मा सागरे शिलेव त्वम् अधोऽधो गच्छ मोहितः । क्षीरार्णवेन्दुवद् बोधाद् ऊर्ध्वाद् ऊर्ध्वतरं व्रज
जलफेनवद् उत्पन्नध्वंसिताम् अनुभावयन् । वीरुत्तृणलतागुल्मगणनां मा प्रपूरय
चित्तेजो यश् चिदादित्यḫ प्रसारयति सर्वतः । तेन प्रकटितं सार्कचन्द्रतारं जगद्गृहम्
तत्प्रकाशं स्वम् आत्मानम् अवलम्ब्याविलम्बितम् । आस्स्व सम्पूरिताकाशं देहादिं नृप पश्य हे
यथा तिष्ठन् स्वभावेन स्फटिकẖ किरति प्रभाः । तथा जगन्ति किरति चिद्दीप्त्या चिद्दिवाकरः
यद् आत्मनैव विमलं चित्त्वेन स्फुरणं चितः । तद् इदं जगदाभोगि सम्पन्नं स्फारसंविदः
यदा ब्रह्म परं ब्रह्म तत्रैव ब्रह्म बृंहितम् । न तत्र सम्भवन्त्य् एता भूताभूतादिकल्पनाः
सर्वशक्तितया ब्रह्म चेतस्त्वाद् अतियातया । सत्त्वशक्त्या स्थितं यत्र जीवन्मुक्तं हि तत्र तत्
यत्र ब्रह्मानन्तशक्तिचित्तशक्त्या विजृम्भते । विविक्तया तत्र नरसुरनागादितां गतम्
भ्रान्तया मूढया यत्र चित्तशक्त्या लये स्थितम् । तत्र तिर्यक्पिशाचादिभूततां समुपागतम्
अत्यन्तमूढया यत्र सुषुप्तसमया स्थितम् । चित्तशक्त्या गतं तत्र तरुगुल्मतृणादिताम्
क्षीणदेहसहस्रस्य चिरमूढस्य चेतसः । शिलाद्य् अवयवं विद्धि कस्यचित् पर्वतस्य वा
यथामोदेन कुसुमं माधुर्येण गुडो यथा । व्याप्तं सपर्वताकाशं चित्तत्त्वेन जगत् तथा
किञ्चित् क्षुब्धं पयẖ किञ्चित् सोम्यरूपं यथाम्बुधेः । किञ्चिद् अस्पन्दि किञ्चिच् च स्पन्दिरूपं तथा चितः
यदैवैवं चितो रूपं ततं बुद्धम् अखण्डितम् । तदैव तीर्णस् संसारḫ परमेश्वरतां गतैः
ब्रह्मेन्द्रविष्णुवरुणा यद् यत् कर्तुं समुद्यताः । तद् अहं चिद्वपुस् सर्वं करोमीत्य् एव भावयेत्
येषु येषु यथा यद् यद् दर्शनेषु निगद्यते । सर्वम् एवाङ्ग तत् सत्यं सर्वम् एव हि सर्वगम्
यं यं देशं विदेशं वा कालं वा कलनां च वा । वेत्सि ब्रह्मैव तत् सर्वं यथेच्छसि तथा कुरु
यद् यद् विभाव्यते रूपं तत्ताम् एति चिदीश्वरः । तां ताम् इच्छां पूरयितुं चिन्तामणिवद् आततः
यद् यद् विभाव्यते किञ्चित् तत् तत् तेन विवस्वता । क्रियते भूष्यते सम्यग् योज्यते चानुभूयते
चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योस् स्वचेतसः । यो भवेत् परमानन्दẖ केनासाव् उपमीयते
सीमान्तस् सर्वदुẖखानां मृत्युर् एव जगत्त्रये । तं जित्वा यḫ परानन्दस् स वक्तुं केन पार्यते
सर्वासाम् एव दृष्टीनां सर्वासाम् एव सम्पदाम् । परिज्ञाय स्वम् आत्मानम् उपरि स्थीयते चिरम्
अप्य् अनन्ता महान्तो ऽपि वज्रभेदकरा अपि । शुद्धं खम् इव बाधन्ते तज्ज्ञं दोषा न केचन
जरामरणजन्माद्यास् समस्ता दोषदृष्टयः । आत्मज्ञानैकपर्यन्ता यथाब्ध्यन्तास् सरिद्रयाः
तावत् प्रकृतिर् आलोला यतते दुẖखसङ्क्षये । यावत् पश्यति नात्मानं तम् आलोक्योपशाम्यति
यथा पुष्पं समासाद्य नश्यन्ति शरवेणवः । तथात्मत्वं समासाद्य मनोबुद्धीन्द्रियादयः
सर्वम् आदौ जगच् छून्यं शून्यम् अन्ते च भूपते । अतश् शून्यात्मकं ह्य् एतद् विद्धि मध्ये ऽपि शून्यकम्
नान्तश् शूनं च शून्यं च नाचिद्रूपं न चिन्मयम् । नात्मरूपं नान्यरूपं भुवनं भावयन् भव
एतत् स्वरूपम् आसाद्य प्रकृतिḫ परिशाम्यति । स्वभावाच् चलितं वस्तु क्षोभं कृत्वा क्व तिष्ठतु