देहादयो जडास् सर्वे तस्माद् अङ्ग न किञ्चन । न कश्चिद् एव कुरुते सुकृतेष्व् अपि कर्मसु
कर्म कुर्वत्य् अपि प्राज्ञे तयासंसक्तया धिया । न कश्चित् कुरुते किञ्चिद् देहस् स्फुरति केवलम्
तूष्णीम् अपि स्थितो मूढश् चिन्तासंसक्तया धिया । करोति कर्म शैलाभं यद् युगैर् अपि न क्षयि
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा तस्यानन्तेह कर्तृता
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽनघ । कर्मेन्द्रियैẖ कर्मयोगम् अकर्तैव स मोक्षभाक्
निर्वासनं कृतं कर्म न कर्तारं स्पृशत्य् अजम् । पद्मपत्त्रं जलम् इव नभस्तलम् इवाम्बुदः
फलानि नानुधावन्ति यदा कर्माण्य् अवासनम् । तदा जीवं न स्पृशति कर्म जन्मैककारणम्
कर्मणो जन्मबीजस्य रसस् सर्वत्र वासना । सा यद्भवा च तस्यैव गर्भे पश्यति देहकम्
जायते तत एवाशु क्रमाद् भ्रमति संसृतौ । तस्माद् वासनयैवान्तर् वियोगस् ते ऽस्तु भूतये
भावनास् सर्वभावेभ्यस् समुत्सृज्य समुच्छ्रितः । शशाङ्कशीतलḫ पूर्णो भासि भासेव भास्करः
क्रियमाणा कृता कर्मतूलश्रीर् देहशल्मलेः । ज्ञानानिलसमुद्धूता विलयं क्वापि गच्छति
आत्मज्ञतां प्रयातस्य तीर्णस्य भवसागरात् । इच्छतो ऽपि समायाति पुनर् नाज्ञत्वम् आत्मनः
यथा दूरगतोत्पत्तिस्थानं रयवती सरित् । न यात्य् एवं मतिर् बुद्धा पुनर् मोहं न गच्छति
सर्वैव हि कला जन्तोर् अनभ्यासेन नश्यति । फलदापि मनोज्ञापि लतेवासेकवर्जिता
एषा ज्ञानकला त्व् अन्तस् सकृज्जाता दिने दिने । वृद्धिम् एति बलाद् एव सताम् अप्य् उप्तशालिवत्
यथा दध्युद्धृतं नैति पुनर् दध्नैकतां घृतम् । तथा ज्ञानोद्धृता ज्ञप्तिर् नायात्य् अज्ञानतां पुनः
यथा परभटव्यूहं विभिद्योदेति सद्भटः । तथाज्ञानं विदार्यान्ध्यम् उदेति ज्ञानभास्करः
चिद्घनं निर्मलं ब्रह्म शान्तं सर्वम् इदं ततम् । अद्वैतं द्वैतवद् भाति नित्यम् एकम् अनामयम्
एकस् स्फुरत्य् अखिलवस्तुषु चित्स्वरूप आत्मा परस् स्वजलधिष्व् इव तोयम् अच्छम् । संशान्तसङ्कलनभूरिकलापम् एकं सत्तांशमात्रम् अखिलं जगद् अङ्ग विद्धि
परस्मात् कारणाद् एको जीवḫ प्रथमम् उत्थितः । तस्माज् जीवकणा जाताẖ कणास् तप्तायसो यथा
ते देवनागगन्धर्वविद्याधरशताभिधाः । स्फुरन्त्य् आत्मामृताम्भोदनिर्मलामृतबिन्दवः
स्वैरसङ्कल्पजालेन वलिता बन्धम् आगताः । स्वलालयेव तन्तुत्वं गतया कोशकारकाः
स्वसङ्कल्पेन भूतानि बद्धानीति परस्परम् । स्वतुषेणेव धान्यानि दुẖखान्य् अनुभवन्त्य् अतः
स स्वसङ्कल्पनतुषो दह्यते ज्ञानवह्निना । यदा तदा भवन्त्य् अच्छा नवा मुक्ताकणा इव
भूयो जगति जायन्ते न कदाचन केचन । ते ततात्मपदारूढा मूढत्वाद् उद्धृताशयाः
जगद्वृत्ताव् अवयवैर् मिथẖ कारणतां गतम् । अकारणं जगद् विद्धि नाशोत्पत्त्योस् स्वभावतः
यथाम्बुकुम्भेषु नभो नार्पितं नाप्य् अनर्पितम् । तथात्मा सर्वदेहेषु न स्थितो नापि चास्थितः
सति कुम्भे सति च खे कुम्भाकाशाभिधा यथा । सत्य् आत्मनि च देहे च देहसंवेदनं तथा
चेतनाचेतनकला नृप सन्ति न काश्चन । काचिद् आत्माभिधा सत्ता देहे स्फुरति केवलम्
यथा दृङ् निर्मले व्योम्नि चिरन्यस्तोल्लसत्य् अलम् । तथा स्फुरति देहाभा सत्तात्मन्य् आत्मनामिका