अनेन क्रमयोगेन संयोगेन महात्मनाम् । नियोगेन सताम् अन्तḫ प्रयोगेण स्वसंविदाम्
पौरुषेण प्रयत्नेन तावद् अभ्यास उह्यते । करामलकवद् यावत् सर्वसारो ऽनुभूयते
या योदेति मनाग् इच्छा तस्यास् तस्या निपातनात् । पदम् आसाद्यते सारं कयाचिन् नान्यया धिया
दृष्टे सकलसीमान्ते त्रिजगत्कणदीपके । संसारसरितḫ पारे सारे परमकारणे
नाहं कर्तेश्वरẖ कर्ता नास्मि कर्ता न चेश्वरः । नायम् अस्मि न चान्यो ऽहम् अहम् अस्मीतरश् च वा
कृत्वा दूरतरे नूनम् इति शब्दार्थभावनाः । यन् मौनम् आसितं शान्तं श्रेष्ठासंसङ्ग उच्यते
यन् नान्तर् नाम्बरे नाधो नोर्ध्वे नाशासु नावनौ । न पदार्थे नापदार्थे न जडे न च चेतने
आसितं भासनं शान्तम् अवासनम् अभावनम् । अनाद्यन्तम् अजं कान्तं तच् छ्रेष्ठासङ्ग उच्यते
अचित्तचेतनानन्दं सर्वभावान्तरासनम् । यद् वसन्तादिरसवत् तच् छ्रेष्ठासङ्ग उच्यते
अनिमज्जनम् अर्थेषु भावनाभावनं हृदि । अवेदनं सुखादीनाम् असंसङ्गं परं विदुः
कर्मस्व् अर्थेषु चिन्तासु वासनास्व् आत्मतासु च । अवेदनम् अमग्नत्वं श्रेष्ठासंसङ्ग उच्यते
अज्ञानपङ्कपीठायां ज्ञप्तिभूमौ स्वभावतः । काकतालीययोगाद् वाक्षयाद् वा सर्वकर्मणाम्
संविज्जलविलासायां विशद्देहमृणालकः । जातो हृदयसद्वाप्यां चिन्ताशफरिकान्वितः
सन्तोषामोदमधुरस् सत्कार्यामलपल्लवः । चित्तनालाग्रसंलीनो ऽविघ्नकण्टकसङ्कटः
विवेकपद्मो रूढो ऽन्तर् विचारार्कविकासितः । फलं फलत्य् असंसङ्गं तृतीयां भूमिकां गतः
असंसक्तमना मौनी मुनिर् मदबहिष्कृतः । भवत्य् अविद्यमानाभस् तृतीयां भूमिकाम् इतः
समवायाद् विशुद्धानां समत्वाद् धर्मकर्मणाम् । काकतालीययोगेन प्रथमोदेति भूमिका
भूमिḫ प्रोदितमात्रान्तर् अमृताङ्कुरिकैव सा । विवेकेनाम्बुसेकेन रक्ष्या पाल्याति धीमता
येनांशेनोल्लसत्य् एषा विचारेणोदयं नयेत् । तम् एवानुदिनं यत्नात् कृषीवल इवाङ्कुरम्
एषा हि परिमृष्टान्तर् अन्यासां प्रसवैकभूः । पत्त्राणाम् अङ्कुर इव तद्रूढो ऽन्यासु रोहति
तृतीयेयम् असंसङ्गकारिणी भवतारिणी । अनयोदितयोदेति भानुभासेव पद्मिनी
विजित्यावग्रहक्षोभदुर्देशप्रमुखान् अरीन् । सुसिक्तमूला लतिका ददात्य् अविकलं फलम्
असंसक्तमतिर् मौनी मदमात्सर्यवर्जितः । वृष्टशारदमेघाभो भवेद् भव्यस् त्रिभूमिकः
विदिताखिलवेद्यस्य शान्तसन्देहसन्ततेः । नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन
तृतीयां भूमिकां प्राप्तस् सामान्यासङ्गवान् इह । विचरत्य् असमुन्नद्धḫ परम् आकलयन् पदम्
श्रेष्ठासंसङ्गवान् एष तृतीये भूमिकापदे । भवति प्रोषिताशेषसङ्कल्पकलनास्पदे
लगत्य् असंसक्तमतेर् न कर्मफलभावना । वारीव पद्मपत्त्रस्य रत्नस्येवोपरञ्जना
नित्यासंसक्तया बुद्ध्या प्रकृतं बहिर् आचरन् । अन्तर् अक्षोभ एवास्ते हृदयेनापराजितः
एनाम् असंसङ्गदशाम् अवाप्य पतत्य् अपीच्छन्न् इह संसृतिं नो । इच्छा च नोदेति न राम ते भो योदेति सा सत्त्वचमत्कृतिर् हि
मूढस्यासत्कुलोत्थस्य प्रवृत्तस्य नरस्य च । अप्राप्तयोगसङ्गस्य कथम् उत्तरणं भवेत्