कदर्थलब्धांल् लभ्यांश् च तज्ज्ञान् अनुसरंश् चिरम् । यतẖ कुतश्चिद् आनीय नित्यं शास्त्राण्य् अवेक्षते
व्यालापध्वंसनशिखी धर्माब्देशोच्चकन्धरः । स्नानदानतपोध्यानविभवान् अभिवाञ्छति
प्रथमाम् इत्य् उपारुह्य द्वितीयाम् आश्रयेद् बलात् । पुरुषार्थाद् ऋते नान्या सङ्कटोत्तरणे गतिः
एवं विचारवान् यस् स्यात् संसारोत्तरणं प्रति । स भूमिकावान् इत्य् उक्तश् शेषस् त्व् आर्य इति स्मृतः
आर्यतातुल्यतां याता प्रथमैकैव भूमिका । भूमिकानां तु शेषाणाम् आर्यता दास्यम् अर्हति
विचारनाम्नीम् इतराम् आगतो योगभूमिकाम् । उदारमतिर् आदत्ते स्वभावं महताम् इति
श्रुतिस्मृतिसमाचारधारणाध्यानकर्मणाम् । मुख्यया व्याख्यया ख्यातं श्रयति श्रेष्ठपण्डितम्
इच्छाकुतुकबन्धेषु जयतीन्द्रियशत्रुषु । आदेहं प्रहरत्स्व् अन्तर् वीरेष्व् इव सुदारुणः
किम् अपूर्वां झगित्य् एनां संश्रयाम्य् अनुरागिणीम् । इति ह्रीमान् इव ह्रियं दयां चैष न मुञ्चति
पदार्थप्रविभागज्ञẖ कार्याकार्यविनिश्चयम् । जानात्य् अधिगतश्रव्यो गृहं गृहपतिर् यथा
मदाभिमानमात्सर्यलोभमोहातिशायिताम् । बहिर् अप्य् आस्थिताम् ईषत् त्यजत्य् अहिर् इव त्वचम्
चन्दनागुरुगन्धीनि वनितालिङ्गनान्य् अपि । अप्रार्थितोपयातानि सेवते स्वान्य् अनादरम्
मातृवत् परदाराणि परद्रव्याणि लोष्टवत् । स्वात्मवत् सर्वभूतानि कारुण्येनाभिपश्यति
यत् करोति यद् अश्नाति स्पन्दते यद् यद् ईहते । तद् आदौ बुद्धिभेदेन चिरं चारु परीक्षते
अविचारात्मकं नैति न गच्छति न वक्ति च । न ददाति न चादत्ते न चिनोति न चोपति
व्यवहारानुवृत्त्यर्थम् अविरुद्धं क्षणक्षयि । हर्षामर्षांशम् आदत्ते गन्तेवालातकं निशि
दुर्देशं दुरधिष्ठानं दुस्सङ्गं दुरुपाश्रयम् । आलोक्यम् अपि देहादि लिप्तं तृणम् इवोज्झति
यद् उदर्कहितं लोक्यं यद् अनाधि गतभ्रमम् । तद् एव हरिणो वातम् इव मौनी विधावति
हारिहासविलासासु हावभाववतीषु च । वीक्षते भाविनाशासु स्त्रीषु शुष्कलतास्व् इव
इत्थम्भूतमतिश् शास्त्रं गुरुसज्जनसेवनात् । सरहस्यम् अशेषेण यथावद् अधिगच्छति
असंसङ्गात्मिकाम् अन्यां तृतीयां योगभूमिकाम् । ततḫ पतत्य् असौ कान्तḫ पुष्पशय्याम् इवामलाम्
दुर्व्याख्याम् अधिकव्याख्याम् ऊनव्याख्यां विहाय धीः । यथावच् छास्त्रवाक्यार्थम् आदत्ते ऽस्यात्र पावनी
फलत्य् अत्रास्य शास्त्रार्थẖ कुर्वन्न् अन्तर् असङ्गताम् । शिक्षितस् सूपकारस्य सम्यक् सूपो रसेष्व् इव
तापसाश्रमविश्रामैḫ पावनाध्यात्मसङ्कथैः । शिलाशय्यासनासीनो जरयत्य् आयुर् आततम्
वनावनिविहारेण चित्तोपशमशोभिना । असङ्गसुखसोम्येन कालं नयति नीतिमान्
न तथा रमयन्त्य् एनं ज्योत्स्नाप्रसरहासिनः । निवासाẖ कुसुमाकीर्णा यथा गिरिगुहालयाः
देवद्विजगुरुप्राज्ञपण्डितार्चनभोजनैः । अपराह्णं क्षपयति पूर्वाह्णं श्रुतसज्जनैः
अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रमः । सन्तोषामृततृप्तात्मा साध्वाचारेण राजते
सरसीष्व् अच्छतोयासु फुल्लासु नलिनीषु च । सरित्सु बहुपुण्यासु वापीषु च निमज्जति
आसन्नचन्द्रकरकीर्णसुधारसासु पुष्पोपकारसमसोम्यजलस्थलासु । गुञ्जद्गुहासु रतम् एनम् अधित्यकासु वन्याḫ फलैर् उपचरन्ति महानुभावम्