यावत् किञ्चित् प्रस्फुरति सर्गस् तावत् कदर्थनाम् । मा यातु मात्स्यन्यायेन किलेति विहिता स्थितिः
निष्पुण्यपापं निश्चित्तं निर्ममो ऽमननक्रियम् । कालातिवाहनायैव जीवन्मुक्तो ऽवतिष्ठते
मायाग्रस्तमतिस् त्व् आत्मवासनावशतḫ फलम् । प्राप्नोतीहामुत्र चैव तदर्थं यतते च सः
एतावत् तावद् आबालपण्डितामरमानवम् । अविसंवादि यद् यादृक् चित्तं तन्मयतात्मनः
स्वसङ्कल्पैकबीजाय नरकस्वर्गशाखिने । फलायाज्ञस्य कर्तृत्वम् अकर्तृत्वं च राघव
यत् तु तज्ज्ञस्य कर्तृत्वम् अकर्तृत्वं च वा क्वचित् । तत् प्रमेयदशाम् एति न कदाचन कस्यचित्
कर्ता भवत्व् अकर्ता वा मुक्त एवाङ्ग तत्त्ववित् । भूयो मज्जति नाज्ञाने पयḫफेन इवाम्भसि
कर्ता भवत्व् अकर्ता वा बद्ध एवायथार्थवित् । अरण्यकूपाच् छ्वेवास्मान् मोहान् नोत्तरति क्वचित्
निर्देहो निर्मना मौनी शान्तस् स्वस्थो निरेषणः । कुर्वन्न् एव च कर्माणि तिष्ठोत्तिष्ठस्व तत्पदे
जीवो ब्रह्मार्णवे वीचिर् जीवाम्भोधाव् अहङ्कृतिः । अहङ्काराम्बुधौ बुद्धिर् बुद्ध्यब्धौ चित्तम् आबिलम्
चित्ताब्धौ वासना वीचिर् वासनाब्धौ तु संसृतिः । संसाराब्धौ शरीरं च शरीराब्धौ च जीवितम्
जीविताब्धौ च युवता चञ्चले यौवनार्णवे । वीचिर् इन्द्रियसङ्घातस् स्पन्दस् त्व् इन्द्रियवारिधौ
स्पन्दाम्भोधाव् अनुभवस् स्वानुभूत्याम्बुधौ ततः । तरङ्गश् चित्समुल्लास इतीदं सर्गवेदनम्
शब्दसंस्पर्शरूपादि येनेदम् अवबुध्यते । तच् चिन्मात्रं जगत् सर्वं तत्सारत्वाद् रघूद्वह
अक्षुब्धो ऽव्यपदेश्यो ऽसाव् असर्गकरणोन्मुखः । उन्नीयते चिदम्भोधिस् सद्भिर् ब्रह्मेति केवलम्
अक्षुब्धम् अपि तत् क्षुब्धम् इव चेत् कृतवेदनम् । तच् चिदंशम् उपारुह्य ब्रह्म सर्ग इति स्थितम्
अक्षुब्धो ऽसाव् अवाच्यो हि समश् चितिमहार्णवः । वक्तुं न केनचिन् नाम्ना कलया वापि शक्यते
न च तस्य महाबाहो क्षोभस् सम्भवति क्वचित् । पृथक् तन्मात्ररूपत्वात् सर्वस्य जगतो गतेः
स्वरूपे तस्य देवस्य केवलं या विलासिता । सैषोक्ता क्षोभशब्देन चिच्छब्देन च वानघ
परमार्थमहाम्भोधौ चिच् चेत्यलवरूपिणी । ऊर्मिवत् स्फुरति स्पन्दात् तेनेदं जायते जगत्
अक्षुब्धो ऽसाव् अनिर्देश्यस् समश् चिन्मात्रसागरः । क्षुब्धश् चेत्यतरङ्गस् तु चिद् इत्य् आकलितो बुधैः
चिदब्धौ लहरी चेत्यं सा च तस्मान् न भिद्यते । तावन्मात्रैकसारत्वाद् वारि वीचिर् इवाम्भसः
तस्माद् भूतानि जातानि तावन्मात्राणि तानि च । तद् एवातद् इवाभाति सकलं चाकलं च तत्
एकम् एव नकिञ्चिद् यत् किञ्चिद् वा तद् इदं जगत् । नानानानातया चेतो मा मिथ्याकुलतां नय
एकस्य वाम्भसो वीचिरूपेण स्फुरतो यथा । नान्यतास्ति तथा भूतभावेन स्फुरणाच् चितः
बीजम् एव यथा स्तम्भḫ पत्त्रं पुष्पं फलं रसः । परिणामादिरहितं भवत्य् एवं जगन्त्य् अजः
फलान्ता बीजसत्तैव स्फुरत्य् अन्यतयेव सा । अद्वैतैक्यजगद्रूपा ब्रह्मसत्तैव जृम्भते
बीजं सत्तैकसामान्येनाफलान्तं यथा स्थितम् । ब्रह्म सत्तैकसामान्येनासर्गान्तं तथा स्थितम्
ब्रह्मैकसत्तासामान्यमात्रम् एवेदम् आततम् । सत्यम् एकं जगद् इति व्याहृतं तरुवृक्षवत्
य एवाच्छश् चितस् स्पन्दस् स एवेत्थं जगद्भ्रमः । यश् चास्पन्दस् स एवाङ्ग परमोपशमश् शिवः