सुखी दुẖखी भवो ऽभावो नरो नागो ऽमरो ऽसुरः । बकẖ काकश् शुकश् शङ्खस् तित्तिरिर् हरिणो वृषः
भवत्य् अभव्यताम् एत्य दुẖखाद् दुẖखं भयाद् भयम् । पतन्न् आपातरम्येषु रमते भोगभस्मसु
अशरीरो निराकारस् सङ्कल्पात्माम्बरास्पदः । पिशाचो ऽस्मीति संवित्त्या क्वचिद् धत्ते पिशाचताम्
यद् यत् सर्गे यथा रूढं तत् तथा तु निषेवते । जीवं सर्वात्मकं तज्ज्ञम् अतज्ज्ञम् अपि वानघ
यक्षरक्षḫपिशाचादिभावनाभ्रमभेदतः । जन्मनाम् अत्र सङ्ख्यां न कर्तुं मम समार्थता
पदार्थभावनामात्राद् अतिदुẖखपरम्पराः । अहन्तात्मन उद्यन्ति सत्यासत्यघनभ्रमाः
एवं ख एव जायन्ते खरूपास् संसृतिभ्रमाः । न देशकालावरणं कुर्वन्त्य् एते मनाग् अपि
अनारतं सर्गपरम्पराणाम् अरूपिणीनाम् अथ रूपिणीनाम् । जलद्रवानुक्रमसंस्थितानां क्रान्तो ऽस्मि खे खात्मतयोदितानाम्
योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः । भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम्
पुराभूवम् अहं जन्तुर् मृतो ऽहं तत्र बन्धुषु । चिरेणेहाहम् उत्पन्न इति पश्यत्य् असौ ततः
एवं भावनयोच्छूनं जातं पश्यति देहकम् । सर्वावयवसम्पन्नं पङ्काद् इव विनिर्मितम्
शरीरम् अभिसम्पन्नं पश्यन् प्रोच्छूनवासनम् । परलोकम् अथ स्फारं चिनोत्य् आशु च पश्यति
ततẖ कतिपयं कालं शेषं दुष्कृतकर्मणाम् । भुक्त्वा सुकृतभोगाय याति पुण्यवतां पदम्
तत्रोपरि विमानेषु लोकपालपुरेषु च । मेरूपवनकुञ्जेषु रमते रमणीसखः
मन्दारदलदोलासु पुन्नागगहनेषु च । पारिजातवनाग्रेषु रमते रमणीसखः
सन्तानकवितानेषु पारिभद्रद्रुमेषु च । कल्पपादपकुञ्जेषु रमते रमणीसखः
योगभूमिगता ये ये म्रियन्ते पुरुषोत्तमाः । ते क्षीणदुष्कृता मत्ता रमन्ते सुरसद्मसु
स्वास्तीर्णकल्पतरुपल्लवसंस्तरेषु पुष्पावनद्धमृदुहेमलतालयेषु । सम्यक्क्रियास् सुरपुरेषु सहाप्सरोभिर् विद्याधरास् सुरतसारसुखं रमन्ते
प्रत्येकम् एवम् उदितḫ पृथक्संसारषण्डकः । ससुरासुरपाताललोकान्तरधराम्बरः
ब्रह्मविष्ण्विन्द्ररुद्राद्या एवम् एव गतास् स्थितिम् । सङ्कल्पात्मान एवेमं सर्गसङ्कल्पम् आश्रिताः
ब्रह्मविष्ण्विन्द्ररुद्रादिḫ पूर्वम् एव मनोमयी । मायेयम् उदिता मिथ्या सर्गता कल्पनात्मिका
यद् यद् आलोक्यते किञ्चिन् मायायास् तद् असन् नभः । अन्तरन्तरसारात्मरम्भास्तम्भा इवोदिताः
सङ्कल्पपुरुषा एते ब्रह्मरुद्रेन्द्रकादयः । असत्याश् चैव सत्याश् च चित्त्वाचित्त्वैर् इह स्थिताः
भूतं प्रति पृथग्भूतस् सर्गो विकसितस् स्वयम् । सङ्कल्पस्वप्नपुरवन् मनोराज्यवद् आततः
सर्वगत्वाच् च चिद्धातोर् मिथश् चानुभवभ्रमात् । सर्गेष्व् एतेषु सद्रूपास् समस्ता भूतजातयः
सम्मिलन्ति मिथẖ केचिन् निरावरणसंविदः । सर्गाḫ परिणमन्त्य् अन्ये त्व् अपरस्परवेदिनः
काकतालीयवत् केचित् सर्गास् सर्गे पतन्त्य् अपि । देशम् अन्यम् इमं प्राप्ता वयम् इत्य् एव भाविताः
क्रमेणानेन हे राम ते स्वप्नपुरुषा अपि । सङ्कल्पपुरुषाश् चैव सत्याश् चित्त्वाद् अखण्डितात्
चिद्घनं चित्त्वसारत्वाच् चित्त्वम् एवावतिष्ठते । नास्य विघ्नो न वेधो ऽस्ति नान्यता न च नाशिता
सङ्कल्पपुरुषास् सत्यास् सत्याश् च स्वप्नविभ्रमाः । वर्तमानार्थकारित्वान् नेह किञ्चिद् असन्मयम्