भोगा विषमसम्भोगा भोगा इव फणावताम् । नाहम् एतेषु नैते मे जागर्म्य् आत्मनि शान्तधीः
भोगा भवमहारोगास् सम्पदḫ परमापदः । वियोगा एव संयोगा आधयो व्याधयो धियः
कालẖ कवलनोद्युक्तस् सर्वभावान् असन्मयान् । अप्य् अत्ति विप्रलम्भेन स्वात्मानम् अपि मोहयन्
अप्य् असत्यानि सन्तीव नान्तवन्त्य् अन्तवन्ति च । चिद्रत्नरश्मिजालानि जगन्त्य् अगणितान्य् अहो
विचारेण न लभ्यन्ते न सन्त्य् अग्रगतान्य् अलम् । जाग्रति स्वप्नदृष्टानि पुराणीव स्थितान्य् अपि
सवातवनवल्लीनां छाया इव पुनḫ पुनः । अनारतविलोलानि भवन्ति न भवन्ति च
अनास्थयेति भावानां यद् अभावनम् आन्तरम् । नाहं कर्ता न भोक्तेति सामान्यो ऽसाव् असङ्गमः
न कर्तास्मि न भोक्तास्मि न वक्तास्मि न यामि च । प्रसृतेहेश्वरेच्छेत्थं सामान्यैवम् असङ्गतिः
ईश्वरार्पणया यद् यत् क्रियते मुक्तवासनम् । सामान्यासक्तितानाम तद् आहुḫ परमं पदम्
असंसङ्गो ऽयम् उक्तस् ते सामान्यो रघुनन्दन । इमं श्रेष्ठम् असंसङ्गं शृणु श्रुतिरसायनम्
अनेन क्रमयोगेन संयोगेन महात्मनाम् । नियोगेन सताम् अन्तḫ प्रयोगेण स्वसंविदाम्
पौरुषेण प्रयत्नेन तावद् अभ्यास उह्यते । करामलकवद् यावत् सर्वसारो ऽनुभूयते
या योदेति मनाग् इच्छा तस्यास् तस्या निपातनात् । पदम् आसाद्यते सारं कयाचिन् नान्यया धिया
दृष्टे सकलसीमान्ते त्रिजगत्कणदीपके । संसारसरितḫ पारे सारे परमकारणे
नाहं कर्तेश्वरẖ कर्ता नास्मि कर्ता न चेश्वरः । नायम् अस्मि न चान्यो ऽहम् अहम् अस्मीतरश् च वा
कृत्वा दूरतरे नूनम् इति शब्दार्थभावनाः । यन् मौनम् आसितं शान्तं श्रेष्ठासंसङ्ग उच्यते
यन् नान्तर् नाम्बरे नाधो नोर्ध्वे नाशासु नावनौ । न पदार्थे नापदार्थे न जडे न च चेतने
आसितं भासनं शान्तम् अवासनम् अभावनम् । अनाद्यन्तम् अजं कान्तं तच् छ्रेष्ठासङ्ग उच्यते
अचित्तचेतनानन्दं सर्वभावान्तरासनम् । यद् वसन्तादिरसवत् तच् छ्रेष्ठासङ्ग उच्यते
अनिमज्जनम् अर्थेषु भावनाभावनं हृदि । अवेदनं सुखादीनाम् असंसङ्गं परं विदुः
कर्मस्व् अर्थेषु चिन्तासु वासनास्व् आत्मतासु च । अवेदनम् अमग्नत्वं श्रेष्ठासंसङ्ग उच्यते
अज्ञानपङ्कपीठायां ज्ञप्तिभूमौ स्वभावतः । काकतालीययोगाद् वाक्षयाद् वा सर्वकर्मणाम्
संविज्जलविलासायां विशद्देहमृणालकः । जातो हृदयसद्वाप्यां चिन्ताशफरिकान्वितः
सन्तोषामोदमधुरस् सत्कार्यामलपल्लवः । चित्तनालाग्रसंलीनो ऽविघ्नकण्टकसङ्कटः
विवेकपद्मो रूढो ऽन्तर् विचारार्कविकासितः । फलं फलत्य् असंसङ्गं तृतीयां भूमिकां गतः
असंसक्तमना मौनी मुनिर् मदबहिष्कृतः । भवत्य् अविद्यमानाभस् तृतीयां भूमिकाम् इतः
समवायाद् विशुद्धानां समत्वाद् धर्मकर्मणाम् । काकतालीययोगेन प्रथमोदेति भूमिका
भूमिḫ प्रोदितमात्रान्तर् अमृताङ्कुरिकैव सा । विवेकेनाम्बुसेकेन रक्ष्या पाल्याति धीमता
येनांशेनोल्लसत्य् एषा विचारेणोदयं नयेत् । तम् एवानुदिनं यत्नात् कृषीवल इवाङ्कुरम्
एषा हि परिमृष्टान्तर् अन्यासां प्रसवैकभूः । पत्त्राणाम् अङ्कुर इव तद्रूढो ऽन्यासु रोहति