एकम् एव तु यत्रास्ति सत्तासामान्यमात्रकम् । तत्र किं कस्य केनैव समाधानं विनश्यति
चिनोमि न चिनोमीति त्यक्त्वा शब्दार्थविभ्रमम् । चिद्रूप एवाचिद्रूपो मौनवांस् तिष्ठ काष्ठवत्
स्थितिर् वायोर् अवहतḫ पयसो ऽद्रेश् च खस्य वा । अवासनान्तस् सा ते ऽस्तु कुर्वतो ऽकुर्वतश् चितः
अहम्भावो विलीनो यस् तापस्थहिमलेशवत् । चेत्यस्याचयनाद् अन्तस् सम्पन्नḫ परमं पदम्
अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् । शान्तं चित्त्वम् असंवेद्यम् अनन्यद् इदम् आततम्
अयं प्रत्येकम् उदितḫ पृथक् संसृतिषण्डकः । ससुरासुरपाताललोकान्तरधराम्बरः
ज्ञस् सर्वेतरसङ्कल्पसर्गान् पश्यत्य् अखण्डितान् । आस्वादितेक्षुस् सर्वेक्षुरसान् सानुभवान् इव
सङ्कल्पसर्गपुरुषास् सत्यास् सर्वे परस्परम् । चिद्व्योम्नो ऽच्छिन्नरूपत्वात् तत्तानुभवतस् स्वतः
स्पन्दविच्छित्तयस् सर्वा द्रवभावाद् यथाम्भसः । संविद्विच्छित्तयस् सर्वाश् चितिरूपात् तथात्मनः
ऐक्यम् ऐक्यात्मतापूर्वं रत्नयुग्मत्विषो यथा । यान्ति वित्त्वेन सङ्कल्पसर्गा भिन्नास् तथैकताम्
यद् यद् आलोक्यते तोये तत् तत् सर्वं यथा द्रवः । यद् यद् आमृश्यते शान्ते तत् तत् सर्वं चितिस् तथा
चिदीहनं विदुस् चित्तं निर्वाणं चिदनीहनम् । न चिदालिहनीयो ऽतḫ पदार्थो ऽविदितात्मनः
चित्तसत्ता परं दुẖखं चित्तासत्ता परं सुखम् । अतश् चित्तं विदीहात्म नेयं शमम् अवेदनात्
दृष्ट्वा रम्यम् अरम्यं वा स्थेयं पाषाणवत् समम् । एतावतात्मयत्नेन जिता भवति संसृतिः
स्वेनैव पुरुषार्थेन पदार्थामज्जनात्मना । तीर्यते गोष्पदम् इव न तु दैवाद् भवार्णवः
वस्तुप्राप्तौ चिदीहायाम् उदिते चित्तराक्षसे । सङ्ख्यातुं केन शक्यन्ते शून्यास् संसृतिविभ्रमाः
अतश् चितम् अधावन्तीं धारयन्न् अविदन्न् इव । काष्ठलोष्टसमस् तिष्ठ कार्यं कुर्वन् यथागतम्
संवेदनीयं न सुखं नासुखं नैव मध्यमम् । एतावता तु यत्नेन दुẖखान्तो ऽनन्त आप्यते
वस्त्वसन्मृगतृष्णाम्बु जीवो वस्तुतया लिहन् । चित्तयक्षोदये भीमाम् इमां प्राप्नोति संसृतिम्
सबाह्याभ्यन्तरं पश्यंश् चिता चैत्तं दृषद्दृढः । भूमिकाक्रमयोगेन मुक्तो भव भवार्णवात्
आपीनमण्डलशशाङ्कवद् अन्तर् एव श्रीमद्रसायनमयस् सुखम् एति तज्ज्ञः । विज्ञातसर्वभुवनत्रयवस्तुसारẖ कुर्वन् न नाम कुरुते परम् अभ्युपेतः
सप्तानां योगभूमीनाम् अभ्यासẖ क्रियते कथम् । कीदृशानि च चिह्नानि भूमिकां प्रति योगिनः
यतẖ कुतश्चित् सम्पन्नम् अविद्याव्याधिवेदनम् । सत्यं भवत्व् असत्यं वा चिकित्सां त्व् अस्य मे शृणु
पराद् अनन्ताद् यद्य् एषा तत् तद् एवेयम् अक्षतम् । न जातेयं न चाविद्या बोधमात्राद् भवेद् अतः
पक्षम् एतम् अनादृत्य स्वसङ्कल्पविलासिनः । सत्याम् अपीहाविद्यायां शृणु निर्नाशने क्रमम्
जन्तुḫ प्रथमजातस् तु सुषुप्तावस्थचेतनः । भाविभावनदुẖखात्मा क्रिमिसंविद् भवत्य् अधीः
भवेच् चेन् नवजातस्य न भावी भावनोदयः । सुखादिसंविदा सद्यस् तत् स एव परं पदम्
एतावतैव सौषुप्ती स्थितिर् भिन्ना परात् पदात् । यद् भाविवासनौघासौ जडा चोपलधर्मिणी
तुर्यावस्थासमा स्वस्था सद्रूपा शान्तवासना । जीवन्मुक्तेस् स्थितिर् अतो न सुषुप्तोपमा भवेत्
अग्रस्थवस्तुसम्बोधसन्तताभ्यासयोगतः । बालस् सुषुप्तावस्थायाẖ क्रमान् निर्याति राघव