इतश् चेतश् च विक्षिप्तरूपाण्य् एतानि तत् कथम् । किं वा त्वा कथयन्त्व् अङ्ग गतानीहैव पञ्चताम्
निर्मातृपितृको यद्वद् विशरारुश् शिशुव्रजः । तथाक्षवृन्दम् अधृति निरहम्भाववासनम्
जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन । तुर्य एवावतिष्ठे ऽहं तत्र दृश्यं न विद्यते
इति निर्वचनीभावं यथार्थकथनेन सः । लुब्धको मुनिना नीतो जगामाभिमतां दिशम्
अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा । निर्विकल्पा हि चित् तुर्यं तद् एवास्तीह नेतरत्
सत्यं दृष्ट्वा ब्रह्मभावं गते जीवे निरर्थकम् । देहे भवन्तीन्द्रियाणि चित्रभित्ताव् इवानघ
यत्रेष्टानिष्टसम्बन्धे नोदयस् सुखदुẖखयोः । न तच् चित्तं भवेद् राम तत् सत्त्वं तुर्यगं विदुः
स्वप्नकाले स्वप्न एव जाग्रद् व्यग्रापरिग्रहात् । जाग्रच् च स्वप्नताम् एति स्मरणीयतया तया
असत्यं जाग्रति स्वप्नस् स्वप्ने जाग्रद् असन्मयम् । जाग्रत्स्वप्नविकारान्ता घनमोहा सुषुप्तभूः
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयम् अङ्ग भ्रमोद्भवम् । वरत्रायाम् इवाहित्वं विज्ञाने प्रस्फुरत् स्थितम्
तुर्यम् अस्त्य् अनवच्छिन्नं शुद्धचिन्मात्ररूपि यत् । तत्रैतत् स्फुरति भ्रान्त्या तरङ्गत्वम् इवाम्भसि
यथाभूतार्थविज्ञानात् त्रयम् एतद् विलीयते । जीवन्मुक्तपदं शुद्धं तुर्यम् एवावशिष्यते
प्रोक्तं विदेहमुक्तत्वं तुर्यान्त इति पण्डितैः । चिद् ब्रह्मेत्येवमादीनां वचसां तद् अगोचरः
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः । शान्तं घोरं च मूढं च त्र्यात्म चित्तम् इह स्थितम्
घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम् । मूढं सुषुप्तभावस्थं त्रिभिर् हीनं मृतं भवेत्
यत्र चित्तं मृतं तत्र सत्त्वम् एकं स्थितं समम् । तद् विद्धि जीवन्मुक्तत्वं तत् तुर्यं तन् महत् पदम्
तत्रैते मुनयस् सिद्धा ब्रह्मविष्णुहरादयः । सत्त्वात्मके तुर्यपदे जीवन्मुक्ता व्यवस्थिताः
यं तं मुनिं वने व्याधḫ पृष्टवान् मृगहेतुना । स संस्थितस् तुर्यपदे शुद्धसत्त्वोदयात्मनि
चित्ताचारं न जानाति मृतचित्तस् स कञ्चन । शान्ताशेषविशेषांशम् अद्वैतैक्यपदं गतः
समस्तसङ्कल्पविलासमुक्ते तुर्ये पदे तिष्ठ निरामयात्मा । यत्र स्थितास् साधु सदेहमुक्ताḫ प्रशान्तभेदा मुनयो महान्तः
एष एवाङ्ग सिद्धान्तो यत् कालगगनाद्य् अपि । चिन्मात्रांशाद् ऋते नान्यज् जगदाद्य् अस्ति किञ्चन
जनयत्य् अच्छम् आभासं भङ्गुरं स्फुरणात् स्वतः । जगद्रूपं निशाविद्युद् इव चित् कालखादि च
यत्र स्फुरति चिद्विद्युत् तज् जगत् कालखादि च । स्थितैव यन् न स्फुरति तच् छान्तं सर्वम् अक्रमम्
यावद् आलोक्यते ऽम्भोदस् तावत् सत्यैव खे तडित् । कारणं नात्र पृच्छामि चित्स्पन्दे कारणं वद
वैतण्डिकाज्ञदुर्बुद्धिविलासं दूरतस् त्यजन् । शृण्व् एतद् ईदृशस्यैव वक्तव्यं नापलापिनः
तिष्ठत्य् एव घने विद्युत् सा च स्फुरति भङ्गुरा । आबालम् एतत् संसिद्धं केन नामापलप्यते
नित्यं सत्त्वम् असत्त्वं वा विभो हेत्वनपेक्षणात् । चित्स्पन्दस्य कथं न स्यात् स्पन्दो हीह सहेतुकः
अवाताम्बुधिदीपादे रत्नानां कचनस्य वा । वायोर् वा शून्यसंस्थस्य स्पन्दे कस्येह हेतुता
रामासर्वात्मनो ऽप्य् एवं तत्तातत्तोपपद्यते । स्वतस् सर्वात्मनो नित्यम् अतẖ किं नोपपद्यते
चिद् अस्पन्दा स्पन्दिनीति शब्दे भेदो न वस्तुनि । ब्रह्मैकघनम् अद्वैतं विद्धि वारि यथा द्रवम्