सम्यग्दर्शनम् एवास्या भावनाया विशाम्पते । विनाशं विद्ध्य् अनन्ताभं यामिन्या दिवसं यथा
प्रशान्तवासनो जीव एकतां याति चिद्घने । घृते घृतं जले तोयं क्षीरे क्षीरम् इवार्पितम्
अतदात्मा तदात्मा च जीवḫ प्रस्फुरतीश्वरे । ज्वालायां तु यथालोको यथा गन्धलवẖ क्षितौ
येनैकतां भावयति जीवस् तद् भवति क्षणात् । यच्चित्तस् तन्मयो जन्तुẖ केनैतन् नानुभूयते
ब्रह्मभावनया जीवो ब्रह्मताम् एति शाश्वतीम् । अमृतं भाव्यते येन सो ऽमृतीभवति स्वयम्
अब्रह्मभावनाज् जीवो दीनताम् एत्य नश्यति । विषभावनयैवाङ्ग विषीभवति मानवः
आत्मनस् संविदो ऽच्छस्य संवेद्यकलनामलम् । सम्प्रमार्ज्योदितस् संविदात्मा व्यवहरानघ
स्वेदोत्थदंशयौकान्तं भूतजातं सुराद्य् अपि । किं सर्वम् एव कर्मोत्थम् उत किञ्चिद् वदेति मे
चतुर्दशविधस्यास्य भूतजातस्य राघव । किञ्चित् सकारणं जातं प्राक्तनैर् आत्मकर्मभिः
किञ्चिन् निष्कारणं जातं कचनं सुमणेर् इव । स्वभावतो ऽधुना कर्म कारणात्तं भविष्यति
हार्दान्धकारमार्ताण्ड संशयाब्दानिलप्रभो । जगतां भूतजातस्य जातस्याथ भविष्यतः
किं कथं कारणायातं किं कथं चाप्य् अकारणम् । जातं वा जायते वापि कथं वापि जनिष्यते
दिक्कालाद्यनवच्छिन्नं व्योम्न्य् अव्योम्नि च संस्थितम् । चिद्व्योमानुभवप्राप्यम् आमोदḫ पवने यथा
ख इवार्को ऽम्बुदव्याप्तो वटबीज इवाङ्कुरः । वायौ स्पन्द इवालक्ष्यं व्योम्न्य् अव्योम्नि च चेतनम्
तत् क्वचिन् नित्यम् अचलं शान्तं समसमस्थिति । ब्रह्माण्डपाराम्बरवद् अनन्तम् अविकारि च
क्वचित् स्वभावजात् स्पन्दात् स्फुरत्य् अग्निर् इव त्विषा । भूततन्मात्रभावेन जगत्तां समुपेयुषा
क्वचित् प्राक्स्पन्दसम्पन्नभूततन्मात्ररञ्जनात् । भूतत्वं समुपादत्ते हेमाङ्गददशाम् इव
यथा सत्त्वम् उपेक्ष्य स्वं शनैर् विप्रो दुरीहया । अङ्गीकरोति शूद्रत्वं तथा जाड्यं चिदीश्वरः
भूतानि द्विविधान्य् एवं प्रतिसर्गं स्फुरन्ति हि । अद्यचित्स्पन्दजातानि चिरचित्स्पन्दजानि च
तत्र ये चित्स्वभावोत्थस्पन्दजास् ते हि जीवकाः । निष्कारणं समुत्पन्ना रुचयस् सन्मणेर् इव
सकारणत्वम् अधुना गन्तव्यं तैस् स्वकर्मभिः । दशासु बन्धमोक्षासु नाशे जन्मनि कर्मणि
ईश्वरात् समुपागत्य भुक्तजन्मान्तरास् तु ये । जाता जन्मनि तेषां हि प्राक्तनं कर्मकारणम्
अधुनैव हि सम्पन्ना ये जीवा ब्रह्मणḫ पदात् । ते ह्य् अकारणजन्मानो भविष्यज्जन्मकारणम्
कार्यकारणभावो ऽयम् ईदृशो जीवकर्मणोः । जीवो ऽकारणजḫ पुण्यो धन्यẖ कारणजस् स्मृतः
केचित् पुण्याḫ प्रजायन्ते केचिद् धन्याश् च जीवकाः । पुण्या धन्यत्वम् आयान्ति न धन्या यान्ति पुण्यताम्
धन्याḫ पुण्यत्वम् अगता एव केचिद् विमोक्षणाः । धन्यत्वान् मोक्षिणẖ केचिद् धन्यत्वाद् अपि नेतरे
वीरुत्तृणलतागुल्मयौककीटखगादयः । सुरासुरनराहीन्द्रपिशाचाशीविषादयः
केचिद् धन्याẖ केचित् पुण्याẖ केचिद् धास्यन्ति पुण्यताम् । पुण्यत्वान् मोक्षिणẖ केचिद् धन्यत्वाद् वा ततो ऽपि नो
यथा रत्नस्य कचनं स्पन्दनं पवनस्य च । यथौष्ण्यम् अनलादेश् च चिन्मात्रस्य तथा जगत्
असम्यग्दर्शनोत्पन्नं पुंस्त्वं स्थाणौ यथोदितम् । क्षीयते सम्यगालोकाद् द्वित्वम् एव तथात्मनि