रतिर् नित्यम् अनर्थार्थम् अरतिश् श्रेयसे नृणाम् । अन्तवत्त्वाद् रतिर् दुẖखैर् अनन्तैर् योजयेन् नरम्
अरतिस् सन् यद् अश्नासि यत् करोषि जहासि यत् । न कर्तासि न भोक्तासि तत्र मुक्तमतिश् शमी
नेह प्रजायते किञ्चिन् नेह किञ्चिद् विनश्यति । सर्वं शान्तं निरालम्बं चिद्व्योमामलम् आततम्
सन्तो ऽतीतं न शोचन्ति भविष्यच् चिन्तयन्ति नो । वर्तमानं च गृह्णन्ति क्रमप्राप्तं सदानघ
स्फुरन्ति जीवपुष्पाणि जातानि ब्रह्मपादपे । तज्जान्यतन्मयानीव फेना इव महार्णवे
अन्योऽन्यप्रतिबिम्बेन चिदर्णवतरङ्गकाः । एकात्मका अपि द्वित्वं यान्ति जीवा जगत्स्थितौ
दृढभावनया जीवो मनस्ताम् उपगच्छति । शीतातिशयतस् स्वच्छं पयḫ पाषाणताम् इव
मनसि ग्रथिताḫ पाशास् तृष्णामोहमदादयः । वागुरायाम् इव खगाḫ मेथ्याम् इव च तर्णकाः
मनसैव मनो राम च्छेदनीयं विजानता । विवेकतीक्ष्णेनातप्तम् अयसेव बलाद् अयः
अनन्यदविकारादिजनितं स्वस्वभावजम् । वैचित्र्यं शिखिपिञ्छस्य यथा भाति तथात्मनः
नकिञ्चित् किञ्चिद् अप्य् आत्मा सत्याकारो ऽप्य् असद्वपुः । आकाशाद् अप्य् अलक्ष्यो ऽसौ जगद्रूपो ऽप्य् अरूपवान्
सालम्बे ऽपि निरालम्बो निर्विकारो विकारिणि । साभासे ऽपि निराभासो नश्यत्य् अर्थे न नश्यति
ग्राह्यं च ग्राहकं चैव ग्रहणं च रघूद्वह । यत्र सत्ताम् उपगतं तत्त्वं तत्र स्थिरो भव
मनसैव मनश् छिन्द्धि संसारभ्रमशान्तये । क्षालयन्ति मलेनैव मलं क्षालनकोविदाः
अमनस्त्वं प्रयातस्य न भूयस् ते भवो भवेत् । मननं हि भवं विद्धि स्वप्नाद् यत् तन् न तत्क्षयात्
सर्वं चिन्मात्रम् आत्मैव नास्त्य् अन्या कलनेति वा । बुद्ध्वा न जायसे भूयस् सति चासति चेतसि
सर्वं चिन्मात्रम् आत्मैव नास्त्य् अन्यद् इति या मतिः । तत्त्वं तद् विद्धि परमम् उन्मनस्त्वम् अजन्मने
सति चित्ते ऽप्य् अचित्तत्वं यद् आत्मत्वैकभावनात् । तद् अचित्तत्वम् आकारे सति वासति मोक्षदम्
सर्वं चिद् इति भावेन रागद्वेषदृशोẖ क्षये । चित्ते सत्य् अप्य् अचित्तत्वे जाते भूयोभवẖ कुतः
सुखाशयैति सङ्कल्पं जीवो दुẖखं ततो व्रजेत् । जीवो हि यतते भूत्यै सम्प्राप्नोत्य् आपदं पराम्
मनो विचारम् आरुह्य मननानर्थम् उज्झति । यत् करोति विमूढात्मा तेनैतन् नश्यति स्वयम्
विवेकं प्राप्य चेतस् स्वान् सङ्कल्पान् नाशयत्य् अलम् । पूर्वं हि स्वजनान् हन्ति दुर्जनḫ प्राप्य सम्पदम्
स्वजनान् एव दहति दुर्जनḫ प्रथमोत्थितः । रूक्षैश् चटचटास्फोटैर् वेणून् वेण्वनलो यथा
प्रसारणात् प्रदृश्यन्ते सृष्टयो ऽन्तर्गताश् चितः । कदर्ककस्य विविधा यथा वर्णकपङ्क्तयः
समस्तशक्तिकचितम् एकात्म ब्रह्म संवृतम् । विवृतं भाति नानात्वे यात्रास्व् इव कदर्ककम्
चिन्मात्रालोकितं चित्तं करोतीमां जगत्स्थितिम् । नृपेक्षितḫ प्रतीहारस् सामन्तरचनाम् इव
चिद्रूषितस्य मनसẖ कर्म संसृतिनामकम् । रसासिक्तस्य बीजस्य पत्त्रपुष्पफलं यथा
अत्युल्लसद्विविधभङ्गुरवस्तुजातैश् चिच्चक्रचञ्चलतया समुदेति विश्वम् । तस्यैव सम्प्रति निवारय चञ्चलत्वं बुद्ध्वेह सत्यम् अथ वा घनतां नयस्व
जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि तु । तत्रास्य यत् परं रूपं तद् भज द्वे ऽपरे त्यज
अस्यासती तु द्वे रूपे द्विचन्द्रत्वम् इवोत्थिते । विचाराद् एव नश्येते परं रूपं न नश्यति