इदम्प्रथमतोद्योगसम्प्रबुद्धमहाचितेः । नोदेति शुद्धसंवित्त्वाद् आतिवाहिकविस्मृतिः
आधिभौतिकता तेन नास्योदेति पिशाचिका । असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा
मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः । मनोमात्रम् अतो विश्वं यद् यतस् तत् तद् एव हि
अजस्य सहकारीणि कारणानि न सन्ति यत् । तज्जस्यापि न सन्त्य् एव तानि तस्मात् तु कानिचित्
कारणात् कार्यवैचित्र्यं तेनात्रास्ति न किञ्चन । यादृशं कारणं शुद्धं कार्यं तादृग् इह स्थितम्
कार्यकारणता त्व् अत्र न किञ्चिद् उपपद्यते । यादृग् एव परं ब्रह्म तादृग् एव जगत्त्रयम्
मनस्ताम् इव यातेन ब्रह्मणा तन्यते जगत् । अनन्यद् आत्मनश् शुद्धाद् द्रवत्वम् इव वारिणा
मनसा तन्यते सर्वम् असद् एवेदम् आततम् । यथा सङ्कल्पनगरं यथा गन्धर्वपत्तनम्
आधिभौतिकता नास्ति रज्ज्वाम् इव भुजङ्गता । ब्रह्मादयः प्रबुद्धास् तु कथं तिष्ठन्तु तत्र ते
आतिवाहिक एवास्ति न प्रबुद्धमतेः किल । आधिभौतिकदेहस्य चर्चैवात्र कुतः कथम्
मनोनाम्नो मनुष्यस्य विविधाकारधारिणः । मनोराज्यं जगद् इति सत्यरूपम् इव स्थितम्
मन एव विरिञ्चत्वं विद्धि सङ्कल्पनात्मकम् । स्ववपुस् स्फारतां नीत्वा मनसेदं प्रतन्यते
विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः । पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम्
पद्माक्षे पद्मिनीवान्तर् मनोहृद्य् अस्ति दृश्यता । मनोदृश्यदृशौ भिन्ने न कदाचन किञ्चन
तथा चात्र भवत्स्वप्नसङ्कल्पश् चित्तराज्यधीः । स्वानुभूत्यैव दृष्टान्तस् तस्माद् धृद्य् अस्ति दृश्यभूः
तस्माच् चित्तविकल्पस्थः पिशाचो बालकं यथा । विनिहन्त्य् एवम् एषान्तर् द्रष्टारं दृश्यरूपिका
यथाङ्कुरो ऽन्तर् बीजस्य संस्थितो देशकालतः । करोति भासुरं देहं तनोत्य् एवं हि दृश्यधीः
सच् चेन् न शाम्यति कदाचन दृश्यदुःखं दृश्ये त्व् अशाम्यति न बोद्धरि केवलत्वम् । दृश्ये त्व् असम्भवति बोद्धरि बोद्धृभावः शाम्येत् स्थिते ऽपि हि तद् अस्य विमोक्षम् आहुः
कथयत्य् एवम् उद्दामवचनं मुनिनायके । श्रोतुम् एकरसे जाते जने मौनवति स्थिते
शान्तेषु किङ्किणीजालस्वनेषु स्पन्दनं विना । पञ्जरान्तरहारीतशुकेष्व् अप्य् अस्तकेलिषु
सुविस्मृतविलासासु स्थितासु ललनास्व् अपि । चित्रभित्ताव् इव न्यस्ते समस्ते राजसद्मनि
मुहूर्तशेषम् अभवद् दिवसं मधुरातपम् । व्यवहारो रविकरैस् सह तानवम् आययौ
ववुर् उत्फुल्लकमलप्रकरोन्मदमांसलाः । वायवो मधुरस्पन्दं श्रवणार्थम् इवागताः
श्रुतं चिन्तयितुं भानुर् इवाहोरचनाभ्रमम् । तत्याजैकान्तम् अगमच् छून्यम् अस्तगिरेस् तटम्
उत्तस्थुर् मिहिकारम्भश्यामता वनभूमिषु । विज्ञानश्रवणाद् अन्तश्शीतलाश् शान्तता इव
बभूवुर् अल्पसञ्चारा जना दशसु दिक्ष्व् अपि । सावधानतया श्रोतुम् इव सन्त्यक्तचेष्टिताः
छाया दीर्घत्वम् आजग्मुर् वासिष्ठं वर्णनक्रमम् । इव श्रोतुम् अशेषाणां वस्तूनां दीर्घकन्धराः
प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् । देव स्नानद्विजार्चासु कालो ह्य् अतिगतो भृशम्
ततो वसिष्ठो भगवान् संहृत्य मधुरां गिरम् । अद्य तावन् महाराज श्रुतम् एतावद् अस्तु वः
प्रातर् अन्यद् वदिष्याम इत्य् उक्त्वा मौनवान् अभूत् । इत्य् आकर्ण्यैवम् अस्तूक्त्वा भूपतिर् भूतिवृद्धये