अहम् अन्तादिरहितश् शुद्धो बुद्धो ऽजरामरः । शान्तस् समसमाभास इति मत्वा न शोचति
जगत्सर्वपदार्थानां चिद्दीपो ऽहं प्रकाशनम् । के ते मे जन्ममरणे इति मत्वा न शोचति
तृणे ऽग्नाव् अम्बरे भानौ नरनागामरेषु च । यच् चिद् अस्मि तद् एवेति मत्वा क इव शोचति
तिर्यग् ऊर्ध्वम् अधस्तान् मे व्यापको महिमा चितः । अस्यानन्तविलासस्य ज्ञात्वेति क इव क्षयी
उपशान्तमहातापां परां निष्ठाम् अहं गतः । अथ को ऽयम् अहं नाम मिथ्यैव प्रत्ययोदितः
अजेनात्मा किल ज्ञातो यद् अहं बुद्ध ईश्वरः । आत्मनात्मनि विश्रान्तं जलेनेव जलार्णवे
ब्रह्म ब्रह्मैव सम्पन्नम् अक्षोभं समतां गतम् । जलम् ऊर्मिवपुस् त्यक्त्वा स्वं सोम्यत्वम् इवागतम्
निरहङ्काररूपो ऽस्मि गलितो ऽस्म्य् अस्मि शाश्वतः । अन्तश्शीतो ऽस्मि शाम्यामि मृगतृष्णेव प्रावृषि
निर्वृतो ऽस्मि चिरायैव जातो ऽस्म्य् अजवपुर् महान् । इति जानन् भृशं जीवो बद्धो ऽपि न निबध्यते
न मे बन्धो न मे मोक्षो नाहम् अस्मि न चेतरत् । यथाभूतार्थदर्शित्वाद् इति पश्यन् न शोचति
कुर्वतो ऽपि न बन्धाय कर्म तत्त्वविदो भवेत् । भुञ्जानो ऽपि विषं तज्ज्ञो न विनश्यति कर्हिचित्
प्राक्शरीरकृतं कर्म मूलकाषेण दह्यते । वर्तमानावबोधेन शुष्कं तृणम् इवाग्निना
बद्धवासनम् अर्थो यस् सेव्यते सुखयत्य् असौ । ददाति च फलानीति स्वयम् एवानुभूयते
यत् सुखाय तद् एवाशु वस्तु दुẖखाय नाशतः । अविनाभाविनिष्ठत्वं प्रसिद्धं सुखदुẖखयोः
तनुवासनम् अर्थो यस् सेव्यते वा विवासनम् । नासौ सुखाय नैवातो नाशात् कालेन दुẖखदः
निर्वासनतया स्पन्दं कुर्वतो ऽसुप्तबालवत् । कर्मणो योगिनस् तेन ते न कर्मफलान्विताः
क्षीणवासनया बुद्ध्या कर्म यत् क्रियते ऽनघ । तद् भृष्टबीजवद् भूयो नाङ्कुरं प्रविमुञ्चति
देहेन्द्रियादिना कर्म करणौघेन कल्प्यते । एकẖ कर्तात्र भोक्ता वा क इवाङ्गोपपद्यते
अन्यḫ पश्यति भुङ्क्ते ऽन्यḫ परो ऽप्य् अनुभवत्य् अणुः । अन्यस्य सुखदुẖखादि कस्यैकस्यात्र कर्तृता
आत्मा कर्ताप्य् अकर्तायम् औदासीन्येन संस्थितः । प्रतिबिम्बेष्व् इवादर्शो मनष्षष्ठेन्द्रियातिगः
देहादयो जडास् सर्वे तस्माद् अङ्ग न किञ्चन । न कश्चिद् एव कुरुते सुकृतेष्व् अपि कर्मसु
कर्म कुर्वत्य् अपि प्राज्ञे तयासंसक्तया धिया । न कश्चित् कुरुते किञ्चिद् देहस् स्फुरति केवलम्
तूष्णीम् अपि स्थितो मूढश् चिन्तासंसक्तया धिया । करोति कर्म शैलाभं यद् युगैर् अपि न क्षयि
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा तस्यानन्तेह कर्तृता
यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽनघ । कर्मेन्द्रियैẖ कर्मयोगम् अकर्तैव स मोक्षभाक्
निर्वासनं कृतं कर्म न कर्तारं स्पृशत्य् अजम् । पद्मपत्त्रं जलम् इव नभस्तलम् इवाम्बुदः
फलानि नानुधावन्ति यदा कर्माण्य् अवासनम् । तदा जीवं न स्पृशति कर्म जन्मैककारणम्
कर्मणो जन्मबीजस्य रसस् सर्वत्र वासना । सा यद्भवा च तस्यैव गर्भे पश्यति देहकम्
जायते तत एवाशु क्रमाद् भ्रमति संसृतौ । तस्माद् वासनयैवान्तर् वियोगस् ते ऽस्तु भूतये
भावनास् सर्वभावेभ्यस् समुत्सृज्य समुच्छ्रितः । शशाङ्कशीतलḫ पूर्णो भासि भासेव भास्करः