प्राणवातान्वितो जीवगन्धो देहसरोरुहम् । प्रविहाय समुड्डीनẖ कम् अप्य् आकाशम् आगतः
मुहूर्तम् एकं सौषुप्तीम् अवस्थाम् अनुतिष्ठति । देहभारं परित्यज्य गाढां निद्राम् उपागतः
क्षणात् प्रबोधम् आयातस् सतताभ्यस्तया स्वया । आपूर्यते वासनया सरित्खात इवाम्भसा
संस्मृत्य स्वधिया साधुस् स स्वभावनया तया । व्योम्नि व्योमवपुर् यस्मिंस् तिष्ठेत् पुर्यष्टकान्वितः
न तु दूरे न निकटे व्योम नेदं न चेतरत् । काम् अप्य् अवर्णनायोग्यां ताम् आकाशदशां विदुः
ततस् स जीवो व्योम्न्य् अत्र प्राणवातमयात्मकः । शनैḫ प्राग्भावम् आदत्ते मधौ रसम् इवाङ्कुरः
भावना या सदाभ्यस्ता ताम् एव मरणावधौ । स्मरञ् जीवो जहातीमं भीमं भारं कलेवरम्
यं यं भावं स्मरन् देहात् सदाभावितम् उत्प्लुतः । तस्यैव फलम् आप्नोति स्वपौरुषबलार्जितम्
आदेहं यत् सदाभ्यस्तं जीवेन तद् असौ मृतौ । सर्वान् भावान् अनादृत्य स्मरतीदं कृतं मया
युद्धराज्यसुरारामपाठरोदनविभ्रमान् । स्वकर्मफलभीतो ऽसौ नाग्रस्थान् अपि पश्यति
य आसन्नफलो भावस् स्ववशेनावशेन वा । सर्वभावोपमर्देन स एवाग्रे विलोक्यते
शुभम् अस्तु ममेदानीं चिरं माशुभम् अस्तु मे । आकीटामरम् आशैषा क्षीयते न कदाचन
क्षीयते भावनैषान्तẖ केवलं विदितात्मनः । आकाशविशदश् शान्तो ज्ञḫ प्रनिर्वाति शाम्यति
जडश् चेत् तत् पुरो भावान् मृतौ कांश्चिन् न पश्यति । अजडश् चेत् तदभ्यस्तैर् भावैर् आक्रम्यते ऽवशः
एवम् आकाशरूपो ऽसौ जीवस् संवृतवासनः । तं मुहूर्तं जडावस्थो युगं यातं प्रपश्यति
अभवं प्राग् अहं जन्तुर् मृतस् तत्रास्मि बन्धुषु । युगम् अत्र परिक्षीणम् अभिपश्यति स क्षणात्
मुहूर्त एव सञ्जाते स जीवो युगनिश्चये । इह जातु प्रवृत्तो ऽस्मि देश इत्य् अवबुध्यते
अभवं प्राग् अहं जन्तुर् मृतस् तत्रास्मि बन्धुषु । ततẖ कृता मे स्वजनैḫ पिण्डदानादिकाẖ क्रियाः
ताभिर् लब्धशरीरेण मया सुकृतदुष्कृते । भुक्ते चिरतरं कालं जातो ऽस्म्य् अद्येत्थम् उत्थितः
इत्थं मुहूर्त एवासौ गते प्रत्ययवान् भवन् । स्ववासनानुसारेण देहम् आत्मनि पश्यति
मुहूर्ते सुचिरं कालम् अशरीरश् शरीरकम् । चिनोति पश्यत्य् अभ्येति जीवस् स्वप्नं भवान् इव
अश्रेष्ठया वासनया दुष्टात्मफलवान् अहम् । दुẖखवान् अधमो जात इति पश्यति जीवकः
प्रधानया वासनया प्रधानफलवान् अहम् । जातḫ प्रधान एवेति चिनोत्य् आत्मानम् आत्मना
जीव एवम् अदेहो ऽपि सदेहत्वम् उपागतः । देशकालक्रमप्रौढं परलोकं प्रपश्यति
अयं स परलोको मे धर्मराजनरा इमे । अयं नीतो ऽस्मि नेयो ऽयं ममेदं तत्त्वम् ईहितम्
परलोकभुवस् त्व् एतास् सत्यं वच्मि पुराकृतम् । पृष्टो ऽस्म्य् अयं धर्मभृता च्छायेयं मम साक्षिणी
सुकृतं दुष्कृतं चेदं कर्म मे पुरतस् स्थितम् । अयं नीतो ऽस्मि गच्छामि स्वर्गं नरकम् एव वा
एवम्प्रत्ययवाञ् जीवो दीर्घं संसृतिविभ्रमम् । सम्पश्यति क्षणेनैव संवत्सरशतेन च
एष दुẖखमहाषण्डो वासनाबीजकोटरात् । अहम् इत्य् आत्मनो व्यक्तं दुर्जाताद् उपजायते
नियोजितो ऽस्म्य् अयं दुẖखे सुखे वा योजितो ऽस्म्य् अयम् । अयं मे वत्सरो यात इदं वर्षशतं गतम्