् अपि । देशम् अन्यम् इमं प्राप्ता वयम् इत्य् एव भाविताः
क्रमेणानेन हे राम ते स्वप्नपुरुषा अपि । सङ्कल्पपुरुषाश् चैव सत्याश् चित्त्वाद् अखण्डितात्
चिद्घनं चित्त्वसारत्वाच् चित्त्वम् एवावतिष्ठते । नास्य विघ्नो न वेधो ऽस्ति नान्यता न च नाशिता
सङ्कल्पपुरुषास् सत्यास् सत्याश् च स्वप्नविभ्रमाः । वर्तमानार्थकारित्वान् नेह किञ्चिद् असन्मयम्
परस्परम् अलभ्यत्वाद् यन् नार्थाय न वस्तु तत् । सत्यम् अस्माकम् अप्य् एष देशान्तरनरो यथा
यद् यथा येन यत्रास्ति तत् तथा तेन तत्र तत् । नात्र सत्ये सदसती तेनालं मौनवान् भव
जगत् स्वभावतो नास्ति यच् चेदं परिदृश्यते । तत् सर्वं ब्रह्मसत्तैव प्रेक्षितं वा न किञ्चन
ब्रवीम्य् अभ्युपगम्यापि सर्गादि यदि विद्यते । तद् एतज् जठरं ब्राह्मं विद्धि तत्कचनात्मकम्
यथान्तर् इक्षोर् माधुर्यं तैक्ष्ण्यं च मरिचादिषु । तथान्तर् ब्रह्मणो दृश्यम् अहन्तादि जगत्त्रयम्
अहं जगद् दृश्यम् इति शब्दार्थैḫ परिवर्जितम् । अखण्डितम् इदं सत्यम् इदंशब्दार्थवर्जितम्
द्यौẖ क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । सतो ऽनवयवस्यापि भागा बहिर् अवस्थिताः
पुरुषं प्रति सङ्कल्पात् सर्गो हृदि विजृम्भते । साद्रिद्यूर्वीनदीशांशẖ कौशे रस इवाङ्कुरे
संवित् स्वोदरसंलीनं खात्मका खात्मकं जगत् । यथाभिरुचितेनान्तर् भोगेनास्वादयत्य् अलम्
न स्वप्ने गम्यते देशो न देशो हृदम् एति वा । न जाग्रति बहिर्देशो न जाग्रद् देशवर्ति वा
नान्तस्त्वं विद्यते किञ्चिन् न बहिष्ट्वं च वानघ । नाकल्पना नापि च वा कल्पनाकलनास्ति वा
संविन् मुकुलितात्मानं त्रिजगन्मण्डलीम् इयम् । यत् स्वादयति तस्यैतन् नाम स्वप्नाभिधं स्थितम्
यद् आत्मानं विकसिता त्रिजगन्मण्डलीम् इयम् । यत् स्वादयति तस्यैतच् चिह्नं जाग्रद् इति स्थितम्
यन् न संवित् स्वम् आत्मानं कञ्चित् कालं श्रमाद् इव । आस्वादयति शान्तेव तत् सुषुप्ताभिधं स्मृतम्
निर्वाणे वापुनर्भ्रान्त्यै यद् आत्मानं न विन्दते । संवित् स्थिरसमाभासा तत् तुर्यं मोक्ष उच्यते
अन्तश् चेतनपद्मस्य जगद्गन्धो ऽस्त्य् असौ बहिः । स्फुरति प्रसृते तस्मिन्न् अन्तरस्फुरितात्मनि
न सर्गसंविदोर् भेदḫ पवनस्पन्दयोर् इव । वात एव यथा स्पन्दस् संविद् एव तथा जगत्
स्पन्दशब्दार्थधीत्यागे यादृशी पवनस्थितिः । सर्गशब्दार्थधीत्यागे तादृशी सर्गसंस्थितिः
स्पन्दशब्दार्थधीर् वायौ कल्पिताकलनाक्षया । सर्गशब्दार्थधीश् शान्ते कल्पिताकलनाक्षया
यत् सङ्कल्पसमुत्थानं तद् असङ्कल्पनं क्षयि । एतच् चानुभवात् सिद्धं किम् एतावति दुष्करम्