अण्डं तत् पाद्मजं भूत्वा सम्पन्ने पश्य रोदसी । तत्र त्व् अवयवाभासं मेर्वादीदं महत् स्थितम्
जगत्तयेति ब्रह्मैव परिपूर्णं विलोक्यते । स्पन्दैर् भावविकाराद्यैस् सविकारम् इव स्थितम्
एकैवानेकरूपेव देशकालान्तरे यथा । सरित् तथैव वल्लीत्वे स्थिता स्वस्थैव बीजता
पालीवतानि तिष्ठन्ति यथा कुम्भस्य कोटरे । तथापारस्य चिद्व्योम्नो जगन्त्य् अन्तस् स्थितानि हि
चिद्ब्रह्मकोटरगता इमास् सर्गपरम्पराः । स्फुरन्ति परिणामिन्यो जलकोशे यथोर्मयः
यथा पतन्त्या तमसि दृष्ट्या किम् अपि दृश्यते । तथा जगद् अहं चेति चितासत् प्रतिभासते
यथा दृष्ट्या तमस्य् अन्धे चक्रकाद्य् अपि दृश्यते । तथादिसर्गे ऽयम् अहम् इत्य् असत्यं चितोह्यते
चिद्घनस्य महाशक्तेर् यद् एव प्रतिभासनम् । तत् प्रकृत्यादिनामेह न सन् नासन्न् अतच् च तत्
बृंहिता भरिताकारा सत्तैका पारमात्मिकी । आभासैḫ प्रस्फुरत्य् एवम् अब्धिर् ऊर्म्यादिभिर् यथा
चिदाकाशमयं सर्वं जगद् इत्य् एव भावयन् । यस् तिष्ठत्य् उपशान्तेच्छं स ब्रह्मकवचस् सुखी
अहमर्थविमुक्तेन भावेनाभावरूपिणा । सर्वं शून्यं निरालम्बं चिच्छान्तम् इति भावयेत्
इदं रम्यम् इदं नेति बीजं ते दुẖखसन्ततेः । तस्मिन् साम्याग्निना दग्धे दुẖखस्यावसरẖ कुतः
राजन् भावनमात्रेण रम्यारम्यविभागिता । पौरुषातिशयेनान्तस् स्वेनैवाशु विलीयते
अभावनेन भावानां कर्तित्वा कर्मकाननम् । परं समेत्य राजेन्द्र विशोकतर आस्स्व भोः
भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो गलितकलनोल्लासोल्लासी विकासविलासवान् । नवनवम् अजो वृद्धो ऽत्यन्तं चिराय निरामयस् समसमसितस्वच्छाभोगो भवाभयचिद्वपुः
यथावर्ता जलभरे प्रतिबिम्बानि वा मणौ । यथेन्द्रियेषु विषया यथालोकश् च तेजसि
यथा तृणानि वा वायौ दुर्लक्ष्यस्पन्दरूपिणि । त्रिजगन्ति स्फुरन्त्य् एवं दुर्लक्ष्ये ऽनुभवात्मनि
यथा द्रवादयो ऽम्ब्वादौ तापे वा त्रसरेणवः । सन्निवेशाḫ पदार्थाङ्गे सर्गौघाश् चिद्घने तथा
तदात्मका अतद्रूपास् तत्स्थास् तत्सत्तया स्थिताः । अनन्ते नाशिनस् सर्गा बुद्बुदा जलधाव् इव
कृष्णे कृष्णस् सिते शुक्लो रक्ते रक्तो यथा मणिः । वर्णे निर्वासनाच्छत्वान् न त्व् असाव् एति रञ्जनाम्
मूढे मूढो हते भग्नो हृष्टे हृष्टस् तथेश्वरः । चित्ते निर्वासनाच्छत्वान् न त्व् असाव् एति रञ्जनाम्
वासनातो जगज्जन्म सा च सङ्केतमात्रकम् । इदं ममेति मिथ्यैव भावनं तत् परित्यज
रजोधूमान्ध्यतेजोऽभ्रैर् यथाकाशो न लिप्यते । तथा प्रकृतिसङ्कल्पैश् चित्सारं खम् अलेपकम्
यथा भूमिगता भासो रविर् एवाङ्ग नेतरत् । तथा चिद् एव सङ्कल्पास् तन्मयत्वेन नेतरत्
परम् अव्यपदेश्यात्मा निस्स्पन्दḫ पवनो यथा । स्ववेदनात्मनस् स्पन्दाद् आत्मनैवोपलभ्यते
असद् वेद्यं वेद्यम् इव चिद्रूपत्वाच् चिनोति यत् । चिन्नामयोग्यता सास्य सेयं संसृतिर् उत्थिता
यथा स्फुरत् प्रसन्नाम्बु नान्यत् सलिलमात्रतः । तथा ब्रह्म चिदच्छात्म नेतरद् ब्रह्ममात्रतः
परम् अव्यपदेश्यात्म यास्य तु व्यपदेश्यता । सैषा चिन् नाम सैवेह द्रष्टृदृश्यपदं गता
नोदय्य् अप्य् उदितं स्पन्दाद् आवर्तादि यथाम्भसः । तथानुदय्य् अप्य् उदितम् इव वित्त्वात् परे जगत्
ब्रह्म नव्यपदेश्यात्म निस्स्पन्दḫ पवनो यथा । चिच्छब्दार्थात्मता यात्र तद् अहन्तादिमज् जगत्