क्रियमाणा कृता कर्मतूलश्रीर् देहशल्मलेः । ज्ञानानिलसमुद्धूता विलयं क्वापि गच्छति
आत्मज्ञतां प्रयातस्य तीर्णस्य भवसागरात् । इच्छतो ऽपि समायाति पुनर् नाज्ञत्वम् आत्मनः
यथा दूरगतोत्पत्तिस्थानं रयवती सरित् । न यात्य् एवं मतिर् बुद्धा पुनर् मोहं न गच्छति
सर्वैव हि कला जन्तोर् अनभ्यासेन नश्यति । फलदापि मनोज्ञापि लतेवासेकवर्जिता
एषा ज्ञानकला त्व् अन्तस् सकृज्जाता दिने दिने । वृद्धिम् एति बलाद् एव सताम् अप्य् उप्तशालिवत्
यथा दध्युद्धृतं नैति पुनर् दध्नैकतां घृतम् । तथा ज्ञानोद्धृता ज्ञप्तिर् नायात्य् अज्ञानतां पुनः
यथा परभटव्यूहं विभिद्योदेति सद्भटः । तथाज्ञानं विदार्यान्ध्यम् उदेति ज्ञानभास्करः
चिद्घनं निर्मलं ब्रह्म शान्तं सर्वम् इदं ततम् । अद्वैतं द्वैतवद् भाति नित्यम् एकम् अनामयम्
एकस् स्फुरत्य् अखिलवस्तुषु चित्स्वरूप आत्मा परस् स्वजलधिष्व् इव तोयम् अच्छम् । संशान्तसङ्कलनभूरिकलापम् एकं सत्तांशमात्रम् अखिलं जगद् अङ्ग विद्धि
परस्मात् कारणाद् एको जीवḫ प्रथमम् उत्थितः । तस्माज् जीवकणा जाताẖ कणास् तप्तायसो यथा
ते देवनागगन्धर्वविद्याधरशताभिधाः । स्फुरन्त्य् आत्मामृताम्भोदनिर्मलामृतबिन्दवः
स्वैरसङ्कल्पजालेन वलिता बन्धम् आगताः । स्वलालयेव तन्तुत्वं गतया कोशकारकाः
स्वसङ्कल्पेन भूतानि बद्धानीति परस्परम् । स्वतुषेणेव धान्यानि दुẖखान्य् अनुभवन्त्य् अतः
स स्वसङ्कल्पनतुषो दह्यते ज्ञानवह्निना । यदा तदा भवन्त्य् अच्छा नवा मुक्ताकणा इव
भूयो जगति जायन्ते न कदाचन केचन । ते ततात्मपदारूढा मूढत्वाद् उद्धृताशयाः
जगद्वृत्ताव् अवयवैर् मिथẖ कारणतां गतम् । अकारणं जगद् विद्धि नाशोत्पत्त्योस् स्वभावतः
यथाम्बुकुम्भेषु नभो नार्पितं नाप्य् अनर्पितम् । तथात्मा सर्वदेहेषु न स्थितो नापि चास्थितः
सति कुम्भे सति च खे कुम्भाकाशाभिधा यथा । सत्य् आत्मनि च देहे च देहसंवेदनं तथा
चेतनाचेतनकला नृप सन्ति न काश्चन । काचिद् आत्माभिधा सत्ता देहे स्फुरति केवलम्
यथा दृङ् निर्मले व्योम्नि चिरन्यस्तोल्लसत्य् अलम् । तथा स्फुरति देहाभा सत्तात्मन्य् आत्मनामिका
पूर्वं जीवास् स्वसङ्कल्पैर् ये जगत्सुस्थितिं गताः । तत्सङ्गाद् अद्य जीवत्वं यान्त्य् अन्या ब्रह्मशक्तयः
यथा तस्करसंसर्गाद् बध्यते ऽतस्करो ऽपि हि । तथा प्राग्जीवसंसर्गात् प्रयात्य् आत्मकला मितिम्
यावत् स्वता स्वदेहादौ तावत् संसृतिबीजता । यावद् विषयभोगाशा जीवाख्या तावद् आत्मनः
विवेकवशतो ज्ञत्वाज् जाते द्वैतैक्ययोẖ क्षये । आत्मा जीवत्वम् उत्सृज्य ब्रह्मताम् एत्य् अनामयः
जराजन्ममृतिभ्रान्तिचक्रे भ्रमति मोहिता । वासनातन्तुबद्धेयं जनतातापभागिनी
न कस्यचिद् अहं नैव कश्चिद् एवाहम् ईदृशः । नैव कश्चिन् ममेत्य् अन्तर्निश्चयात् त्यज संसृतिम्
सर्वं ममाहं सर्वस्य चैवेति दृढनिश्चयात् । त्यज संसृतिसंरम्भं स्वस्थो भव भवातिगः
ऊर्ध्वाद् अधस् त्व् अधस्ताच् च पुनर् ऊर्ध्वं व्रजंश् चिरम् । मा संसारारघट्टस्य चिन्तारज्ज्वां घटो भव
इदं ममाहम् अस्येति व्यवहारघनभ्रमम् । ये मोहात् सन्निषेवन्ते ते ऽधस्ताद् यान्त्य् अधश् शठाः
अस्याहम् एष मे सो ऽयम् अहम् एवम्मयात्मनि । मोहे बुद्ध्या परित्यक्ते ऊर्ध्वाद् ऊर्ध्वं प्रयास्य् अजः