चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योस् स्वचेतसः । यो भवेत् परमानन्दẖ केनासाव् उपमीयते
सीमान्तस् सर्वदुẖखानां मृत्युर् एव जगत्त्रये । तं जित्वा यḫ परानन्दस् स वक्तुं केन पार्यते
सर्वासाम् एव दृष्टीनां सर्वासाम् एव सम्पदाम् । परिज्ञाय स्वम् आत्मानम् उपरि स्थीयते चिरम्
अप्य् अनन्ता महान्तो ऽपि वज्रभेदकरा अपि । शुद्धं खम् इव बाधन्ते तज्ज्ञं दोषा न केचन
जरामरणजन्माद्यास् समस्ता दोषदृष्टयः । आत्मज्ञानैकपर्यन्ता यथाब्ध्यन्तास् सरिद्रयाः
तावत् प्रकृतिर् आलोला यतते दुẖखसङ्क्षये । यावत् पश्यति नात्मानं तम् आलोक्योपशाम्यति
यथा पुष्पं समासाद्य नश्यन्ति शरवेणवः । तथात्मत्वं समासाद्य मनोबुद्धीन्द्रियादयः
सर्वम् आदौ जगच् छून्यं शून्यम् अन्ते च भूपते । अतश् शून्यात्मकं ह्य् एतद् विद्धि मध्ये ऽपि शून्यकम्
नान्तश् शूनं च शून्यं च नाचिद्रूपं न चिन्मयम् । नात्मरूपं नान्यरूपं भुवनं भावयन् भव
एतत् स्वरूपम् आसाद्य प्रकृतिḫ परिशाम्यति । स्वभावाच् चलितं वस्तु क्षोभं कृत्वा क्व तिष्ठतु
अज्ञानग्रन्थिनिर्भेदो मोक्ष इत्य् उच्यते ऽनघ । न देशो मोक्षनामास्ति न कालो नेतरा स्थितिः
अहङ्कृतेर् विमोहस्य क्षयेणेयं विलीयते । प्रकृतिर् भावनानाम्नी मोक्षस् स्याद् एष एव सः
एष एव शनैर् देहं गालयित्वोपशाम्यति । विवेको विषये वाचां भवत्य् अभवनिं गतः
यथाभूतम् इदं ज्ञात्वा जागतं वस्तुविभ्रमम् । भावयित्वा यथाज्ञानं ज्ञस् तिष्ठति यथासुखम्
प्रशान्तशास्त्रार्थविचारचापलो निवृत्तनानारसकाव्यकौतुकः । निरस्तनिश्शेषविकल्पविप्लवस् समस् सुखं तिष्ठसि शाश्वतात्मकः
आत्मारामो वीतशोको नित्यम् अन्तर्मुखस् सुखी । कुर्वन्न् अपि च कर्माणि तिष्ठत्य् अपगतभ्रमम्
अन्तश्शीतलया नित्यम् अनाकुलतया तथा । सोम्यरूपतया पूर्णश् शशाङ्क इव शोभते
समश् शान्तमना मौनी क्षीणवादविचारणः । कचत्य् आत्मनि चित्तत्त्वे दग्धेन्धन इवानलः
येन केनचिद् आच्छन्नो येन केनचिद् आशितः । यत्र क्वचन शायी च सम्राड् इव विराजते
वर्णधर्माश्रमाचारशास्त्रमन्त्रामयोज्झितः । निर्गच्छति जगज्जालात् पञ्जराद् इव केसरी
वाचाम् अतीतविषयां विषयाशादशोज्झिताम् । काम् अप्य् उपगतश् शोभां शरदीव नभस्तलम्
गम्भीरश् च प्रसन्नश् च गिराव् इव महाह्रदः । परानन्दरसक्षीवो रमते स्वात्मनात्मनि
यथाभिमतविस्तारो यथाभिमतकर्मकृत् । परमां निर्वृतिं याति मुक्तशास्त्रार्थयन्त्रणः
सर्वकर्मफलत्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेतरेणापि लिप्यते
स्फटिकḫ प्रतिबिम्बेन यथा नायाति रञ्जनाम् । तज्ज्ञẖ कर्मफलेनान्तस् तथा नायाति रञ्जनाम्
हसन् रुदन्न् अपि भृशं देहपूजाविकर्तनैः । दाहाह्लादौ न जानाति प्रतिबिम्बगताव् इव
निस्स्तोत्रो निर्वषट्कारḫ पूज्यपूजाविवर्जितः । संयुक्तश् च वियुक्तश् च सर्वाचारनयक्रमैः
तस्मान् नोद्विजते लोको लोकान् नोद्विजते च सः । हर्षामर्षभयक्रोधैर् मुक्तो युक्तश् च दृश्यते
रागद्वेषोदयारम्भैस् त्यज्यते ऽपि च युज्यते । ईहानीहाविलासेन नाप्यते ऽथ च भुज्यते
प्रमेये कस्यचिद् अपि नारोहति महाशयः । प्रमेयीक्रियते वापि बालेनाप्य् अदुराशयः