निरिच्छेनाच्छशान्तेन चिदादित्येन चेत्यते । सर्गादिषु स्वतश् चेत्यं दृष्ट्या मुक्तावलीव खे
अनन्तरं तद् एवेदं शतशाखं विजृम्भते । भ्रमे कारणताम् एत्य जगज्जालतयेद्धया
यथा स्वभावाद् इतरत् कारणं नोपपद्यते । शून्यदृङ्मौक्तिकालोके तथा चिच् चेत्यवेदने
चिच्चेत्ययोर् न भेदो ऽस्ति यच् चिच् चेत्यं तद् एव हि । यैव दृक् सैव मुक्ताली बीजम् एवाङ्कुरस् स्मृतः
बीजम् एव फलं विद्धि त्यक्ताशेषविशेषणम् । विशेषकल्पनाद् अस्य न सङ्कल्पस्य सत्यता
सत्यता यदि सङ्कल्पे तस्मात् तज्जा तद् एव वा । स च सङ्कल्प एतस्माद् आद्याद् एवोदितश् शिवात्
तस्माद् यद् एव परमं पदं चिन्मात्रम् अव्ययम् । तद् एव सविकल्पा चिच् चेत्यम् आद्यं तद् एव च
तद् एव जीवकलनं तद् एवाहङ्कृतिस् स्फुरत् । तद् एव बुद्धिस् तच् चित्तं तत् स्पन्दश् चेन्द्रियाणि तत्
तद् देहस् तज् जगत् कृत्स्नं तद् दिशस् तच् च रोदसी । तद् अद्र्युर्वीनदीशादि तृणान्तं वाब्जजादि च
जडो देहो जडो ऽक्षौघो जडं चित्तं जडा मतिः । जडैवाहङ्कला चेति तथा प्रस्पन्दनं जडम्
एतेषां यो ऽनुभविता सो ऽसि सर्वगतो ऽसि च । तच् च निष्कलचिन्मात्रं मास्मात् स्वस्मात् पदाच् चल
एवम् आद्यन्तरहितम् एकम् एवेदम् आततम् । इत्थम् आभासते भासा स्वया नान्यास्ति कल्पना
सर्वं शान्तं स्वभासेदं भासते ज्ञप्तिमात्रकम् । त्वत्तामत्ताजगज्जन्ममरणादि न विद्यते
भ्रान्तिं परित्यज समो भव निर्विकारो नित्योदितो निरवलम्बनम् अस्तभावः । शान्तं समस्तम् अविकारम् अनादिमध्यम् इत्य् एव सत्यम् अपरेण तवालम् अस्तु
एवं वासिष्ठम् आकर्ण्य वचो विकसिताशयः । उच्छ्वसन्न् इव चित्तेन रामो वचनम् अब्रवीत्
अहो नु भारो भरवांश् चेतसा प्रोज्झितश् चिरात् । अयं सो ऽहम् इदं मे ऽद्य चेत्यादिस् त्वग् इवाहिना
स्वच्छताम् उपयाते ऽयम् अन्तẖकरणसंस्थितिः । शोभते शरदीव द्यौश् शान्तवारिदविप्लवा
अयं सो ऽहम् इदं मे ऽद्य इति भारं महाभरम् । अपि मेरोर् गुरुतरं धारयन् को न सीदति
शाम्यामि परिनिर्वामि जागर्म्य् आश्वासवान् अहम् । अध्वगस्येव मे स्कन्धाद् गृहीता महती शिला
एतावन्तम् अहं कालम् अहो नु खलु वञ्चितः । यद् इमां पदवीं शान्तां शीतलाच्छां न लब्धवान्
तद् इमं संशयं शेषम् एकं मे छेत्तुम् अर्हसि । भगवन् सर्वधर्मज्ञ प्रोद्विजन्ते हि नोत्तमाः
परमात्ममयं सर्वं यदि नाम सदैव हि । इदं कार्यम् इदं नेति तत् किमर्थं कृतẖ क्रमः
यथोत्पन्ना न वोत्पन्ना जीवाḫ परमकारणात् । द्वैतवन्तो ऽथ वाद्वैतास् तत् तावज् ज्ञातवान् भवान्
तत्र तावत् स्वसङ्कल्पाद् येषां द्वैतम् अलं स्थितम् । तैस् तावत् संसृतौ किञ्चित् संसर्तव्यम् असंशयम्
तत्र केचिद् बाल्य एव स्वचमत्कारयोगतः । विदन्ति परमात्मानं तिष्ठन्ति विगतज्वरम्
अनीश्वरास् सेश्वराश् च ये जीवा देहतां गताः । गृहीतद्वैतविस्ताराẖ कालेनायान्ति ते पदम्
भवत्य् एवातिविश्रान्तिर् नास्ति कस्यास्ति कस्य च । सुचिरात् केवलं कश्चिद् अचिराद् वेत्ति कश्चन
केचिद् विदितवेद्यत्वं यान्ति राघव यौवने । जरावन्तḫ परं वस्तु विदन्तीहापरे जनाः
एवं तज्ज्ञास् तथाज्ञाश् च तिष्ठन्त्य् एव यथास्थितम् । अस्यां व्यवहृतौ जीवन्मुक्ता बद्धाश् च मानवाः
इदं कार्यम् इदं नेति तेषां यदि जगत्स्थितिः । नोन्नीयते तत् क्षयकृन् मात्स्यो न्यायḫ प्रवर्तते