यद् इदं दृश्यते किञ्चिज् जगत् त्वमहमादिमत् । चित्तमात्रं हि तत् सर्वं जलमात्रं यथार्णवः
देहेन्द्रियादिभावेन चित्तं जगद् इति स्थितम् । षड्भिर् वा पञ्चभिर् द्वारैश् चेत्यं पतति देहिनाम्
यतẖ कुतश्चित् सम्पन्नं चित्तं द्वीन्दुविलासवत् । यथा नानेव सम्पन्नं तद् उक्तं बहुशस् तव
जीवादिसञ्ज्ञावलितं धृतसंसृतिविभ्रमम् । यथा तत् क्षीयते चित्तं श्रेयसे तद् इदं शृणु
चेतो भावविकाराढ्यं पश्यतीदं शरीरकम् । अविद्यमानं प्रोच्छूनं मृगतृष्णाम्ब्व् इवैणकः
तथा पश्यति वै चेतश् शरीरं स्पन्दचञ्चलम् । अभिन्नम् एव स्वात्मत्वाद् दधिरूपं यथा पयः
उत्पत्तिस्थितिनाशान्तं यथानुभवति स्वयम् । पयो दधित्वम् एवं हि चेतḫ पश्यति देहकम्
तथा हि भार्गवोदन्तो लवणैन्दवविभ्रमः । श्रुतस् त्वया महाबाहो चित्तरूपनिरूपणे
प्रतिभां जडम् अप्य् एति चित्तं सर्वगचिच्च्युतम् । अनिच्छायोमणिप्राप्तम् अयḫ प्रस्पन्दनं यथा
नित्योदितामलानन्तचिदादित्यांशुरञ्जनात् । चित्तपद्मो विकसति पुर्यष्टकदलावलिः
यथा मुक्तावली दृष्टा शून्ये खे सदसन्मयी । स्फुरत्य् एवं हि चित्तत्त्वे चेतस् स्फुरति चञ्चलम्
यथा चित्रोदयश् शून्ये भ्रान्तिमात्रम् उपप्लवः । तथा चेतसि देहो ऽयं गन्धर्वपुरवत् स्थितः
यथा चेतसि देहो ऽयं मिथ्या द्वीन्दुविलासवत् । इन्द्रियाणि तथा देहे मैवम्मात्रपरो भव
यथेन्द्रियाणि देहस्य बालकल्पितयक्षवत् । स्पन्दस् तथैवेन्द्रियाणां जडो मैतत्परो भव
यथेन्द्रियाणां वातानाम् इव स्पन्दो जडात्मकः । स्पन्दबोद्धृ तथैवासत् स्फुरत्य् एतच् चलं मनः
यथा स्पन्दस्य तु मनो भ्रमाकृति चलं जडम् । मनसो ऽस्य तथा बुद्धिर् मृगतृष्णा विजृम्भते
यथैव बुद्धिस् स्वान्तस्य तथा बुद्धेर् अहङ्कृतिः । असद्रूपा मुधोद्भूता मैवम्मात्रपरो भव
यथा बुद्धेर् अहङ्कारो वल्ल्याḫ पुष्पम् इव स्थितः । तथैवाहङ्कृतेर् जीवो मैवम्मात्रपरो भव
यथैवाहङ्कृतेर् जीवश् शून्येहावासनात्मकः । तथा जीवस्य कलया युक्ता चित् सचमत्कृतिः
तद् अप्य् अनघ सङ्कल्पवशान् नो वस्तुनापि सत् । मैतद् भावय किञ्चित् त्वं नैतत् तेनास्य वा भवान्
एते परस्परं सर्वे भ्रमात् कारणतां गताः । तरङ्गवद् विवर्तन्ते मनोबुद्धीन्द्रियादयः
यथा शून्ये महारण्ये स्वसङ्कल्पभ्रमाकुलाः । भ्रमन्त्य् उन्मत्तका एवं मनोबुद्धीन्द्रियादयः
शरीरं संसृतौ सारस् सारो ऽक्षौघश् शरीरके । सारस् त्व् अक्षगणे स्पन्दस् स्पन्दे सारस् स्मृतं मनः
सारो मनसि वै बुद्धिस् सारो बुद्धाव् अहङ्कृतिः । सारस् त्व् अहङ्कृतौ जीवो जीवे सारश् चिद् आबिला
चिति सारस् त्व् अचेत्यत्वं चेत्यस्यासम्भवाच् छिवे । तस्मात् सारतरात् सारẖ किञ्चिद् अन्यन् न विद्यते
निर्विकल्पचिदाभास एव सर्वत्र कारणम् । कारणं तस्य नास्त्य् अन्यत् तत् स्वतो नित्यभासुरम्
तावन्मात्रपरो नित्यं भव पूर्वं परित्यजन् । सकलं निष्कलं वापि जगच् चिन्मात्रम् एव हि
वलितं सर्वसङ्कल्पैर् यदि वा यदि वोज्झितम् । जगत् तद् अखिलं राम विद्ध्य् एतच् छुद्धचिन्मयम्
इत्य् अस्मात् परमात् साराद् अजस्रं संविद् अङ्ग ते । रात्रिन्दिवं न चलति यदि तत् त्वम् अजश् शिवः
अत्र स्थितस्य तव केचन दुर्विलासा रात्राव् अहेर् इव न राम पदं लभन्ते । मैनां परित्यज महामृतकन्दरां त्वम् अत्रैव तिष्ठ दृढलेख्यम् इवाश्मनीति