तद् एवं धर्मराजेन यमेनाश्व् अनुशासितः । यद् एव क्रियते नित्यं रतिस् तत्रैव जायते
ब्रह्मा किल पराकाशवपुर् आक्रम्यते कथम् । मनोमात्रम् असङ्कल्पः पृथ्व्यादिरहिताकृतिः
यश् चिद्व्योमचमत्कारः किलाकाशानुभूतिमान् । स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता
आकाशस्फुरदाकारस् सङ्कल्पपुरुषो यथा । पृथ्व्यादिरहितो भाति स्वयम्भूर् भासते तथा
न दृश्यम् अस्ति नो द्रष्टा परमात्मनि केवले । स्वयं चित्त्वात् तथाप्य् एष स्वयम्भूर् इति भासते
सङ्कल्पमात्रम् एवैतन् मनो ब्रह्मेति कथ्यते । सङ्कल्पाकाशपुरुषो नास्य पृथ्व्यादि विद्यते
यथा चित्रकृदन्तस्स्था निर्देहा भाति पुत्रिका । तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम्
चिद्व्योम केवलम् अनन्तम् अनादिमध्यं ब्रह्मेति भाति निजचित्तवशात् स्वयम्भूः । आकारवान् इव रसाद् इह वस्तुतस् तु वन्ध्यातनूज इव नास्ति तु तस्य देहः
एवम् एतन् मनश् शुद्धं पृथ्व्यादिरहितं नभः । मुने ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम्
तद् अत्र प्राक्तनी नाम स्मृतिः कस्मान् न कारणम् । यथा मम तथान्यस्य भूतानां चेति मे वद
पूर्वदेहो ऽस्ति यस्याद्यः पूर्वकर्मसमन्वितः । तस्य स्मृतिस् सम्भवति कारणं संसृतिस्थितेः
ब्रह्मणः प्राक्तनं कर्म यदा किञ्चिन् न विद्यते । प्राक्तनी संस्मृतिस् तस्य तदोदेति कुतः कथम्
तस्माद् अकारणं भाति वा स्वचित्त्वैककारणम् । स्वकारणाद् अनन्यात्मा स्वयम्भूस् स्वयमात्मवान्
आतिवाहिक एवासौ देहो ऽस्त्य् अस्य स्वयम्भुवः । न त्व् आधिभौतिको राम देहो ऽजस्योपपद्यते
आतिवाहिक एको ऽस्ति देहो ऽन्यस् त्व् आधिभौतिकः । सर्वासां भूतजातीनां ब्रह्मणो ऽस्त्य् एक एव किम्
सर्वेषाम् एव देहौ द्वौ भूतानां कारणात्मनाम् । अजस्य कारणासत्त्वाद् एक एवातिवाहिकः
सर्वासां भूतजातीनाम् एको ऽजः कारणं परम् । अजस्य कारणं नास्ति तेनासाव् एकदेहवान्
नास्त्य् एव भौतिको देहः प्रथमस्य प्रजापतेः । आकाशात्मावभात्य् एष आतिवाहिकदेहवान्
चित्तमात्रशरीरो ऽसौ न पृथ्व्यादिमयात्मकः । आद्यः प्रजापतिर् व्योमतनुः प्रतनुते प्रजाः
ताश् च निर्वाणरूपिण्यो विनान्यैः कारणान्तरैः । यद् यतस् तत् तद् एवेति सर्वैर् एवानुभूयते
निर्वाणमात्रं प्रथमं परं बोधस् तद् एव च । चित्तमात्रं तद् एवास्ते न याति वसुधादिताम्
सर्वेषां भूतमनसां संसारव्यवहारिणां । प्रथमो ऽसौ प्रतिच्छन्दश् चित्तदेहस् स्वतोदयः
यस्मात् पूर्वात् प्रतिच्छन्दाद् अनन्यैतत्स्वरूपिणी । इयं प्रविसृता सृष्टिस् स्पन्ददृष्टिर् इवानिलात्
प्रतिभानाकृतेर् अस्मात् प्रतिभामात्ररूपधृत् । विभात्य् एवम् अयं सर्गस् सत्यानुभववत् स्थितः
दृष्टान्तो ऽत्र स्वप्नपुरं स्वप्नस्त्रीसुरतं तथा । असद् अप्य् अर्थसम्पत्त्या सत्यानुभवभासुरम्
अपृथ्व्यादिमयो भाति व्योमाकृतिर् अदेहकः । सदेह इव भूतेशस् स्वात्मभूः पुरुषाकृतिः
स चित्सङ्कल्परूपत्वाद् उदेत्य् अप्य् अथ शाम्यति । स्वायत्तत्वात् स्वभावस्य नोदेति न च शाम्यति
ब्रह्मा सङ्कल्परहितः पृथ्व्यादिरहिताकृतिः । केवलश् चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः
सङ्कल्प एष कचति यथा नाम स्वसम्भवः । व्योमात्मैष तथा भाति भवत्सङ्कल्पशैलवत्
आतिवाहिकतैकान्तविस्मृत्या दृढरूढया । आधिभौतिकबोधेन मुधा भाति पिशाचवत्