जाग्रत्स्वप्नसुषुप्तानां भवनाशोद्भवस्थितेः । एतत् तुर्यपदं शुद्धम् अत्र बद्धपदो भव
ब्रह्मन् येयं विना निद्रां ग्राह्यग्राहकसङ्गदृक् । सा लोला जाग्रदास्थेति जानाम्य् एव न संशयः
जाग्रद्वत् स्वप्नकाले या निद्रायां स्फुरति भ्रमे । ग्राह्यग्राहकसंवित्तिस् सा स्वप्नाख्येति वेद्म्य् अहम्
भाविजाग्रत्स्वप्नदशा या दृषद्वद् विमूढता । सा सुषुप्तदशेत्य् एव जानाम्य् एव मुनीश्वर
जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्व् अप्य् अलक्षितम् । तुर्यं तूर्याद् अतीतं च तद् विप्रेन्द्र किम् उच्यते
अहम्भावानहम्भावौ त्यक्त्वा सदसती तथा । यद् असक्तं समं स्वच्छं स्थितं तत् तुर्यम् उच्यते
या स्वस्था समता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते
रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्मवश्यैर् विधेयात्मा तुर्यताम् उपगच्छति
समता स्वच्छता चान्तर् एकता निर्विकल्पता । शुन्यता भाविता येन तुर्यावस्थाम् असौ गतः
सर्व एव महान्तो ऽपि ब्रह्मविष्णुहरादयः । नराश् च केचिज् जीवन्तो मुक्तास् तुर्ये व्यवस्थिताः
नैतज् जाग्रन् न च स्वप्नस् सङ्कल्पानाम् असम्भवात् । सुषुप्तभावो नाप्य् एतद् अभावाज् जडतान्तयोः
रज्जुसर्पभ्रमनिभं नात्र चित्तं विवल्गति । सत्तासामान्यम् एकात्म सत्त्वम् अत्र समं स्थितम्
आत्मारामामलानन्दा संशान्तसकलैषणा । जीवन्मुक्तदशा राम तुर्यशब्देन कथ्यते
यथा स्वप्ने जगद्भानम् इदं चित्कचनं त्व् इति । बोधाद् द्वेषभयोन्मुक्तं शान्तम् अप्रतिघं भवेत्
अत्यन्तासम्भवाद् दृश्यदृशां ब्रह्मात्मतोदयात् । तथा रागादिनिर्मुक्तम् आसितं तुर्यम् उच्यते
शान्तं सम्यक्प्रबुद्धानां यथास्थितम् इदं जगत् । विलीनं तुर्यम् इत्य् आहुर् अबुद्धानां स्थिरं स्थितम्
जीवन्मुक्तपदाद् ऊर्ध्वं वचसां यन् न गोचरे । शान्तं विदेहमुक्तत्वं तुर्यातीतं तद् उच्यते
जीवन्मुक्तपदे तुर्ये कञ्चित् कालं यदृच्छया । स्थित्वा विदेहमुक्तत्वं याहि तुर्योत्तरं पदम्
तुर्ये बद्धपदो भूत्वा परमां समतां गतः । माकर्ता मा च कर्ता त्वं भव प्रकृतकर्मणि
अहङ्कारकलात्यागे शान्ततैवानुभूयताम् । विशरारौ क्षते चित्ते तुर्यावस्थोपतिष्ठते
या कर्मस्व् इह संसृतौ व्यवहृतिस् स स्वप्नजाग्रद्भ्रमो यन् मौर्ख्यं घनम् एव मोहवलितं सासौ सुषुप्तस्थितिः । जीवन्मुक्तपदं विवासनतया यत् तुर्यम् आर्येह तत् तुर्यातीतम् अदेहमोक्ष इह नो वक्तुं गिरा पार्यते
अकर्तृकर्मकरणम् असि चित्तत्त्वम् अक्षयम् । जाग्रत्स्वप्नसुषुप्ताख्यो भ्रमस् सङ्कल्पितस् त्व् असन्
अत्रेमं शृणु वृत्तान्तं कथ्यमानं मयाधुना । प्रबुद्धो ऽपि यथा बोधम् उपैषि विबुधोपमः
कस्मिंश्चित् कानने काष्ठमौनस्थितम् अरिन्दम । दृष्टद्रुतमृगं कञ्चिन् मुनिं पप्रच्छ लुब्धकः
पश्चाद् उपगतो बाणभिन्नं मृगम् अभिद्रुतः । क्व प्रयातो मृग इति प्रत्युवाच स तं मुनिः
शमशीला वयं साधो मुनयो वनवासिनः । नास्माकम् अस्त्य् अहङ्कारो व्यवहारेषु यẖ क्षमः
सर्वाणीन्द्रियकर्माणि करोति हि सखे मनः । अहङ्कारमयं तन् मे नूनं प्रगलितं चिरम्
मणिचन्द्रार्कदहनप्रकाशाẖ कारुकं यथा । औदासीन्येन तिष्ठन्तो योजयन्ति क्रियाक्रमे
अहङ्कारो मनोनामा स चेन्द्रियगणं नृणाम् । नियोजयति कार्येषु स्वेषु साक्षिवद् आस्थितः
स एवाभ्युपशान्तो नश् शरदीव पयोधरः । कस् तिष्ठत्व् इन्द्रियार्थेषु मृतẖ क इव वल्गति