मनो विचारम् आरुह्य मननानर्थम् उज्झति । यत् करोति विमूढात्मा तेनैतन् नश्यति स्वयम्
विवेकं प्राप्य चेतस् स्वान् सङ्कल्पान् नाशयत्य् अलम् । पूर्वं हि स्वजनान् हन्ति दुर्जनḫ प्राप्य सम्पदम्
स्वजनान् एव दहति दुर्जनḫ प्रथमोत्थितः । रूक्षैश् चटचटास्फोटैर् वेणून् वेण्वनलो यथा
प्रसारणात् प्रदृश्यन्ते सृष्टयो ऽन्तर्गताश् चितः । कदर्ककस्य विविधा यथा वर्णकपङ्क्तयः
समस्तशक्तिकचितम् एकात्म ब्रह्म संवृतम् । विवृतं भाति नानात्वे यात्रास्व् इव कदर्ककम्
चिन्मात्रालोकितं चित्तं करोतीमां जगत्स्थितिम् । नृपेक्षितḫ प्रतीहारस् सामन्तरचनाम् इव
चिद्रूषितस्य मनसẖ कर्म संसृतिनामकम् । रसासिक्तस्य बीजस्य पत्त्रपुष्पफलं यथा
अत्युल्लसद्विविधभङ्गुरवस्तुजातैश् चिच्चक्रचञ्चलतया समुदेति विश्वम् । तस्यैव सम्प्रति निवारय चञ्चलत्वं बुद्ध्वेह सत्यम् अथ वा घनतां नयस्व
जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि तु । तत्रास्य यत् परं रूपं तद् भज द्वे ऽपरे त्यज
अस्यासती तु द्वे रूपे द्विचन्द्रत्वम् इवोत्थिते । विचाराद् एव नश्येते परं रूपं न नश्यति
जीवस्य यद् अनाशं तु रूपं राघव तद् भवान् । तत्रैवाचलवद् बद्धपदम् आस्स्व रमस्व च
जीवस्य यानि भगवंस् त्रीणि रूपाणि तानि मे । यथावत् कथयानाशं रूपं वेद्मि यथास्य तत्
पाणिपादमयो यो ऽयं देहो भोगाय वल्गति । भोगार्थम् एतज् जीवस्य रूपं स्थूलम् इह स्थितम्
स्वसङ्कल्पचिदाकारं यावत् संसारभावि यत् । चित्तं तद् विद्धि जीवस्य रूपं रामातिवाहिकम्
सति चासति देहे ऽस्मिन् प्राणवातरथस्थितम् । एतद् अस्य मनोरूपं जगद् भ्राम्यत्य् अवारितम्
आमोदḫ पवनारूढḫ पुष्पं त्यक्त्वा यथाम्बरे । भवत्य् एवं शरीरेषु नष्टेषु प्राणगं मनः
यथा रक्षार्थसूत्रस्य ग्रन्थयो विविधास् स्थिताः । यथा वेणुलतायाश् च पर्वाण्य् अङ्गे स्थितानि वा
चित्ततन्तौ सुदीर्घे ऽस्मिञ् शरीराणि तथानघ । उत्पत्योत्पत्य नाशीनि सरिद्रयतरङ्गवत्
आद्यन्तरहितं सत्यं चिन्मात्रं निर्विकल्पकम् । यत् तद् विद्धि परं रूपं जीवस्याद्यं तृतीयकम्
जगत् प्रजायते तस्मात् तस्मिन्न् एव प्रलीयते । मनाक् स्फुरित्वा तद्रूपम् ऊर्मिजालम् इवार्णवे
जाग्रत्स्वप्नसुषुप्तानां भवनाशोद्भवस्थितेः । एतत् तुर्यपदं शुद्धम् अत्र बद्धपदो भव
ब्रह्मन् येयं विना निद्रां ग्राह्यग्राहकसङ्गदृक् । सा लोला जाग्रदास्थेति जानाम्य् एव न संशयः
जाग्रद्वत् स्वप्नकाले या निद्रायां स्फुरति भ्रमे । ग्राह्यग्राहकसंवित्तिस् सा स्वप्नाख्येति वेद्म्य् अहम्
भाविजाग्रत्स्वप्नदशा या दृषद्वद् विमूढता । सा सुषुप्तदशेत्य् एव जानाम्य् एव मुनीश्वर
जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्व् अप्य् अलक्षितम् । तुर्यं तूर्याद् अतीतं च तद् विप्रेन्द्र किम् उच्यते
अहम्भावानहम्भावौ त्यक्त्वा सदसती तथा । यद् असक्तं समं स्वच्छं स्थितं तत् तुर्यम् उच्यते
या स्वस्था समता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते
रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन् । आत्मवश्यैर् विधेयात्मा तुर्यताम् उपगच्छति
समता स्वच्छता चान्तर् एकता निर्विकल्पता । शुन्यता भाविता येन तुर्यावस्थाम् असौ गतः
सर्व एव महान्तो ऽपि ब्रह्मविष्णुहरादयः । नराश् च केचिज् जीवन्तो मुक्तास् तुर्ये व्यवस्थिताः