स्वस्थḫ प्रत्याहृतिवशाच् चेत्यं चेन् न चिनोषि तत् । मुक्त एवास्य् असन्देहं महासमतयानया
यद् भोगसुखदुẖखांशैर् अनात्मीकृतपूर्णधीः । आत्मारामो मुनिस् तिष्ठेत् तन् मुक्तत्वम् उदाहृतम्
व्यवहार्य् उपशान्तो वा गृहस्थो वाथ भिक्षुकः । सशरीरो ऽशरीरो वा भवत्व् एवम्मतिḫ पुमान्
सुखदुẖखैर् अनालीढा संविद् भवति चेत् समा । असंविद् इव तद् देहो यत् करोति करोतु तत्
मृगतृष्णोपमे देहे ऽविद्यात्मनि तते क्षते । भावाभावभ्रमे ऽसत्ये सुखदुẖखक्रमẖ कुतः
चिन्मात्रम् अपनामेदम् अचिदाभम् अनन्तकम् । अतश् चासम्भवद्वेद्यम् आत्मानम् अमलं श्रयेत्
जाग्रतो जीवतश् चेत्यचयनाद् अस्खलच्चितेः । स्थितिर् योपलकोशाभा सा तुर्यं सा विमुक्तता
चिन्मूर्तिस् स्वान्तर् एवेदं स्वसत्तात्मोपकल्पितम् । जगन् मिथ्यानुभवति स्वप्ने छिन्नशिरा इव
यन् मिथ्या तत् क्व सत्यात्म क्व सत्या मरुवारिता । अतो ऽसंवेदनाद् एव भ्रमस्यास्य परिक्षयः
अहम् इत्य् एव चयनाज् जगत्संसृतिविभ्रमः । अस्यैवाचयनान् नाहं न जगन् न च विभ्रमः
द्रवं स्वम् इव शुद्धाम्बु स्वान्तर्लेखा इवोपलः । स्वम् इक्षुर् इव माधुर्यं चित् स्वं चेतयते जगत्
यथौष्ण्यम् अग्निस् तुहिनं च शैत्यं स्पन्दं नभस्वान् द्रवम् अब्धिर् एवम् । अनन्यद् अप्य् अन्यद् इवात्मतत्त्वं विद् वेत्त्य् अदस् तत् तु न वेत्त्य् अतज्ज्ञः
आत्मनैवात्मनो लेपẖ क इव स्यात् कथं किल । अतो निर्लेप एवात्मा द्वितीयस्यात्यसम्भवात्
वासनादिविकल्पो ऽस्ति व्यतिरिक्तश् च नात्मनः । आत्मैव वासनाशक्तिर् जलम् एव यथोर्मयः
आत्मा देहेन्द्रियतया स्फुरद्भावविकारिताम् । धत्ते ऽभावविकारो ऽपि तरङ्गत्वं यथा पयः
अविकारो ऽपि सङ्कल्प्य विकारकलनां मुधा । विकारीव भवत्य् उच्चैḫ पश्यत्य् उच्चैर् विजृम्भितम्
आत्मनो दृश्यते राजन् यद् विकारो ऽविकारिणः । सत्यं सत्यम् असत्यं तत् स्वयम् एतद् विचारय
कटकादि यथा हेम्नो विवर्तादि तथात्मनः । न विकारो ऽविकारस्य सम्भवत्य् अविनाशतः
न विकारो यथोर्मित्वं वार एवं जगच् चितः । असत्यालोकनाद् भ्रान्तिर् दृष्टेर् एव न वस्तुनः
यथाङ्गदत्वाद् दण्डत्वं गते हेम्नि न शोच्यते । मृतम् अङ्गदहेमेति न विकाराद्य् अपीति च
तथाम्बरत्वात् कुड्यत्वे स्थिते चिद्व्योम्नि शोचनम् । न युक्तं व्योमसंविद् वै मृता सत्य् एव धीमतः
देहसंवित् खसंवित्त्वं खसंविद् देहसंविदम् । यदि गच्छति तद् धर्षविषादानां क आगमः
प्रत्यक्चेतनम् आभासस् संविद् अस्तीति निश्चये । भावानां सविकाराणां भ्रान्तिजानाम् अभावनात्
बलेन स्वचमत्कृत्या नूनं नीते चिरोदयम् । निर्वासनत्वे हृदये कुतो जीवस्य संसृतिः
स्वसंविन्मात्रवैचित्र्यं साध्ये संसृतिसङ्क्षये । जन्तूनां चित्रम् अत्यन्तं यत् संरम्भ उपस्थितः
संविन्मात्रोपशमनं जीवो यẖ कुरुते बलात् । जडत्वम् अव्रजन् स्वच्छस् स तीर्णो भवसागरम्
संविच्चापलजेयं वस् संसृतिर् भवबन्धनी । शमं तत्प्रशमाद् एति तस्मात् तत्प्रशमं कुरु
यैव संविच् छमं याति सैव बुद्धिर् विलीयते । यैव प्रालेयकणिका सैव तापे विलीयते
न म्रिये न च जीवामि नाहं सन् नाप्य् असन् न खम् । अहं नकिञ्चिच् चिद् इति मत्वा जीवो न शोचति
अलेपको ऽहम् अजरो नीरागश् शान्तवासनः । निर्मलो ऽस्मि चिदाकाशम् इति मत्वा न शोचति