अभ्यासाज् ज्ञानशास्त्राणां करणात् पुण्यकर्मणाम् । जन्तोर् यथावद् एवेयं वस्तुदृष्टिḫ प्रसीदति
तृतीयां भूमिकां प्राप्य बुद्धो ऽनुभवति स्वयम् । द्विप्रकारम् असंसङ्गं तस्य भेदम् इमं शृणु
असंसङ्गस्य भगवन् प्रथमं ब्रूहि लक्षणम् । कथयिष्यसि मे पश्चाद् अस्यैव द्विप्रकारताम्
द्विप्रकारत्वकथनप्रसङ्गेनैव लक्षणम् । असंसक्तेश् शृणुतरां दुरितं येन नश्यति
द्विविधो ऽयम् असंसङ्गस् सामान्यश् श्रेष्ठ एव च । शृणु सामान्यम् एवादौ स एव श्रैष्ठ्यम् एष्यति
नाहं कर्तेश्वरẖ कर्ता न कश्चिद् वाथ को ऽपि वा । इत्य् अमज्जनम् अर्थेषु सामान्यासङ्गनामकम्
सम्पद्यत इदं किञ्चित् कयाप्य् एवेश्वरेच्छया । भावनाभावनम् इति सामान्यासङ्गनामकम्
अजो ऽहम् अव्ययात्माहम् अनन्तो ऽहम् अनामयः । अकर्तास्मीत्य् अनिच्छत्वं सामान्यासङ्गनामकम्
एवम् एव प्रवर्तन्ते प्रेमाणि च धनानि च । एवम् एवावहीयन्ते कस्य केवात्र कर्तृता
आपातरमणीयानि विमर्दविरसानि च । काकतालीययोगेन सुखान्य् आयान्ति यान्ति च
भोगा विषमसम्भोगा भोगा इव फणावताम् । नाहम् एतेषु नैते मे जागर्म्य् आत्मनि शान्तधीः
भोगा भवमहारोगास् सम्पदḫ परमापदः । वियोगा एव संयोगा आधयो व्याधयो धियः
कालẖ कवलनोद्युक्तस् सर्वभावान् असन्मयान् । अप्य् अत्ति विप्रलम्भेन स्वात्मानम् अपि मोहयन्
अप्य् असत्यानि सन्तीव नान्तवन्त्य् अन्तवन्ति च । चिद्रत्नरश्मिजालानि जगन्त्य् अगणितान्य् अहो
विचारेण न लभ्यन्ते न सन्त्य् अग्रगतान्य् अलम् । जाग्रति स्वप्नदृष्टानि पुराणीव स्थितान्य् अपि
सवातवनवल्लीनां छाया इव पुनḫ पुनः । अनारतविलोलानि भवन्ति न भवन्ति च
अनास्थयेति भावानां यद् अभावनम् आन्तरम् । नाहं कर्ता न भोक्तेति सामान्यो ऽसाव् असङ्गमः
न कर्तास्मि न भोक्तास्मि न वक्तास्मि न यामि च । प्रसृतेहेश्वरेच्छेत्थं सामान्यैवम् असङ्गतिः
ईश्वरार्पणया यद् यत् क्रियते मुक्तवासनम् । सामान्यासक्तितानाम तद् आहुḫ परमं पदम्
असंसङ्गो ऽयम् उक्तस् ते सामान्यो रघुनन्दन । इमं श्रेष्ठम् असंसङ्गं शृणु श्रुतिरसायनम्
अनेन क्रमयोगेन संयोगेन महात्मनाम् । नियोगेन सताम् अन्तḫ प्रयोगेण स्वसंविदाम्
पौरुषेण प्रयत्नेन तावद् अभ्यास उह्यते । करामलकवद् यावत् सर्वसारो ऽनुभूयते
या योदेति मनाग् इच्छा तस्यास् तस्या निपातनात् । पदम् आसाद्यते सारं कयाचिन् नान्यया धिया
दृष्टे सकलसीमान्ते त्रिजगत्कणदीपके । संसारसरितḫ पारे सारे परमकारणे
नाहं कर्तेश्वरẖ कर्ता नास्मि कर्ता न चेश्वरः । नायम् अस्मि न चान्यो ऽहम् अहम् अस्मीतरश् च वा
कृत्वा दूरतरे नूनम् इति शब्दार्थभावनाः । यन् मौनम् आसितं शान्तं श्रेष्ठासंसङ्ग उच्यते
यन् नान्तर् नाम्बरे नाधो नोर्ध्वे नाशासु नावनौ । न पदार्थे नापदार्थे न जडे न च चेतने
आसितं भासनं शान्तम् अवासनम् अभावनम् । अनाद्यन्तम् अजं कान्तं तच् छ्रेष्ठासङ्ग उच्यते
अचित्तचेतनानन्दं सर्वभावान्तरासनम् । यद् वसन्तादिरसवत् तच् छ्रेष्ठासङ्ग उच्यते
अनिमज्जनम् अर्थेषु भावनाभावनं हृदि । अवेदनं सुखादीनाम् असंसङ्गं परं विदुः