अहो महत्ता स्वच्छायाश् चितो यस्या जगन्त्य् अपि । स्पन्दमात्रात् समुद्यन्ति लीयन्ते ऽस्पन्दमात्रतः
यस्योन्मेषनिमेषाभ्यां भावानां प्रलयोदयौ । नानानानाभम् इव यत् तद् इदं ब्रह्म चिद्घनः
चिद् वातवद् अभिन्नात्मा स्पन्दाद् आत्मगताद् यथा । तथैव जगद् एतस्मात् तस्मात् तत्स्थं तद् एव च
अतश् शुद्धम् अनाभासं सर्वं चिद्घनम् अक्षये । दृश्यमाने ऽपि नैव स्तस् त्वत्तामत्ते भवाभयः
नैक्यं न च द्वैतम् इहास्ति किञ्चिन् न त्वत्त्वमत्त्वादि सद् अप्य् असद् वा । सर्वं च सर्वत्र सदैव चास्ति यद् बुद्धवान् एवम् अपीह तत् तत्
मदुक्तम् एतद् आकर्ण्य निर्णीय शुभम् इत्य् अलम् । हृदये चाखिलं कृत्वा तिष्ठेत्थं शृणु राघव
सर्वम् एव परित्यज्य काष्ठमौनी भवानघ । निर्वासनो निर्मननẖ क्षीणचित्तḫ प्रशान्तधीः
अपश्यन्न् अप्य् अग्रगतान् अशृण्वन् पटहान् अपि । अस्पृशन्न् अम्बरम् अपि न जिघ्रञ् श्वसनाद्य् अपि
प्रभुञ्जानो ऽप्य् अभुञ्जानो व्योमवद् विमलान्तरः । संविदैवेदृशस् तिष्ठ निष्ठाम् आध्यात्मिकीं गतः
आत्मन्य् एवास्स्व शान्तात्मा मूकान्धबधिरोपमः । पुस्ताच् छैलाद् इव कृतश् चित्रभित्ताव् इवार्पितः
इति बुद्धीन्द्रियैर् एव स्थित्वा मेरुर् इव स्थिरः । अपुनर्भवनायैषि समाधानमहाशयः
कुरु कर्मेन्द्रियैẖ कार्यं यन्त्रवत् स्पन्दचञ्चलैः । अर्धसुप्तप्रबुद्धाभैस् स्वकर्माभ्यासचञ्चलैः
अफलेच्छानुसन्धानैर् बालैर् उन्मत्तकैर् इव । अवासनैर् अमननैश् चलैर् वृक्षदलैर् इव
नित्यम् अन्तर्मुखो भूत्वा स्वात्मारामḫ प्रपूर्णधीः । जाग्रत्य् एव सुषुप्तस्थẖ कुरु कर्माण्य् अनिद्रवत्
यथा मौनी यन्त्रपुमान् करोत्य् एवं कुरु क्रियाम् । वातस्वभावात् स्पन्दीनि चलन्त्व् अङ्गानि किं तव
अन्तस् सर्वपरित्यागी बहिẖ कुर्वन्न् अपि स्थिरम् । न कर्तासि न भोक्तासि न चायम् असि नेतरः
यस्य नाहङ्कृतो भावश् चेतो यस्य न लिप्यते । जगन् निघ्नन् प्रकुर्वन् वा न हन्ति न करोति सः
यस्य सर्वे समारम्भाẖ कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं मुक्तम् आहुस् तम् उत्तमाः
एवं समाधानमयो महात्मन् भूयो न चिन्ताम् उपयाति कश्चित् । महासमाधानम् अनन्तम् एतद् आश्रित्य तिष्ठामृतताम् उपैषि
यत्रैकद्वित्वकलनास् सम्भवन्ति हि काश्चन । तत्रैकान्तसमाधाने भङ्गो भवति राघव
एकम् एव तु यत्रास्ति सत्तासामान्यमात्रकम् । तत्र किं कस्य केनैव समाधानं विनश्यति
चिनोमि न चिनोमीति त्यक्त्वा शब्दार्थविभ्रमम् । चिद्रूप एवाचिद्रूपो मौनवांस् तिष्ठ काष्ठवत्
स्थितिर् वायोर् अवहतḫ पयसो ऽद्रेश् च खस्य वा । अवासनान्तस् सा ते ऽस्तु कुर्वतो ऽकुर्वतश् चितः
अहम्भावो विलीनो यस् तापस्थहिमलेशवत् । चेत्यस्याचयनाद् अन्तस् सम्पन्नḫ परमं पदम्
अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् । शान्तं चित्त्वम् असंवेद्यम् अनन्यद् इदम् आततम्
अयं प्रत्येकम् उदितḫ पृथक् संसृतिषण्डकः । ससुरासुरपाताललोकान्तरधराम्बरः
ज्ञस् सर्वेतरसङ्कल्पसर्गान् पश्यत्य् अखण्डितान् । आस्वादितेक्षुस् सर्वेक्षुरसान् सानुभवान् इव
सङ्कल्पसर्गपुरुषास् सत्यास् सर्वे परस्परम् । चिद्व्योम्नो ऽच्छिन्नरूपत्वात् तत्तानुभवतस् स्वतः
स्पन्दविच्छित्तयस् सर्वा द्रवभावाद् यथाम्भसः । संविद्विच्छित्तयस् सर्वाश् चितिरूपात् तथात्मनः
ऐक्यम् ऐक्यात्मतापूर्वं रत्नयुग्मत्विषो यथा । यान्ति वित्त्वेन सङ्कल्पसर्गा भिन्नास् तथैकताम्