किञ्चिज्जातधियो जन्तोर् देशभाषार्थवेदिनः । गृह्णामीदं त्यजामीदम् इति सञ्जायते स्थितिः
एतावन्मात्रबुद्धिर् यस् स्ववृद्धजनगोचरः । भवेत् स्वकर्मशास्त्राणां विषयो ऽसाव् अलं विधेः
कुलवृद्धप्रयुक्तेन स्वनिश्चयवतैव वा । भाव्यं पदपदार्थानां तेन तज्ज्ञेन वै ततः
जन्तुḫ पदपदार्थज्ञो हेयं त्यजति तज्ज्ञधीः । उपादेयम् उपादत्ते नालोकयति मध्यमम्
विवेकाद् वृद्धभीत्या वा शास्त्रार्थव्यवहारिणः । विचारपूर्वं यस्येहा स पुमान् इति कथ्यते
प्रवृत्तश् च निवृत्तश् च भवति द्विविधḫ पुमान् । स्वर्गापवर्गोन्मुखयोश् शृणु लक्षणम् एतयोः
किम् एतन् नाम निर्वाणं वरं संसृतिर् एव नः । इति कर्तव्यकर्ता यस् स प्रवृत्त इति स्मृतः
चलार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमा । अनेकजन्मान्तरतो भाविनी तस्य मोक्षधीः
असारा बत संसारव्यवस्थालं ममैतया । किं कर्मभिḫ पर्युषितैर् दिनं तैर् एव नीयते
क्षयातिशयनिर्मुक्तं किं स्याद् विश्रमणं परम् । इति निश्चयवान् यो ऽन्तस् स निवृत्त इति स्मृतः
स वर्तमान एवेह जन्मनि त्व् अविवेकिनि । स योगभूमिष्व् एतासु विषयो विशदाशयः
कथं विरागवान् भूत्वा संसाराब्धिं तराम्य् अहम् । एवंविचारणपरो यदा भवति सन्मतिः
साधुसङ्गमम् आदत्ते सच्छास्त्रम् अपि वीक्षते । विरागम् उपयात्य् अन्तर् भावनास्व् अनुवासरम्
क्रियासूदाररूपासु रमते मानम् ईहते । ग्राम्यासु जडचेष्टासु चलासु विचिकित्सते
नोदाहरति मर्माणि पुण्यशर्माणि चेष्टते । अनन्योद्वेगकारीणि मृदुकर्माणि सेवते
स्नेहप्रणयगर्भाणि पेशलान्य् उचितानि च । देशकालोपपन्नानि वचनान्य् अभिभाषते
तदासौ प्रथमाम् एकां प्राप्तो भवति भूमिकाम् । वक्ष्यमाणस्वभावो ऽथ तत्र रूढिम् उपेष्यति
देवायतनदेशेषु ब्राह्मणावसथेषु च । वनेषु रमते नित्यं प्रथमां भूमिकाम् इतः
शास्त्रसज्जनसम्पर्कैḫ प्रज्ञां वर्धयति स्वयम् । शुक्लपक्षẖ कलाम् इन्दोर् इव सौन्दर्यशालिनीम्
सर्वास्तिवादनिरतḫ पेशलḫ प्रणयान्वितः । मनसा कर्मणा वाचा सज्जनान् उपसेवते
कदर्थलब्धांल् लभ्यांश् च तज्ज्ञान् अनुसरंश् चिरम् । यतẖ कुतश्चिद् आनीय नित्यं शास्त्राण्य् अवेक्षते
व्यालापध्वंसनशिखी धर्माब्देशोच्चकन्धरः । स्नानदानतपोध्यानविभवान् अभिवाञ्छति
प्रथमाम् इत्य् उपारुह्य द्वितीयाम् आश्रयेद् बलात् । पुरुषार्थाद् ऋते नान्या सङ्कटोत्तरणे गतिः
एवं विचारवान् यस् स्यात् संसारोत्तरणं प्रति । स भूमिकावान् इत्य् उक्तश् शेषस् त्व् आर्य इति स्मृतः
आर्यतातुल्यतां याता प्रथमैकैव भूमिका । भूमिकानां तु शेषाणाम् आर्यता दास्यम् अर्हति
विचारनाम्नीम् इतराम् आगतो योगभूमिकाम् । उदारमतिर् आदत्ते स्वभावं महताम् इति
श्रुतिस्मृतिसमाचारधारणाध्यानकर्मणाम् । मुख्यया व्याख्यया ख्यातं श्रयति श्रेष्ठपण्डितम्
इच्छाकुतुकबन्धेषु जयतीन्द्रियशत्रुषु । आदेहं प्रहरत्स्व् अन्तर् वीरेष्व् इव सुदारुणः
किम् अपूर्वां झगित्य् एनां संश्रयाम्य् अनुरागिणीम् । इति ह्रीमान् इव ह्रियं दयां चैष न मुञ्चति
पदार्थप्रविभागज्ञẖ कार्याकार्यविनिश्चयम् । जानात्य् अधिगतश्रव्यो गृहं गृहपतिर् यथा