स्वानुभूत्यात्मकाद् अस्मान् निर्दुẖखत्वाद् ऋते परः । शिरश्शृङ्गादि तज्ज्ञस्य चिह्नम् अन्यन् न विद्यते
महाकर्ता महाभोक्ता महात्यागी स यद्य् अपि । तज्ज्ञो भवति तद् राम ते ऽपि साधारणा गुणाः
प्रायो ऽज्ञस्यापि वै दृष्टं कामलोभादितानवम् । तपोदानं यशश् चैव नैतज् ज्ञत्वस्य लक्षणम्
नित्यम् एवोत्तमानन्दाद् अन्यत् स्वानुभवस्थितात् । क्षयातिशयनिर्मुक्ताच् चिह्नं तज्ज्ञस्य नास्ति वै
महाकर्तृत्वम् अथ वा चिह्नं तज्ज्ञस्य दृश्यते । तत् साधो साधु सामान्यम् उक्तं च बहुधा मया
एतावद् एव खलु लिङ्गम् अलिङ्गमूर्तेस् संशान्तसंसृतिचिरभ्रमनिर्वृतस्य । तज्ज्ञस्य यन् मदनकोपविषादमोहलोभापदाम् अनुदिनं निपुणं तनुत्वम्
भूयश् शृणु महाबाहो सङ्ग्रहेण वचो मम । यद् वच्मि तव बोधाय मयूरस्येव वारिदः
त्वद्बोधनम् उपादेयम् आत्मीयात् तपसो मम । अबुद्धपृच्छका राम के रघूणां हि दैशिकाः
जन्मान्तरशताभ्यस्तघनभ्रमणविह्वलः । शृणु जीवन् कथं मायापञ्जरात् प्रविमुच्यते
कृताहम्भावना संविज् जीवाद्यभिधयान्विता । अहम्भावो ऽत्र मिथ्यैव सत्यं संविद् उदाहृता
यन् मिथ्या तद् भ्रमायाल्पं कालं स्फुरति नो चिरम् । मोहात्मशुक्तिरुप्यादिमृगतृष्णाद्विचन्द्रवत्
यन् मिथ्या तत् क्षयं याति यत् सत्यं तन् न नश्यति । आबालम् एतज् जगति प्रसिद्धम् अशनादिवत्
नासतो विद्यते भावस् स्निग्धत्वं सिकतास्व् इव । सतश् च दृष्टो नाभावो भेकचूर्णाद् अणोर् अपि
यथा भेकरजो ऽलक्ष्यं याति प्रावृषि भेकताम् । यत्र यत्र स्थितो जीवस् तथोदेति न नश्यति
केवलं भावनामात्रं बुद्ध्यैवास्य प्रमार्जय । आत्मत्वायाङ्ग ताम्रस्य हेमत्वायेव कालताम्
जगद्भावास्थया मुक्तḫ प्रयाति परमात्मताम् । जीवो विमुक्तं कालिम्ना ताम्रं कनकताम् इव
सर्वेषाम् एव जीवानां भावना भवबन्धनी । वागुरेव विहङ्गानाम् एकावष्टम्भकारिणी
आत्मतत्त्वाद् ऋते नास्ति मदीयम् अहम् इत्य् अलम् । युक्तितो निश्चये रूढे नूनं गलति भावना
मांसास्थ्योघश् शवो देहẖ खं खम् अद्रिगणो जगत् । बुद्ध्यादयो विकल्पांशाẖ को ऽहं मम कथं च किम्
संविदो ऽनन्तशुद्धायाẖ किलाकलितचेतसः । इयत्तोपशमं याति भावनाप्रलये सति
सम्यग्दर्शनम् एवास्या भावनाया विशाम्पते । विनाशं विद्ध्य् अनन्ताभं यामिन्या दिवसं यथा
प्रशान्तवासनो जीव एकतां याति चिद्घने । घृते घृतं जले तोयं क्षीरे क्षीरम् इवार्पितम्
अतदात्मा तदात्मा च जीवḫ प्रस्फुरतीश्वरे । ज्वालायां तु यथालोको यथा गन्धलवẖ क्षितौ
येनैकतां भावयति जीवस् तद् भवति क्षणात् । यच्चित्तस् तन्मयो जन्तुẖ केनैतन् नानुभूयते
ब्रह्मभावनया जीवो ब्रह्मताम् एति शाश्वतीम् । अमृतं भाव्यते येन सो ऽमृतीभवति स्वयम्
अब्रह्मभावनाज् जीवो दीनताम् एत्य नश्यति । विषभावनयैवाङ्ग विषीभवति मानवः
आत्मनस् संविदो ऽच्छस्य संवेद्यकलनामलम् । सम्प्रमार्ज्योदितस् संविदात्मा व्यवहरानघ
स्वेदोत्थदंशयौकान्तं भूतजातं सुराद्य् अपि । किं सर्वम् एव कर्मोत्थम् उत किञ्चिद् वदेति मे
चतुर्दशविधस्यास्य भूतजातस्य राघव । किञ्चित् सकारणं जातं प्राक्तनैर् आत्मकर्मभिः
किञ्चिन् निष्कारणं जातं कचनं सुमणेर् इव । स्वभावतो ऽधुना कर्म कारणात्तं भविष्यति