तद् इमं संशयं शेषम् एकं मे छेत्तुम् अर्हसि । भगवन् सर्वधर्मज्ञ प्रोद्विजन्ते हि नोत्तमाः
परमात्ममयं सर्वं यदि नाम सदैव हि । इदं कार्यम् इदं नेति तत् किमर्थं कृतẖ क्रमः
यथोत्पन्ना न वोत्पन्ना जीवाḫ परमकारणात् । द्वैतवन्तो ऽथ वाद्वैतास् तत् तावज् ज्ञातवान् भवान्
तत्र तावत् स्वसङ्कल्पाद् येषां द्वैतम् अलं स्थितम् । तैस् तावत् संसृतौ किञ्चित् संसर्तव्यम् असंशयम्
तत्र केचिद् बाल्य एव स्वचमत्कारयोगतः । विदन्ति परमात्मानं तिष्ठन्ति विगतज्वरम्
अनीश्वरास् सेश्वराश् च ये जीवा देहतां गताः । गृहीतद्वैतविस्ताराẖ कालेनायान्ति ते पदम्
भवत्य् एवातिविश्रान्तिर् नास्ति कस्यास्ति कस्य च । सुचिरात् केवलं कश्चिद् अचिराद् वेत्ति कश्चन
केचिद् विदितवेद्यत्वं यान्ति राघव यौवने । जरावन्तḫ परं वस्तु विदन्तीहापरे जनाः
एवं तज्ज्ञास् तथाज्ञाश् च तिष्ठन्त्य् एव यथास्थितम् । अस्यां व्यवहृतौ जीवन्मुक्ता बद्धाश् च मानवाः
इदं कार्यम् इदं नेति तेषां यदि जगत्स्थितिः । नोन्नीयते तत् क्षयकृन् मात्स्यो न्यायḫ प्रवर्तते
यावत् किञ्चित् प्रस्फुरति सर्गस् तावत् कदर्थनाम् । मा यातु मात्स्यन्यायेन किलेति विहिता स्थितिः
निष्पुण्यपापं निश्चित्तं निर्ममो ऽमननक्रियम् । कालातिवाहनायैव जीवन्मुक्तो ऽवतिष्ठते
मायाग्रस्तमतिस् त्व् आत्मवासनावशतḫ फलम् । प्राप्नोतीहामुत्र चैव तदर्थं यतते च सः
एतावत् तावद् आबालपण्डितामरमानवम् । अविसंवादि यद् यादृक् चित्तं तन्मयतात्मनः
स्वसङ्कल्पैकबीजाय नरकस्वर्गशाखिने । फलायाज्ञस्य कर्तृत्वम् अकर्तृत्वं च राघव
यत् तु तज्ज्ञस्य कर्तृत्वम् अकर्तृत्वं च वा क्वचित् । तत् प्रमेयदशाम् एति न कदाचन कस्यचित्
कर्ता भवत्व् अकर्ता वा मुक्त एवाङ्ग तत्त्ववित् । भूयो मज्जति नाज्ञाने पयḫफेन इवाम्भसि
कर्ता भवत्व् अकर्ता वा बद्ध एवायथार्थवित् । अरण्यकूपाच् छ्वेवास्मान् मोहान् नोत्तरति क्वचित्
निर्देहो निर्मना मौनी शान्तस् स्वस्थो निरेषणः । कुर्वन्न् एव च कर्माणि तिष्ठोत्तिष्ठस्व तत्पदे
जीवो ब्रह्मार्णवे वीचिर् जीवाम्भोधाव् अहङ्कृतिः । अहङ्काराम्बुधौ बुद्धिर् बुद्ध्यब्धौ चित्तम् आबिलम्
चित्ताब्धौ वासना वीचिर् वासनाब्धौ तु संसृतिः । संसाराब्धौ शरीरं च शरीराब्धौ च जीवितम्
जीविताब्धौ च युवता चञ्चले यौवनार्णवे । वीचिर् इन्द्रियसङ्घातस् स्पन्दस् त्व् इन्द्रियवारिधौ
स्पन्दाम्भोधाव् अनुभवस् स्वानुभूत्याम्बुधौ ततः । तरङ्गश् चित्समुल्लास इतीदं सर्गवेदनम्
शब्दसंस्पर्शरूपादि येनेदम् अवबुध्यते । तच् चिन्मात्रं जगत् सर्वं तत्सारत्वाद् रघूद्वह
अक्षुब्धो ऽव्यपदेश्यो ऽसाव् असर्गकरणोन्मुखः । उन्नीयते चिदम्भोधिस् सद्भिर् ब्रह्मेति केवलम्
अक्षुब्धम् अपि तत् क्षुब्धम् इव चेत् कृतवेदनम् । तच् चिदंशम् उपारुह्य ब्रह्म सर्ग इति स्थितम्
अक्षुब्धो ऽसाव् अवाच्यो हि समश् चितिमहार्णवः । वक्तुं न केनचिन् नाम्ना कलया वापि शक्यते
न च तस्य महाबाहो क्षोभस् सम्भवति क्वचित् । पृथक् तन्मात्ररूपत्वात् सर्वस्य जगतो गतेः
स्वरूपे तस्य देवस्य केवलं या विलासिता । सैषोक्ता क्षोभशब्देन चिच्छब्देन च वानघ
परमार्थमहाम्भोधौ चिच् चेत्यलवरूपिणी । ऊर्मिवत् स्फुरति स्पन्दात् तेनेदं जायते जगत्