चिन्मात्रस्यातिशुद्धस्य निस्सङ्कल्पोदितात्मनः । अनन्तस्य प्रकाशस्य सर्वगत्वाद् रघूद्वह
खाद् एव जायते कश्चित् कश्चिद् व्योम्न्य् एव लीयते । जीवस् सङ्कल्पमात्रात्मा मधाव् इव जरद्घनः
आत्मानं सम्यग् आलोक्य यẖ ख एव विलीयते । न स सन्दृश्यते भूयो हिमं तापद्रुतं यथा
यस् त्व् अपश्यन् स्वम् आत्मानं सस्पन्दẖ कलनात्मभिः । कर्मभिस् स स्फुरत्य् उच्चैर् विलीनो जायते पुनः
यस् सङ्कल्पपरिस्पन्दैस् स्थौल्यम् एति जडात्मकः । प्रावृषीव पयोवाहẖ क्षीणक्षीणो ऽप्य् उदेत्य् असौ
आत्मत्वांशान्वितम् अपि चित्सङ्कल्पं रघूद्वह । दूरीकुरु महासिद्ध्यै विषसिक्तम् इवाशनम्
निर्विकल्पम् अनाद्यन्तम् उदासीनम् अवस्थितम् । सर्वात्मैकं समुदितं चिद्व्योम भव भूतये
अकारणम् उपायान्ति सर्वे जीवाḫ परात् पदात् । पश्चात् कारणतां यान्ति बन्धमोक्षदशास्व् इह
सङ्कल्पित्वं हि बन्धस्य कारनं तत् परित्यज । मोक्षस् तु निस्सङ्कल्पत्वं तदभ्यासं धिया कुरु
अकारणं त्व् अकरणात् सर्वकारणकारणात् । यावन् निमेषम् अव्यक्ताज् जीवस् सम्पद्यते शिवात्
तावन् निमेष एवासौ याति कारणतां स्वयम् । संसृतौ स्वास्व् अवस्थासु वीचिष्व् इव चलज्जलम्
सावधानो भवातस् त्वं ग्राह्यग्राहकसङ्गमे । अजस्रम् एव सङ्कल्पदशाḫ परिहरञ् शनैः
मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनाम् अखिलां त्यक्त्वा यच् छिष्टं तन्मयो भव
ग्राह्यग्राहकसम्बन्धसावधानो ह्य् अनारतम् । अकुर्वन् वापि कुर्वन् वा मुक्तिम् एवानुधावति
ग्राह्यग्राहकरूपात्मा ह्य् अज्ञो राम क्षणं प्रति । नवं नवम् उपायाति बन्धनं भावनावशात्
ग्राह्यग्राहकसम्बन्धे रसभावनया स्वया । निमेषं प्रति जीवस्य बन्धो गच्छति पीनताम्
ग्राह्यग्राहकसम्बन्धे विनैव रसभावनाम् । निमेषं प्रति जीवो ऽयम् आत्मताम् एति मोक्षभाक्
अजस्रं यं यम् एवार्थं पतत्य् अक्षगणो ऽनघ । बध्यते तत्र रागेण तत्रारागेण मुच्यते
किञ्चिच् चेद् रोचते तुभ्यं तद् बद्धो ऽसि भवस्थितौ । न किञ्चिद् रोचते ते चेत् तन् मुक्तो ऽसि भवस्थितेः
अस्मात् पदार्थनिचयात् सहस्थावरजङ्गमात् । तृणादेर् देवपर्यन्तान् मा किञ्चित् तव रोचताम्
रतिर् नित्यम् अनर्थार्थम् अरतिश् श्रेयसे नृणाम् । अन्तवत्त्वाद् रतिर् दुẖखैर् अनन्तैर् योजयेन् नरम्
अरतिस् सन् यद् अश्नासि यत् करोषि जहासि यत् । न कर्तासि न भोक्तासि तत्र मुक्तमतिश् शमी
नेह प्रजायते किञ्चिन् नेह किञ्चिद् विनश्यति । सर्वं शान्तं निरालम्बं चिद्व्योमामलम् आततम्
सन्तो ऽतीतं न शोचन्ति भविष्यच् चिन्तयन्ति नो । वर्तमानं च गृह्णन्ति क्रमप्राप्तं सदानघ
स्फुरन्ति जीवपुष्पाणि जातानि ब्रह्मपादपे । तज्जान्यतन्मयानीव फेना इव महार्णवे
अन्योऽन्यप्रतिबिम्बेन चिदर्णवतरङ्गकाः । एकात्मका अपि द्वित्वं यान्ति जीवा जगत्स्थितौ
दृढभावनया जीवो मनस्ताम् उपगच्छति । शीतातिशयतस् स्वच्छं पयḫ पाषाणताम् इव
मनसि ग्रथिताḫ पाशास् तृष्णामोहमदादयः । वागुरायाम् इव खगाḫ मेथ्याम् इव च तर्णकाः
मनसैव मनो राम च्छेदनीयं विजानता । विवेकतीक्ष्णेनातप्तम् अयसेव बलाद् अयः
अनन्यदविकारादिजनितं स्वस्वभावजम् । वैचित्र्यं शिखिपिञ्छस्य यथा भाति तथात्मनः