मुहूर्ते सुचिरं कालम् अशरीरश् शरीरकम् । चिनोति पश्यत्य् अभ्येति जीवस् स्वप्नं भवान् इव
अश्रेष्ठया वासनया दुष्टात्मफलवान् अहम् । दुẖखवान् अधमो जात इति पश्यति जीवकः
प्रधानया वासनया प्रधानफलवान् अहम् । जातḫ प्रधान एवेति चिनोत्य् आत्मानम् आत्मना
जीव एवम् अदेहो ऽपि सदेहत्वम् उपागतः । देशकालक्रमप्रौढं परलोकं प्रपश्यति
अयं स परलोको मे धर्मराजनरा इमे । अयं नीतो ऽस्मि नेयो ऽयं ममेदं तत्त्वम् ईहितम्
परलोकभुवस् त्व् एतास् सत्यं वच्मि पुराकृतम् । पृष्टो ऽस्म्य् अयं धर्मभृता च्छायेयं मम साक्षिणी
सुकृतं दुष्कृतं चेदं कर्म मे पुरतस् स्थितम् । अयं नीतो ऽस्मि गच्छामि स्वर्गं नरकम् एव वा
एवम्प्रत्ययवाञ् जीवो दीर्घं संसृतिविभ्रमम् । सम्पश्यति क्षणेनैव संवत्सरशतेन च
एष दुẖखमहाषण्डो वासनाबीजकोटरात् । अहम् इत्य् आत्मनो व्यक्तं दुर्जाताद् उपजायते
नियोजितो ऽस्म्य् अयं दुẖखे सुखे वा योजितो ऽस्म्य् अयम् । अयं मे वत्सरो यात इदं वर्षशतं गतम्
एतत् तद् दुष्कृतं भुक्तम् एतास् तास् स्वर्गसम्पदः । योन्यन्तरेषु तिष्ठन् हि स्थितो ऽस्म्य् अहम् इह द्रुमः
स्थितास्मीयम् अहं वल्ली सम्पन्नो ऽस्मीह षण्डकः । गर्दभो ऽयम् अहं जातश् शुको ऽयम् अहम् आस्थितः
मर्कटो ऽस्मीह सम्पन्नस् सम्पन्नो ऽस्मीह तित्तिरिः । ऋक्षो ऽस्मीह वटो ऽस्मीह मत्स्यो ऽस्मीहाथ कच्छपः
इह वर्षशतं तिर्यग् इह वर्षशतं तृणम् । प्राप्नोमि मानुषीं जातिं नरो भूयो भवाम्य् अहम्
पिण्डदानादिभिर् बन्धुकृत्यैस् सत्पुत्रचेष्टितैः । क्षीणदुष्कृतसम्पन्नो भवामि पुरुषो ऽधुना
अयम् अस्यास् स्त्रिया गर्भे मातुर् अस्मि नियोजितः । गर्भमासाष्टके क्षीणे पितुर् जातो ऽस्म्य् अयं गृहे
स्थितो ऽस्म्य् अयम् अहं बालḫ प्राप्तो ऽस्मि नवयौवनम् । अयं जराम् अहम् इतश् चिराद् अयम् अहं मृतः
इत्याद्य् अनुभवञ् जीवो निजविभ्रमजर्जरः । उह्यते वासनावात्यापरावर्तैḫ पुनḫ पुनः
वासनाबिलकल्लोलैर् विविधावर्तवृत्तिभिः । जीवतृण्यास् स्फुरन्तीमास् संसारैकमहार्णवे
जीवẖ क्वचित् सुषुप्तस्थẖ क्वचित् स्थावरताजडः । क्वचिद् व्याधिपरिम्लानẖ क्वचिद् आधिभिर् आतुरः
सुखी दुẖखी भवो ऽभावो नरो नागो ऽमरो ऽसुरः । बकẖ काकश् शुकश् शङ्खस् तित्तिरिर् हरिणो वृषः
भवत्य् अभव्यताम् एत्य दुẖखाद् दुẖखं भयाद् भयम् । पतन्न् आपातरम्येषु रमते भोगभस्मसु
अशरीरो निराकारस् सङ्कल्पात्माम्बरास्पदः । पिशाचो ऽस्मीति संवित्त्या क्वचिद् धत्ते पिशाचताम्
यद् यत् सर्गे यथा रूढं तत् तथा तु निषेवते । जीवं सर्वात्मकं तज्ज्ञम् अतज्ज्ञम् अपि वानघ
यक्षरक्षḫपिशाचादिभावनाभ्रमभेदतः । जन्मनाम् अत्र सङ्ख्यां न कर्तुं मम समार्थता
पदार्थभावनामात्राद् अतिदुẖखपरम्पराः । अहन्तात्मन उद्यन्ति सत्यासत्यघनभ्रमाः
एवं ख एव जायन्ते खरूपास् संसृतिभ्रमाः । न देशकालावरणं कुर्वन्त्य् एते मनाग् अपि
अनारतं सर्गपरम्पराणाम् अरूपिणीनाम् अथ रूपिणीनाम् । जलद्रवानुक्रमसंस्थितानां क्रान्तो ऽस्मि खे खात्मतयोदितानाम्
योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः । भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतम्
पुराभूवम् अहं जन्तुर् मृतो ऽहं तत्र बन्धुषु । चिरेणेहाहम् उत्पन्न इति पश्यत्य् असौ ततः