चन्द्रार्कवह्नितप्तायोरत्नादीनां यथार्चिषः । यथा पत्त्रादि वृक्षाणां निर्झराणां यथा कणाः
तथेदं ब्रह्मणि स्फारे जगद् बुद्ध्यादि कल्पितम् । दुẖखप्रदम् अतज्ज्ञानां तद् एवातद् इव स्थितम्
यथा वाहवशाद् वारि दामादिरचनां वहेत् । प्रकृतिर् याति नानात्वं तथा स्पन्दवशाद् इयम्
यथा सरित्पयẖकोशे वाहस् स्पन्दी न लक्ष्यते । तथाजस्रं विरचयन् सर्गम् आत्मा न लक्ष्यते
यथा स्वच्छस्य सोम्यस्य महतो ऽवहतो ऽनिशम् । वारिणो ऽप्य् अंशुभिन्नस्य कोशस्पन्दो न लक्ष्यते
तथा सर्वगतस्यापि दाम्नि व्योम्न्य् अथ वाश्मनि । अनावृतस्यानन्तस्य सतस् सत्ता न लक्ष्यते
सोम्यस्यावहतो वारेẖ कोशस्पन्दो यथात्मगः । न सन् नासन् न च पृथक् सत्ता चिद्वपुषस् तथा
स्वसङ्कल्पात्मिकां यत्र सर्वशक्तितया स्वयम् । चित्तताम् एति तत्रैतत् तत् प्रस्फुरद् इव स्थितम्
स्वसङ्कल्पात्मिकां यत्र सर्वशक्तितया स्वयम् । जहाति चित्ततां तत्र सत् संशान्तम् इव स्थितम्
एवं चेत् तन् महाभाग दृषदादिर् महाकृतिः । पार्थिवो ऽयं बृहद्भागẖ किम् उत्थो ऽथ किमात्मकः
शक्तयस् सकला एव चिन्मात्रे ब्रह्मणि स्थिताः । वटबीजे वटलतापत्त्रपुष्पफलादिवत्
जडाजडाभिधे शक्ती सर्वशक्तेस् स्त आत्मनः । शक्तीनाम् उत्तमे हेम्नि काठिन्यद्रवते यथा
रूपालोकमनस्कारविषयत्वम् उपागता । जाड्यनाम्नी तयोर् एका यासौ भूम्यादिरूपिणी
नैषा प्रजायते नापि कदाचित् प्रविलीयते । स्वाङ्गभूता सतो नित्यम् आकाशकोशवत् स्थिता
ब्रह्मणो ऽव्यतिरिक्तेयम् इति यस् सर्परज्जुवत् । असदभ्युदितो मोहस् स बोधेन विलीयते
नैषा भावविकाराख्याम् एति शुद्धचिदात्मनि । एषा किल कणोर्म्यम्बु पयसीव चिति स्थिता
यत् सतो ऽसत्त्वम् असतस् सत्त्वं वा विकृतिर् हि सा । अत्यन्तान्यस्वरूपत्वान् नास्ति तत् परमात्मनि
असत्तया सतो राजन्न् असतश् चैव सत्तया । विनष्टाकृतिर् अस्येति विकाराद्य् अभिधीयते
यत् त्व् अङ्कुरे फलादित्वं क्षीरादौ वा घृतादिता । सत्तावभासमात्रं तत् स्फुरत्य् अम्ब्व् इव वीचिभिः
यद् यथा दृश्यते यत्र तत् तथा तत्र विद्यते । देशकालविभागात्म तथा संवेदनात्मकं
देशकालान्तरगतो ऽप्य् एक एव यथा गिरिः । बीजं फलान्तम् अप्य् एवम् एकम् अत्रान्यतास्ति नो
वटता वटधानायां यादृक्कालोदया यथा । तथा जडाजडेयं श्रीस् संस्थिता चिन्मयात्मनि
आकारराशिरूपेण भूरिभावविकारिणा । आभास एव स्फुरति स्वप्नेनेव मनो नृप
शैलाद्याकारता स्थूला यथास्य परमात्मनः । स्फुरत्य् असत्या सत्या वा तथा वद पुनर् मम
इति सर्वं समं शान्तं चिद्व्योम ततम् अव्ययम् । अपर्यन्तम् अनाभासम् आसीद् अस्ति भविष्यति
यन् नोर्ध्वं नाप्य् अधो नाशा न तमो न प्रकाशनम् । नेतरत् किञ्चिद् अपि च सर्वम् एव सदैव च
चिन्मात्रैकात्मना तेन परमेणेश्वरेण नः । आद्यन्तमध्यमुक्तेन सङ्कल्पश् चेतितस् स्वयम्
स्थितस् सङ्कल्परूपात्मा मनोमूर्तिर् अजस् ततः । तेन सङ्कल्पितं व्योम मनसेदं बृहद्वपुः
मनोव्योम्नोर् घनतया सम्पन्नḫ पवनस् स्फुरन् । मनोव्योमानिलाश्लेषात् प्रकाशं बुद्धवांस् ततः
तेजोऽंशभावसङ्कल्परूपं पश्चात् पयस् स्थितम् । स चतुष्टयपिण्डो ऽथ मनसो ऽण्डतयेक्षितः