यथा मुक्तावलीहंसदर्शनं खे स्वभावजम् । दृष्टेर् एवं चिदच्छायास् संवित्स्पन्दाज् जगद्भ्रमः
यथा निमीलिते नेत्रे स्वप्रभावेण दृक् चलम् । ताराकारं पश्यतीयं चिच् चेत्यं दृश्यवत् तथा
सङ्कल्पकलनास् त्यक्त्वा सर्वा एवात्मतां गतः । पश्य चिद्घन एवाच्छẖ कल्पान्तैकाब्धिवत् स्थितः
अस्मदादिर् जनस् साधो पारदृश्वा जगत्स्थितेः । तेनैवास्मद्वचो ग्राह्यम् ॐ इत्य् एवास्तसंशयम्
चोद्यचञ्चुतया किञ्चिद् वदामीति त्यजन् धियम् । यदि तिष्ठसि मद्वाचि तदा यास्य् एव तत् पदम्
नो चेत् तद् विविधानेकविकल्पकलनामलैः । शुद्धतार्किकताम् एत्य प्रयासि तृणगुल्मताम्
एवं चेत् तद् इयं ब्रह्मंस् त्वत्तामत्तामयात्मिका । तत्त्वतस् त्रिजगन्नाम्नी मन्ये न कलनास्त्य् अलम्
लवणैन्दवशुक्रादिवृत्तान्तवद् उपस्थितम् । भ्रान्तिमात्रं जगन् मन्ये सत्यं नास्तीह किञ्चन
एवं स्थिते मुनिश्रेष्ठ सर्वापह्नव एव वै । कृतो भवति तद् ब्रूहि युज्यते कथम् ईदृशम्
राम सम्यक्प्रबुद्धो ऽसि जानास्य् एव यथास्थितम् । शुद्धचिद्घन एवास्ति तं च त्वम् अवबुद्धवान्
सिद्धान्तो ऽध्यात्मशास्त्राणां सर्वापह्नव एव च । नाविद्यास्तीह नो माया शान्तं ब्रह्मेदम् अक्रमम्
शान्त एव चिदाभासे स्वच्छे समसमात्मनि । समग्रशक्तिकचिते ब्रह्मेति कलिताभिधे
निर्णीय केचिच् छून्यत्वं केचिद् विज्ञानमात्रताम् । केचिद् ईश्वररूपत्वं विवदन्ते परस्परम्
सङ्कल्प्य जगद् उच्छूनं नीत्वा च शतशाखताम् । चालयन्ति विचारेण केचित् साङ्ख्यमतादिकम्
केचित् सर्वम् इदं शान्तं ब्रह्मेति घननिश्चयाः । शुद्धचिद्व्योमताम् एत्य सन्तो ऽसन्त इव स्थिताः
न ब्रह्म न जगन् नान्यद् इति निश्चित्य केचन । आकाशविशदास् स्वच्छास् संस्थितास् सौगतादयः
केचिद् अप्य् अन्यथा कृत्वा नानासङ्कल्पकल्पनम् । स्थिताश् शाम्यन्ति जायन्ते संसरन्ति च वा न वा
समस्तकलनाहीनम् इति निर्णीय चिद्घनम् । समग्रशक्तिकचितं विवदन्ते हि वादिनः
एकत्र वस्तुनि समस्तकलाविमुक्ते सङ्कल्प्य सङ्कलनया विविधाभिधास् स्वाः । स्वं वासनाविलसितं समुदाहरन्तो विद्याविवादविभवैर् विवदन्ति वैद्याः
शरीरेन्द्रियबुद्ध्यादिचेतसां स्पन्दनस्य च । किं कस्मात् सारम् उदितं व्यापकं श्रेयसे भवेत्
यद् इदं दृश्यते किञ्चिज् जगत् त्वमहमादिमत् । चित्तमात्रं हि तत् सर्वं जलमात्रं यथार्णवः
देहेन्द्रियादिभावेन चित्तं जगद् इति स्थितम् । षड्भिर् वा पञ्चभिर् द्वारैश् चेत्यं पतति देहिनाम्
यतẖ कुतश्चित् सम्पन्नं चित्तं द्वीन्दुविलासवत् । यथा नानेव सम्पन्नं तद् उक्तं बहुशस् तव
जीवादिसञ्ज्ञावलितं धृतसंसृतिविभ्रमम् । यथा तत् क्षीयते चित्तं श्रेयसे तद् इदं शृणु
चेतो भावविकाराढ्यं पश्यतीदं शरीरकम् । अविद्यमानं प्रोच्छूनं मृगतृष्णाम्ब्व् इवैणकः
तथा पश्यति वै चेतश् शरीरं स्पन्दचञ्चलम् । अभिन्नम् एव स्वात्मत्वाद् दधिरूपं यथा पयः
उत्पत्तिस्थितिनाशान्तं यथानुभवति स्वयम् । पयो दधित्वम् एवं हि चेतḫ पश्यति देहकम्
तथा हि भार्गवोदन्तो लवणैन्दवविभ्रमः । श्रुतस् त्वया महाबाहो चित्तरूपनिरूपणे
प्रतिभां जडम् अप्य् एति चित्तं सर्वगचिच्च्युतम् । अनिच्छायोमणिप्राप्तम् अयḫ प्रस्पन्दनं यथा
नित्योदितामलानन्तचिदादित्यांशुरञ्जनात् । चित्तपद्मो विकसति पुर्यष्टकदलावलिः