विधूयानन्तनानात्वं यẖ किलैकतयोदितः । तम् अनाद्यन्तसंवित्तिं को वा तुलयितुं क्षमः
तनुं त्यजति तीर्थे वा श्वपचस्य गृहे ऽपि वा । मा कदाचन वा राजन् वर्तमाने ऽपि वा क्षणे
ज्ञानसम्प्राप्तिसमये मुक्तो ऽसौ विगतामयः । वीतशोकजरायासो यत् करोति करोतु तत्
अहम्भ्रान्तिर् हि बन्धाय मोक्षो जाते हि तत्क्षये । यथा भवति देहो ऽयं तथा भवतु का क्षतिः
यत् करोति यद् आदत्ते यत्रोपविशति क्षणम् । यत् पश्यति स्पृशति यत् तस्मै स्पृहयति प्रजा
स पूजनीयस् स स्तुत्यो नमस्कार्यस् स यत्नतः । स महात्माभिवाद्यश् च विभूत्यै विभवैषिणा
न यज्ञतीर्थैर् न तपḫप्रदानैर् आसाद्यते तत् परमं पवित्रम् । आसाद्यते क्षीणभवामयानां भक्त्या सताम् आत्मविदां यद् अङ्ग
एवम् उक्त्वा स भगवान् मनुस् तूष्णीम् अवस्थितः । इक्ष्वाकुना नृपेन्द्रेण मुदितेनाभिपूजितः
जगामाकाशम् आविश्य श्रीमान् पैतामहं गृहम् । एतां दृष्टिम् अवष्टभ्य रामात्मारामतां व्रज
एवं स्थिते हे भगवञ् जीवन्मुक्तस्य सन्मतेः । अपूर्वो ऽतिशयẖ को ऽसौ भवत्य् आत्मविदां वर
ज्ञस्य कस्मिंश्चिद् एवाङ्ग भवत्य् अतिशये न धीः । नित्यतृप्तḫ प्रशान्तात्मा स आत्मन्य् एव तिष्ठति
अपूर्वो ऽतिशयẖ को वा साधोर् जगति विद्यते । सर्वे ह्य् अतिशया लोके शतशḫ पूर्वतां गताः
धूर्तैस् सिद्धैश् च तज्ज्ञैश् च तथान्यैर् मृगपक्षिभिः । कृतम् आकाशयानादि का तस्य स्याद् अपूर्वता
केवलं शान्तसंरम्भं प्रकृतव्यवहारवान् । तज्ज्ञस् सङ्क्षपयन् देहं स्वस्थ आत्मनि तिष्ठति
नोत्तमं न च सामान्यं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं ज्ञं विदन्ति जना इमे
लोकाचारगतस्यापि लोकवत् संस्थितस्य च । ब्रह्मन् विदितवेद्यस्य ब्रूहि चिह्नं मनाग् अपि
न किञ्चिद् अप्य् अपूर्वत्वं जनात् तस्याङ्ग लक्ष्यते । यच् च स्याद् अस्य वा चित्रं तद् अन्यत्रापि लक्ष्यते
तत्त्वज्ञस्येह हे राम न लोकालोकनक्षमम् । विद्यते लक्षणं साक्षाद् अणिमाद्य् अपदादि वा
व्यवहारी यथैवाज्ञस् तज्ज्ञो लोके तथैव हि । व्यवहारवशप्राप्ते सुखे दुẖखे च तिष्ठति
एक एव विशेषो ऽत्र स चादृश्यो जनस्थितौ । सति वासति वा देहे यद् अन्तẖक्षीणदुẖखता
स्वानुभूत्यात्मकाद् अस्मान् निर्दुẖखत्वाद् ऋते परः । शिरश्शृङ्गादि तज्ज्ञस्य चिह्नम् अन्यन् न विद्यते
महाकर्ता महाभोक्ता महात्यागी स यद्य् अपि । तज्ज्ञो भवति तद् राम ते ऽपि साधारणा गुणाः
प्रायो ऽज्ञस्यापि वै दृष्टं कामलोभादितानवम् । तपोदानं यशश् चैव नैतज् ज्ञत्वस्य लक्षणम्
नित्यम् एवोत्तमानन्दाद् अन्यत् स्वानुभवस्थितात् । क्षयातिशयनिर्मुक्ताच् चिह्नं तज्ज्ञस्य नास्ति वै
महाकर्तृत्वम् अथ वा चिह्नं तज्ज्ञस्य दृश्यते । तत् साधो साधु सामान्यम् उक्तं च बहुधा मया
एतावद् एव खलु लिङ्गम् अलिङ्गमूर्तेस् संशान्तसंसृतिचिरभ्रमनिर्वृतस्य । तज्ज्ञस्य यन् मदनकोपविषादमोहलोभापदाम् अनुदिनं निपुणं तनुत्वम्
भूयश् शृणु महाबाहो सङ्ग्रहेण वचो मम । यद् वच्मि तव बोधाय मयूरस्येव वारिदः
त्वद्बोधनम् उपादेयम् आत्मीयात् तपसो मम । अबुद्धपृच्छका राम के रघूणां हि दैशिकाः
जन्मान्तरशताभ्यस्तघनभ्रमणविह्वलः । शृणु जीवन् कथं मायापञ्जरात् प्रविमुच्यते
कृताहम्भावना संविज् जीवाद्यभिधयान्विता । अहम्भावो ऽत्र मिथ्यैव सत्यं संविद् उदाहृता