न स्वप्नस्वप्नपुरयोर् इव भेदो मनाग् अपि । सर्गवेदनयोस् तस्माद् ब्रह्मविद् ब्रह्मवेदनम्
शब्दार्थभावनेहानां वित्त्वात् सत्यावबोधतः । यद् असत्तावबोधो ऽन्तस् तद् अवेदनम् उच्यते
अदृषद् दृषदाभासं ज्ञम् अप्य् अज्ञम् इव स्थितम् । अशून्यं शून्यसङ्काशं हृदयं वेदनं सतः
शास्त्रसज्जनसम्पर्कैḫ प्रज्ञाम् आदौ विवर्धयेत् । प्रथमा भूमिकैषोक्ता योगस्य नवयोगिनः
विचारणा द्वितीया स्यात् तृतीयासङ्गभावना । चतुर्थी सत्त्वतापत्तौ वासनाविलयात्मिका
शुद्धसंविन्मयानन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तो ऽत्र तिष्ठति
असंवेदनरूपा च षष्ठी भवति भूमिका । आनन्दैकघनाकारा सुषुप्तसदृशस्थितिः
तुर्यावस्थोपशान्ताथ मुक्तिर् एव हि केवलम् । समता स्वच्छता सोम्या सप्तमी भूमिका भवेत्
तुर्यातीताथ यावस्था परिनिर्वाणरूपिणी । सप्तमी सा परिप्रौढा विषयस् सा न जीवताम्
पूर्वावस्थात्रयं तत्र जाग्रद् इत्य् एव संस्थितम् । चतुर्थी स्वप्न इत्य् उक्ता स्वप्नाभं यत्र वै जगत्
आनन्दैकघनीभावात् सुषुप्ताख्या तु पञ्चमी । असंवेदनरूपा च षष्ठी तुर्याभिधा स्मृता
तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा । परम् अव्यपदेश्यासाव् अगम्या महताम् अपि
पदार्थस् सन्निवेशैस् स्वैर् यथानन्यैस् समन्वितः । तथा चित् सर्गशब्दार्थैर् न तु सर्गार्थरूपिभिः
यथोर्मिकादिẖ कनके तथा सर्गḫ परे पदे । किं त्व् असौ विद्यमानो ऽपि सञ्ज्ञाशब्दार्थवर्जितः
हाटके कटकादिश् च सर्गश् च परमे पदे । विद्यमानो ऽपि नास्त्य् एव प्रेक्षायां कल्पनार्थवत्
अस्पन्दयावेदनया स्पन्दवेदनसत्तया । या संविद् अङ्कुरश्रीस् स्यात् सात्मसत्तेति कथ्यते
सा त्वं सा चिन् मनस् सा च न त्वं नो चिन् मनश् च नो । सत्तासत्ते न सा शान्ता ततश् चान्यन् न विद्यते
आकाशाद् इव शून्यत्वं तरङ्गत्वम् इवाम्भसः । नाकारादि ततो भिन्नं न दृक्चित्तशिलादि च
द्रष्टृदर्शनदृश्यानां तस्यां दृशि वयं स्थिताः । चिच्चित्तजडतादीनां नामापि न च शिक्षिताः
न सर्वापह्नवं वेद्मि न सर्वं नाप्य् अपह्नवम् । त्वत्त्वमत्त्वाद्यसम्भावात् परं शान्तं जगन्नभः
शान्ताशेषविशेषवस्तुविषया सत्यात्मतासत्यतायुक्ताहम्प्रकृतिẖ क्रियेति गदिता नास्तीति निश्चित्य तत् । नास्तीत्य् एतद् अपीह वान्यद् अहम् इत्य् अर्थैर् युतं नास्त्य् अलं तस्माद् अस्तजडाजडाङ्कुरसमुत्सेधासनेनास्यताम्
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
संशान्तभवसम्बन्धम् अरागद्वेशवासनम् । ज्ञस्येन्द्रियाणि स्पन्दन्ते यन्त्रेहापटचित्रवत्
वेष्टितोन्मुक्ततृणवत् तरङ्गवद् अवासनम् । स्पन्दन्ते व्यवहारेषु खरूपा वेद्यवेदिनः
अरागद्वेषमननम् ऊर्मिणोर्मिर् अनूर्म्यते । यथा स्वं ज्ञेन युद्धादि कर्म निर्मीयते तथा
ऊर्मिणोर्माव् अनूर्मित्वं नीते तत्सारम् अक्षतम् । यथाम्ब्व् एवाम्बुसम्पन्नं युक्तं नष्टं न किञ्चन
जीवेनाजीवतां जीवे नीते तत्सारम् अक्षतम् । तथात्मात्मैव सम्पन्नो युक्तं नष्टं न किञ्चन
चिच् चिद् अस्तु पदांशे ऽपि सचेत्या तदधश् च्युता । कदर्थप्राप्यनिर्वाणा भवत्य् अभवनिं गता
चिन्मात्रात्मात्मनिष्ठत्वात् सुखदुẖखे चिनोति नो । असती एव सत्यात्मा मुक्तो व्यवहरन्न् अपि
जीवन्मुक्तत्वम् एतावद् यत् स्थिराभ्यासयोगतः । न सुखाय न दुẖखाय भवेच् चित् प्रतिबिम्बिता