अहमर्थविमुक्तेन भावेनाभावरूपिणा । सर्वं शून्यं निरालम्बं चिच्छान्तम् इति भावयेत्
इदं रम्यम् इदं नेति बीजं ते दुẖखसन्ततेः । तस्मिन् साम्याग्निना दग्धे दुẖखस्यावसरẖ कुतः
राजन् भावनमात्रेण रम्यारम्यविभागिता । पौरुषातिशयेनान्तस् स्वेनैवाशु विलीयते
अभावनेन भावानां कर्तित्वा कर्मकाननम् । परं समेत्य राजेन्द्र विशोकतर आस्स्व भोः
भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो गलितकलनोल्लासोल्लासी विकासविलासवान् । नवनवम् अजो वृद्धो ऽत्यन्तं चिराय निरामयस् समसमसितस्वच्छाभोगो भवाभयचिद्वपुः
यथावर्ता जलभरे प्रतिबिम्बानि वा मणौ । यथेन्द्रियेषु विषया यथालोकश् च तेजसि
यथा तृणानि वा वायौ दुर्लक्ष्यस्पन्दरूपिणि । त्रिजगन्ति स्फुरन्त्य् एवं दुर्लक्ष्ये ऽनुभवात्मनि
यथा द्रवादयो ऽम्ब्वादौ तापे वा त्रसरेणवः । सन्निवेशाḫ पदार्थाङ्गे सर्गौघाश् चिद्घने तथा
तदात्मका अतद्रूपास् तत्स्थास् तत्सत्तया स्थिताः । अनन्ते नाशिनस् सर्गा बुद्बुदा जलधाव् इव
कृष्णे कृष्णस् सिते शुक्लो रक्ते रक्तो यथा मणिः । वर्णे निर्वासनाच्छत्वान् न त्व् असाव् एति रञ्जनाम्
मूढे मूढो हते भग्नो हृष्टे हृष्टस् तथेश्वरः । चित्ते निर्वासनाच्छत्वान् न त्व् असाव् एति रञ्जनाम्
वासनातो जगज्जन्म सा च सङ्केतमात्रकम् । इदं ममेति मिथ्यैव भावनं तत् परित्यज
रजोधूमान्ध्यतेजोऽभ्रैर् यथाकाशो न लिप्यते । तथा प्रकृतिसङ्कल्पैश् चित्सारं खम् अलेपकम्
यथा भूमिगता भासो रविर् एवाङ्ग नेतरत् । तथा चिद् एव सङ्कल्पास् तन्मयत्वेन नेतरत्
परम् अव्यपदेश्यात्मा निस्स्पन्दḫ पवनो यथा । स्ववेदनात्मनस् स्पन्दाद् आत्मनैवोपलभ्यते
असद् वेद्यं वेद्यम् इव चिद्रूपत्वाच् चिनोति यत् । चिन्नामयोग्यता सास्य सेयं संसृतिर् उत्थिता
यथा स्फुरत् प्रसन्नाम्बु नान्यत् सलिलमात्रतः । तथा ब्रह्म चिदच्छात्म नेतरद् ब्रह्ममात्रतः
परम् अव्यपदेश्यात्म यास्य तु व्यपदेश्यता । सैषा चिन् नाम सैवेह द्रष्टृदृश्यपदं गता
नोदय्य् अप्य् उदितं स्पन्दाद् आवर्तादि यथाम्भसः । तथानुदय्य् अप्य् उदितम् इव वित्त्वात् परे जगत्
ब्रह्म नव्यपदेश्यात्म निस्स्पन्दḫ पवनो यथा । चिच्छब्दार्थात्मता यात्र तद् अहन्तादिमज् जगत्
स्वच्छे ऽम्भसि द्रवस्पन्दाद् यथावर्तादिता मता । अनिर्देश्ये परे वित्त्वात् तथा चित्ता जगन्मयी
सर्गस्याद्यन्तयोर् उक्तो यẖ क्रमो वेदनात्मकः । स उन्मेषनिमेषाभ्यां निमेषं प्रति चिद्दृशः
प्रसरन्ति यथा स्पन्दात् सलिले चक्रकादयः । प्रसरन्ति परे वित्त्वात् तथाहन्तादितादयः
अवेदनं परं विद्धि वेदनं सर्ग उच्यते । असत् सद्वेदनाद् दृश्यं सद् अप्य् असदवेदनात्
चितेर् दृश इवोन्मेषाद् असत्सर्गो ऽवभासते । चितीक्षणनिमेषात् तु सन्न् अप्य् एव न भासते
मायाचूर्णपरिक्षेपाद् इन्द्रजालजगद् यथा । ख एवोदेति चिच्चूर्णचमत्काराद् इदं तथा
यथा स्पन्दान् निमेषे ऽपि जलम् आवर्तलक्षवत् । तथा वित्त्वात् क्षणाद् ईशे सर्गप्रलयविभ्रमाः
चिद्रूपस्य चिरक्षीणवासनस्यापि जीवतः । अवेदनमयी सत्ता यस्यासौ मुक्त उच्यते
अवासनम् असङ्कल्पं प्रवाहापतितक्रियाः । तिष्ठन्ति सम्प्रबुद्धा ये ते ह्य् अवेदनसन्मयाः
क्रियावन्तो ऽप्य् असङ्कल्पवासनास् स्तिमिताशयाः । नित्यं काष्ठसमाधानास् ते शिलोदरसन्निभाः