ज्ञस्य कस्मिंश्चिद् एवाङ्ग भवत्य् अतिशये न धीः । नित्यतृप्तḫ प्रशान्तात्मा स आत्मन्य् एव तिष्ठति
अपूर्वो ऽतिशयẖ को वा साधोर् जगति विद्यते । सर्वे ह्य् अतिशया लोके शतशḫ पूर्वतां गताः
धूर्तैस् सिद्धैश् च तज्ज्ञैश् च तथान्यैर् मृगपक्षिभिः । कृतम् आकाशयानादि का तस्य स्याद् अपूर्वता
केवलं शान्तसंरम्भं प्रकृतव्यवहारवान् । तज्ज्ञस् सङ्क्षपयन् देहं स्वस्थ आत्मनि तिष्ठति
नोत्तमं न च सामान्यं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं ज्ञं विदन्ति जना इमे
लोकाचारगतस्यापि लोकवत् संस्थितस्य च । ब्रह्मन् विदितवेद्यस्य ब्रूहि चिह्नं मनाग् अपि
न किञ्चिद् अप्य् अपूर्वत्वं जनात् तस्याङ्ग लक्ष्यते । यच् च स्याद् अस्य वा चित्रं तद् अन्यत्रापि लक्ष्यते
तत्त्वज्ञस्येह हे राम न लोकालोकनक्षमम् । विद्यते लक्षणं साक्षाद् अणिमाद्य् अपदादि वा
व्यवहारी यथैवाज्ञस् तज्ज्ञो लोके तथैव हि । व्यवहारवशप्राप्ते सुखे दुẖखे च तिष्ठति
एक एव विशेषो ऽत्र स चादृश्यो जनस्थितौ । सति वासति वा देहे यद् अन्तẖक्षीणदुẖखता
स्वानुभूत्यात्मकाद् अस्मान् निर्दुẖखत्वाद् ऋते परः । शिरश्शृङ्गादि तज्ज्ञस्य चिह्नम् अन्यन् न विद्यते
महाकर्ता महाभोक्ता महात्यागी स यद्य् अपि । तज्ज्ञो भवति तद् राम ते ऽपि साधारणा गुणाः
प्रायो ऽज्ञस्यापि वै दृष्टं कामलोभादितानवम् । तपोदानं यशश् चैव नैतज् ज्ञत्वस्य लक्षणम्
नित्यम् एवोत्तमानन्दाद् अन्यत् स्वानुभवस्थितात् । क्षयातिशयनिर्मुक्ताच् चिह्नं तज्ज्ञस्य नास्ति वै
महाकर्तृत्वम् अथ वा चिह्नं तज्ज्ञस्य दृश्यते । तत् साधो साधु सामान्यम् उक्तं च बहुधा मया
एतावद् एव खलु लिङ्गम् अलिङ्गमूर्तेस् संशान्तसंसृतिचिरभ्रमनिर्वृतस्य । तज्ज्ञस्य यन् मदनकोपविषादमोहलोभापदाम् अनुदिनं निपुणं तनुत्वम्
भूयश् शृणु महाबाहो सङ्ग्रहेण वचो मम । यद् वच्मि तव बोधाय मयूरस्येव वारिदः
त्वद्बोधनम् उपादेयम् आत्मीयात् तपसो मम । अबुद्धपृच्छका राम के रघूणां हि दैशिकाः
जन्मान्तरशताभ्यस्तघनभ्रमणविह्वलः । शृणु जीवन् कथं मायापञ्जरात् प्रविमुच्यते
कृताहम्भावना संविज् जीवाद्यभिधयान्विता । अहम्भावो ऽत्र मिथ्यैव सत्यं संविद् उदाहृता
यन् मिथ्या तद् भ्रमायाल्पं कालं स्फुरति नो चिरम् । मोहात्मशुक्तिरुप्यादिमृगतृष्णाद्विचन्द्रवत्
यन् मिथ्या तत् क्षयं याति यत् सत्यं तन् न नश्यति । आबालम् एतज् जगति प्रसिद्धम् अशनादिवत्
नासतो विद्यते भावस् स्निग्धत्वं सिकतास्व् इव । सतश् च दृष्टो नाभावो भेकचूर्णाद् अणोर् अपि
यथा भेकरजो ऽलक्ष्यं याति प्रावृषि भेकताम् । यत्र यत्र स्थितो जीवस् तथोदेति न नश्यति
केवलं भावनामात्रं बुद्ध्यैवास्य प्रमार्जय । आत्मत्वायाङ्ग ताम्रस्य हेमत्वायेव कालताम्
जगद्भावास्थया मुक्तḫ प्रयाति परमात्मताम् । जीवो विमुक्तं कालिम्ना ताम्रं कनकताम् इव
सर्वेषाम् एव जीवानां भावना भवबन्धनी । वागुरेव विहङ्गानाम् एकावष्टम्भकारिणी
आत्मतत्त्वाद् ऋते नास्ति मदीयम् अहम् इत्य् अलम् । युक्तितो निश्चये रूढे नूनं गलति भावना
मांसास्थ्योघश् शवो देहẖ खं खम् अद्रिगणो जगत् । बुद्ध्यादयो विकल्पांशाẖ को ऽहं मम कथं च किम्
संविदो ऽनन्तशुद्धायाẖ किलाकलितचेतसः । इयत्तोपशमं याति भावनाप्रलये सति