एकाम् अथ द्वितीयां वा तृतीयां चेतरां च वा । आरूढस्य मृतस्य स्यात् कीदृशी भगवन् गतिः
मूढस्यारूढदोषस्य तावत् संसृतिर् आतता । यावज् जन्मान्तरशतैश् काकतालीययोगतः
अथ वा साधुसङ्गत्या प्रवृत्तस्य नरस्य नो । उदेति वैराग्यमतिर् मरौ पुष्पलता यथा
वैराग्यमतिर् एवं सा प्रवृद्धा भूमिकाक्रमे । नियोजयति संसारे तटीम् इव तरङ्गिणी
केचिज् जन्ममहायोगैर् अप्य् अलब्धविचारणाः । अरघट्टघटीयन्त्रम् इवोर्ध्वाधḫपरास् स्थिताः
प्रथमां वेतरां वापि योगभूमिं तु यो ऽभ्यसेत् । आयुẖक्षयम् अवाप्नोति पुनḫपाश्चात्यजन्मने
स तम् अभ्यस्तम् एवान्तर् बुद्धौ परिकरं वरम् । वहन् याति मृतेḫ पार्श्वं यथा स्रोतस् सरिद्रयम्
तत्र तैश् शुभसङ्कल्पैḫ पवित्रकलनात्मकः । तादृग्गुणमयैर् एव मित्रबन्धुभिर् अन्वितः
अदीनात्मा जगद्भावान् अखिलान् अपरामृशन् । संस्मरन् परया भक्त्या जगत्तरणकारणम्
सद्वासनामनोरूपो विजहाति शरीरकम् । वातावधूननाधूतम् आमोदẖ कुसुमं यथा
प्राणवातान्वितो जीवगन्धो देहसरोरुहम् । प्रविहाय समुड्डीनẖ कम् अप्य् आकाशम् आगतः
मुहूर्तम् एकं सौषुप्तीम् अवस्थाम् अनुतिष्ठति । देहभारं परित्यज्य गाढां निद्राम् उपागतः
क्षणात् प्रबोधम् आयातस् सतताभ्यस्तया स्वया । आपूर्यते वासनया सरित्खात इवाम्भसा
संस्मृत्य स्वधिया साधुस् स स्वभावनया तया । व्योम्नि व्योमवपुर् यस्मिंस् तिष्ठेत् पुर्यष्टकान्वितः
न तु दूरे न निकटे व्योम नेदं न चेतरत् । काम् अप्य् अवर्णनायोग्यां ताम् आकाशदशां विदुः
ततस् स जीवो व्योम्न्य् अत्र प्राणवातमयात्मकः । शनैḫ प्राग्भावम् आदत्ते मधौ रसम् इवाङ्कुरः
भावना या सदाभ्यस्ता ताम् एव मरणावधौ । स्मरञ् जीवो जहातीमं भीमं भारं कलेवरम्
यं यं भावं स्मरन् देहात् सदाभावितम् उत्प्लुतः । तस्यैव फलम् आप्नोति स्वपौरुषबलार्जितम्
आदेहं यत् सदाभ्यस्तं जीवेन तद् असौ मृतौ । सर्वान् भावान् अनादृत्य स्मरतीदं कृतं मया
युद्धराज्यसुरारामपाठरोदनविभ्रमान् । स्वकर्मफलभीतो ऽसौ नाग्रस्थान् अपि पश्यति
य आसन्नफलो भावस् स्ववशेनावशेन वा । सर्वभावोपमर्देन स एवाग्रे विलोक्यते
शुभम् अस्तु ममेदानीं चिरं माशुभम् अस्तु मे । आकीटामरम् आशैषा क्षीयते न कदाचन
क्षीयते भावनैषान्तẖ केवलं विदितात्मनः । आकाशविशदश् शान्तो ज्ञḫ प्रनिर्वाति शाम्यति
जडश् चेत् तत् पुरो भावान् मृतौ कांश्चिन् न पश्यति । अजडश् चेत् तदभ्यस्तैर् भावैर् आक्रम्यते ऽवशः
एवम् आकाशरूपो ऽसौ जीवस् संवृतवासनः । तं मुहूर्तं जडावस्थो युगं यातं प्रपश्यति
अभवं प्राग् अहं जन्तुर् मृतस् तत्रास्मि बन्धुषु । युगम् अत्र परिक्षीणम् अभिपश्यति स क्षणात्
मुहूर्त एव सञ्जाते स जीवो युगनिश्चये । इह जातु प्रवृत्तो ऽस्मि देश इत्य् अवबुध्यते
अभवं प्राग् अहं जन्तुर् मृतस् तत्रास्मि बन्धुषु । ततẖ कृता मे स्वजनैḫ पिण्डदानादिकाẖ क्रियाः
ताभिर् लब्धशरीरेण मया सुकृतदुष्कृते । भुक्ते चिरतरं कालं जातो ऽस्म्य् अद्येत्थम् उत्थितः
इत्थं मुहूर्त एवासौ गते प्रत्ययवान् भवन् । स्ववासनानुसारेण देहम् आत्मनि पश्यति