चित्ताब्धौ वासना वीचिर् वासनाब्धौ तु संसृतिः । संसाराब्धौ शरीरं च शरीराब्धौ च जीवितम्
जीविताब्धौ च युवता चञ्चले यौवनार्णवे । वीचिर् इन्द्रियसङ्घातस् स्पन्दस् त्व् इन्द्रियवारिधौ
स्पन्दाम्भोधाव् अनुभवस् स्वानुभूत्याम्बुधौ ततः । तरङ्गश् चित्समुल्लास इतीदं सर्गवेदनम्
शब्दसंस्पर्शरूपादि येनेदम् अवबुध्यते । तच् चिन्मात्रं जगत् सर्वं तत्सारत्वाद् रघूद्वह
अक्षुब्धो ऽव्यपदेश्यो ऽसाव् असर्गकरणोन्मुखः । उन्नीयते चिदम्भोधिस् सद्भिर् ब्रह्मेति केवलम्
अक्षुब्धम् अपि तत् क्षुब्धम् इव चेत् कृतवेदनम् । तच् चिदंशम् उपारुह्य ब्रह्म सर्ग इति स्थितम्
अक्षुब्धो ऽसाव् अवाच्यो हि समश् चितिमहार्णवः । वक्तुं न केनचिन् नाम्ना कलया वापि शक्यते
न च तस्य महाबाहो क्षोभस् सम्भवति क्वचित् । पृथक् तन्मात्ररूपत्वात् सर्वस्य जगतो गतेः
स्वरूपे तस्य देवस्य केवलं या विलासिता । सैषोक्ता क्षोभशब्देन चिच्छब्देन च वानघ
परमार्थमहाम्भोधौ चिच् चेत्यलवरूपिणी । ऊर्मिवत् स्फुरति स्पन्दात् तेनेदं जायते जगत्
अक्षुब्धो ऽसाव् अनिर्देश्यस् समश् चिन्मात्रसागरः । क्षुब्धश् चेत्यतरङ्गस् तु चिद् इत्य् आकलितो बुधैः
चिदब्धौ लहरी चेत्यं सा च तस्मान् न भिद्यते । तावन्मात्रैकसारत्वाद् वारि वीचिर् इवाम्भसः
तस्माद् भूतानि जातानि तावन्मात्राणि तानि च । तद् एवातद् इवाभाति सकलं चाकलं च तत्
एकम् एव नकिञ्चिद् यत् किञ्चिद् वा तद् इदं जगत् । नानानानातया चेतो मा मिथ्याकुलतां नय
एकस्य वाम्भसो वीचिरूपेण स्फुरतो यथा । नान्यतास्ति तथा भूतभावेन स्फुरणाच् चितः
बीजम् एव यथा स्तम्भḫ पत्त्रं पुष्पं फलं रसः । परिणामादिरहितं भवत्य् एवं जगन्त्य् अजः
फलान्ता बीजसत्तैव स्फुरत्य् अन्यतयेव सा । अद्वैतैक्यजगद्रूपा ब्रह्मसत्तैव जृम्भते
बीजं सत्तैकसामान्येनाफलान्तं यथा स्थितम् । ब्रह्म सत्तैकसामान्येनासर्गान्तं तथा स्थितम्
ब्रह्मैकसत्तासामान्यमात्रम् एवेदम् आततम् । सत्यम् एकं जगद् इति व्याहृतं तरुवृक्षवत्
य एवाच्छश् चितस् स्पन्दस् स एवेत्थं जगद्भ्रमः । यश् चास्पन्दस् स एवाङ्ग परमोपशमश् शिवः
अहो महत्ता स्वच्छायाश् चितो यस्या जगन्त्य् अपि । स्पन्दमात्रात् समुद्यन्ति लीयन्ते ऽस्पन्दमात्रतः
यस्योन्मेषनिमेषाभ्यां भावानां प्रलयोदयौ । नानानानाभम् इव यत् तद् इदं ब्रह्म चिद्घनः
चिद् वातवद् अभिन्नात्मा स्पन्दाद् आत्मगताद् यथा । तथैव जगद् एतस्मात् तस्मात् तत्स्थं तद् एव च
अतश् शुद्धम् अनाभासं सर्वं चिद्घनम् अक्षये । दृश्यमाने ऽपि नैव स्तस् त्वत्तामत्ते भवाभयः
नैक्यं न च द्वैतम् इहास्ति किञ्चिन् न त्वत्त्वमत्त्वादि सद् अप्य् असद् वा । सर्वं च सर्वत्र सदैव चास्ति यद् बुद्धवान् एवम् अपीह तत् तत्
मदुक्तम् एतद् आकर्ण्य निर्णीय शुभम् इत्य् अलम् । हृदये चाखिलं कृत्वा तिष्ठेत्थं शृणु राघव
सर्वम् एव परित्यज्य काष्ठमौनी भवानघ । निर्वासनो निर्मननẖ क्षीणचित्तḫ प्रशान्तधीः
अपश्यन्न् अप्य् अग्रगतान् अशृण्वन् पटहान् अपि । अस्पृशन्न् अम्बरम् अपि न जिघ्रञ् श्वसनाद्य् अपि
प्रभुञ्जानो ऽप्य् अभुञ्जानो व्योमवद् विमलान्तरः । संविदैवेदृशस् तिष्ठ निष्ठाम् आध्यात्मिकीं गतः
आत्मन्य् एवास्स्व शान्तात्मा मूकान्धबधिरोपमः । पुस्ताच् छैलाद् इव कृतश् चित्रभित्ताव् इवार्पितः