चित्तं शान्तिम् उपायातम् अस्माकं वननायक । मृतचित्ता वयम् इह स्थिता दारुमया इव
अस्माकं नास्त्य् अहङ्कारो रसो वा शुष्कभूरुहाम् । अहङ्कारो हि सर्वेषां कर्मणां मूलकारणम्
तन्तौ मुक्ताफलानीव प्रयान्ति समवायिताम् । अहङ्कृताव् इन्द्रियाणि सामन्ता इव राजनि
अहङ्कारमहातन्तौ छिन्ने त्व् इन्द्रियबालकाः । इतश् चेतश् च गच्छन्ति सामन्ता विनृपा इव
निरहङ्कृतिचित्तानि विशरारूणि लुब्धक । ममेन्द्रियाणि कार्येषु न लगन्त्य् अप्स्व् इवाम्बुजम्
मिथस् संश्लेषम् आयान्ति न ममेन्द्रियबालकाः । विनाहङ्कारजतुना शीतलायẖकणा इव
न मे बुद्धीन्द्रियं कञ्चिद् वेत्ति कर्मेन्द्रियक्रमम् । चित्रस्था इव तिष्ठन्ति स्वेष्व् अर्थेष्व् ईक्षणादयः
साधो यद् इन्द्रियं वक्ति तेन दृष्टो न ते मृगः । यस्य वा दर्शने शक्तिर् वक्तुं जानाति तन् न नः
न कानिचिन् ममैतानि गलिताहङ्कृतेẖ किल । तद् व्याध कस् त्वां कथयत्व् आर्तिमन्मृगदर्शनम्
सर्वेषाम् इन्द्रियाणां हि पशूनाम् इव पालकम् । चित्तं तच् च विलीनं नस् सर्वार्थरहिते पदे
इतश् चेतश् च विक्षिप्तरूपाण्य् एतानि तत् कथम् । किं वा त्वा कथयन्त्व् अङ्ग गतानीहैव पञ्चताम्
निर्मातृपितृको यद्वद् विशरारुश् शिशुव्रजः । तथाक्षवृन्दम् अधृति निरहम्भाववासनम्
जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन । तुर्य एवावतिष्ठे ऽहं तत्र दृश्यं न विद्यते
इति निर्वचनीभावं यथार्थकथनेन सः । लुब्धको मुनिना नीतो जगामाभिमतां दिशम्
अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा । निर्विकल्पा हि चित् तुर्यं तद् एवास्तीह नेतरत्
सत्यं दृष्ट्वा ब्रह्मभावं गते जीवे निरर्थकम् । देहे भवन्तीन्द्रियाणि चित्रभित्ताव् इवानघ
यत्रेष्टानिष्टसम्बन्धे नोदयस् सुखदुẖखयोः । न तच् चित्तं भवेद् राम तत् सत्त्वं तुर्यगं विदुः
स्वप्नकाले स्वप्न एव जाग्रद् व्यग्रापरिग्रहात् । जाग्रच् च स्वप्नताम् एति स्मरणीयतया तया
असत्यं जाग्रति स्वप्नस् स्वप्ने जाग्रद् असन्मयम् । जाग्रत्स्वप्नविकारान्ता घनमोहा सुषुप्तभूः
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयम् अङ्ग भ्रमोद्भवम् । वरत्रायाम् इवाहित्वं विज्ञाने प्रस्फुरत् स्थितम्
तुर्यम् अस्त्य् अनवच्छिन्नं शुद्धचिन्मात्ररूपि यत् । तत्रैतत् स्फुरति भ्रान्त्या तरङ्गत्वम् इवाम्भसि
यथाभूतार्थविज्ञानात् त्रयम् एतद् विलीयते । जीवन्मुक्तपदं शुद्धं तुर्यम् एवावशिष्यते
प्रोक्तं विदेहमुक्तत्वं तुर्यान्त इति पण्डितैः । चिद् ब्रह्मेत्येवमादीनां वचसां तद् अगोचरः
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः । शान्तं घोरं च मूढं च त्र्यात्म चित्तम् इह स्थितम्
घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम् । मूढं सुषुप्तभावस्थं त्रिभिर् हीनं मृतं भवेत्
यत्र चित्तं मृतं तत्र सत्त्वम् एकं स्थितं समम् । तद् विद्धि जीवन्मुक्तत्वं तत् तुर्यं तन् महत् पदम्
तत्रैते मुनयस् सिद्धा ब्रह्मविष्णुहरादयः । सत्त्वात्मके तुर्यपदे जीवन्मुक्ता व्यवस्थिताः
यं तं मुनिं वने व्याधḫ पृष्टवान् मृगहेतुना । स संस्थितस् तुर्यपदे शुद्धसत्त्वोदयात्मनि
चित्ताचारं न जानाति मृतचित्तस् स कञ्चन । शान्ताशेषविशेषांशम् अद्वैतैक्यपदं गतः
समस्तसङ्कल्पविलासमुक्ते तुर्ये पदे तिष्ठ निरामयात्मा । यत्र स्थितास् साधु सदेहमुक्ताḫ प्रशान्तभेदा मुनयो महान्तः